इति शैलवर्गः
अथ वनौषधिवर्गः
अटव्यरण्यं विपिनं गहनं काननं वनम् ।
2.4.1
अनुष्टुप्
महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥
2.4.1
अनुष्टुप्
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
2.4.3
अनुष्टुप्
अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥
2.4.2
अनुष्टुप्
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ।
2.4.5
अनुष्टुप्
स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३ ॥
2.4.3
अनुष्टुप्
वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः ।
2.4.7
अनुष्टुप्
वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥
2.4.4
अनुष्टुप्
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
2.4.5
अनुष्टुप्
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ।
2.4.10
अनुष्टुप्
ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ६ ॥
2.4.6
अनुष्टुप्
वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली ।
2.4.12
अनुष्टुप्
प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु ।
2.4.13
अनुष्टुप्
स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः ॥ ८ ॥
2.4.8
अनुष्टुप्
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।
2.4.15
अनुष्टुप्
लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥
2.4.9
अनुष्टुप्
नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः ।
2.4.17
अनुष्टुप्
अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥
2.4.10
अनुष्टुप्
समे शाखालते स्कन्धशाखाशाले शिफाजटे ।
2.4.19
अनुष्टुप्
शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥
2.4.11
अनुष्टुप्
शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ।
2.4.21
अनुष्टुप्
सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥
2.4.12
अनुष्टुप्
काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् ।
2.4.23
अनुष्टुप्
निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ ॥ १३ ॥
2.4.13
अनुष्टुप्
पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।
2.4.25
अनुष्टुप्
पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥
2.4.14
अनुष्टुप्
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ।
2.4.27
अनुष्टुप्
आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥
2.4.15
अनुष्टुप्
क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ।
2.4.29
अनुष्टुप्
स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥
2.4.16
अनुष्टुप्
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ।
2.4.31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥
2.4.17
अनुष्टुप्metre not read in every line
द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ।
2.4.33
अनुष्टुप्
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले ॥ १८ ॥
2.4.18
अनुष्टुप्
बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ।पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले ॥ १९ ॥
2.4.19
अनुष्टुप्
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला ।
2.4.36
अनुष्टुप्
बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः ।तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥
2.4.21
अनुष्टुप्
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।
2.4.38
अनुष्टुप्
कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥
2.4.22
अनुष्टुप्
सप्तपर्णो विशालत्वक्शारदो विषमच्छदः ।
2.4.40
अनुष्टुप्
आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः ॥ २३ ॥आरेवतव्याधिघातकृतमालसुवर्णकाः ।
2.4.41
अनुष्टुप्
स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥
2.4.24
अनुष्टुप्
वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः ।
2.4.43
अनुष्टुप्
पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥
2.4.25
अनुष्टुप्
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
2.4.45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥
2.4.26
अनुष्टुप्metre not read in every line
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः ।
2.4.47
अनुष्टुप्
पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः ।
2.4.48
अनुष्टुप्
पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ॥ २९ ॥
2.4.29
अनुष्टुप्
रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः ।
2.4.50
अनुष्टुप्
द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥
2.4.30
अनुष्टुप्
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः ।
2.4.52
अनुष्टुप्
रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥
2.4.31
अनुष्टुप्
बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।
2.4.54
अनुष्टुप्
प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः ॥ ३२ ॥
2.4.32
अनुष्टुप्
गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
2.4.56
अनुष्टुप्
आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ ३३ ॥
2.4.33
अनुष्टुप्
कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः ।
2.4.58
अनुष्टुप्
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥
2.4.34
अनुष्टुप्
राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः ।
2.4.60
अनुष्टुप्
गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः ।
2.4.61
अनुष्टुप्
कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६ ॥सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः ।विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥
