कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

प्रकारान्तरमन्त्राभिधान · ह

ह (51) ।

हः शिवो गगनं हंसो नागलोकोऽम्बिकापतिः ।नकुलीशो जगत्प्राणः प्राणेशः कपिलाऽमलः ॥ १६३ ॥
2.50.163 · p. 21
अनुष्टुप्
परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनम् ।मृगोऽभयाऽरुणा स्थाणुः क्रोष्टुः कूपविरावणः ॥ १६४ ॥
2.50.164 · p. 21
अनुष्टुप्
लक्ष्मीर्ब्रह्मा हरिः शम्भुः प्राणशक्तिर्ललाटजः ।-----------------------------------स्व(स)कोपवारणः शूली चैतन्यं पादपूरणः ॥ १६५ ॥
2.50.165 · p. 21
अनुष्टुप्
महालक्ष्मीः परं नादो मेघनादो हरिर्मनः ।बिन्दुर्दुर्गा प्रिया देवी मेघः श्यामेश्वरः पुमान् ॥ १६६ ॥
2.50.166 · p. 22
अनुष्टुप्
दक्षपादः सदा शम्भु साखोटः सोममण्डलम् ॥ १६७ ॥
2.50.167 · p. 22