कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

अव्ययवर्गः · हान्ताः

॥ हपादः ॥

हंहो संबोधने प्र[114]श्नेऽहहेत्यद्भुतखेदयोः ।अह क्षेपे नियोगे स्यादहो प्रश्ननियोगयोः ॥
34.21.1 · p. 244
अनुष्टुप्

॥ [हार्धश्लोकः] ॥

ह स्यात्संबोधने पादपूरणेऽनव्ययं शिवे ।हा शोके [च] विषादे च दुःखार्थे च स्मृतो बुधैः ॥
34.21.2 · p. 244
अनुष्टुप्
हि हेतौ स्याद्विशेषार्थे एकार्थे पूरणेऽपि च ।ही विषादे विस्मये स्याद्दुःखहेत्वोरपि स्मृतः ॥
34.21.3 · p. 244
अनुष्टुप्
हाहा खेदे हुहु हर्षे गन्धर्वार्थेऽमू त्वनव्ययम् ।हे है व्यस्तौ समस्तौ च हूतौ संबोधने स्मृतौ ॥
34.21.4 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हो हौ चैवंविधौ ज्ञेयौ हूतौ संबोधने तथा ।
34.21.5 · p. 245
अनुष्टुप्

॥ [हश्लोकः]॥

सह साकल्यसादृश्ययौगपद्यसमृद्धिषु ॥
34.21.6 · p. 245
अनुष्टुप्
विद्यमाने च संबन्धे सहशब्दः प्रकीर्तितः ।
34.21.7 · p. 245