कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पूतिकरज

pūtikarajaपुं · masc.

In 7 kośas: 5 synonym verses, 3 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.48
प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः ।करञ्जभेदाः षड्ग्रन्था मर्कट्यङ्गारवल्लरी ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.183 · p. 269
पूतीकरञ्जः कलिकृत् पूतीकरज इत्यपि ।तथैव पूतिकरजोऽथान्यो घृतकरञ्जकः ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.97 · p. 64
प्रकीर्यः पूप्तिकरजः कालकृत् कलिमारकः ।पूती करजकः पत्रसूची कलहनाशनः ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.501 · p. 65
चीरिबिल्वः प्रकीर्यस्तु पूतिका कलिमारकः ।तत्रैव पूतिकरजो भेदास्त्वङ्गारवल्लरी ॥ ५०१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.62 · p. 50
करञ्जे स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः ।कालिंगे पूतिकरजः पूतिकः कलिकारकः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.

पूतिकरज as a meaning in nānārtha verses

  • धरणिकोश प्रकीर्यप्रकीर्यः पूतिकरजे विनिकीर्ये च की[74]र्तितः । अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते ॥ Dharaṇikośa 25.2.28
  • कोषकल्पतरु प्रकीर्यविद्वद्भिः कथितः श्वशुर्य इति च भ्रातृव्य उक्तो रिपौ स्याद्भ्रातुस्तनयेऽथ पूतिकरजे प्रोक्तः प्रकीर्यः पुमान् । भेद्याभो विनिकीर्यकेऽथ सुरभेर्भावे मनोज्ञस्य च सौरभ्यं गुणगौरवे निगदितं नेपथ्यमुक्तं बुधैः ॥ ७१ ॥ Koṣakalpataru 6.26.71
  • शब्दरत्नावली कलिङ्गउत्सर्गस्त्यागसामान्यन्यायदानेषु वर्तते । कलिङ्गोऽपि च धूम्याटे स्यात् पूतिकरजेऽपि च ॥ Śabdaratnāvalī 7.3.32