2.4.37
अनुष्टुप्
ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका ।
2.4.63
अनुष्टुप्
तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥
2.4.38
अनुष्टुप्
काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके ।
2.4.65
अनुष्टुप्
गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥
2.4.39
अनुष्टुप्
तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ ।
2.4.67
अनुष्टुप्
श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ ॥ ४० ॥
2.4.40
अनुष्टुप्
क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः ।
2.4.69
अनुष्टुप्
नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥
2.4.41
अनुष्टुप्
तूलं च नीपप्रियककदम्बास्तु हलिप्रियः ।
2.4.71
अनुष्टुप्
वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥
2.4.42
अनुष्टुप्
गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके ॥ ४३ ॥
2.4.43
अनुष्टुप्
सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ।
2.4.74
अनुष्टुप्
साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः ॥ ४४ ॥
2.4.44
अनुष्टुप्
नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः ।
2.4.76
अनुष्टुप्
राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥
2.4.45
अनुष्टुप्
इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ।
2.4.78
अनुष्टुप्
पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ४६ ॥
2.4.46
अनुष्टुप्
पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः ।
2.4.80
अनुष्टुप्
चिरबिल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥
2.4.47
अनुष्टुप्
प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः ।करञ्जभेदाः षड्ग्रन्था मर्कट्यङ्गारवल्लरी ॥ ४८ ॥
2.4.48
अनुष्टुप्
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
2.4.83
अनुष्टुप्
गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥
2.4.49
अनुष्टुप्
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥
2.4.51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
अल्पा शमी शमीरः स्याच्छमीसक्तुफला शिवा ।
2.4.86
अनुष्टुप्
पिण्डीतको मरुबकः श्वसनः करहाटकः ॥ ५२ ॥
2.4.52
अनुष्टुप्
शल्यश्च मदने शक्रपादपः पारिभद्रकः ।भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः ।
2.4.88
अनुष्टुप्
पाटलिः पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया ।लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा ।
2.4.89
अनुष्टुप्
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ५६ ॥स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥
2.4.57
अनुष्टुप्
अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः ॥ ५८ ॥
2.4.58
नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ।अभया त्वव्यथा पथ्या कायस्था पूतनामृता ॥ ५९ ॥हरीतकी हैमवती चेतकी श्रेयसी शिवा ।
2.4.92
अनुष्टुप्
पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ॥ ६० ॥कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः ।
2.4.93
अनुष्टुप्
पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः ॥ ६१ ॥
2.4.61
अनुष्टुप्
काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ।
2.4.95
अनुष्टुप्
अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ॥ ६२ ॥पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा ।
2.4.96
अनुष्टुप्
कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ।भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥
2.4.63
अनुष्टुप्
एतस्य कलिका गन्धफली स्यादथ केसरे ।बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥
2.4.64
अनुष्टुप्
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ।
2.4.99
अनुष्टुप्
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥
2.4.65
अनुष्टुप्
श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका ।जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥
2.4.66
अनुष्टुप्
एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले ।
2.4.102
अनुष्टुप्
कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥
2.4.67
अनुष्टुप्
कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके ।सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥
2.4.68
अनुष्टुप्
वेणी खरा गरी देवताडो जीमूत इत्यपि ।
2.4.105
अनुष्टुप्
श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥
2.4.69
अनुष्टुप्
भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा ।
2.4.107
अनुष्टुप्
शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥
2.4.70
अनुष्टुप्
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥
2.4.71
अनुष्टुप्
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता ।
2.4.110
अनुष्टुप्
सुमना मालती जातिः सप्तला नवमालिका ॥ ७२ ॥
2.4.72
अनुष्टुप्
माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः ।
2.4.112
अनुष्टुप्
सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥
2.4.73
अनुष्टुप्
तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः ।
2.4.114
अनुष्टुप्
नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥
2.4.74
अनुष्टुप्
सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे ।
2.4.116
अनुष्टुप्
पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः ॥ ७५ ॥
2.4.75
अनुष्टुप्
ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् ।
2.4.118
अनुष्टुप्
प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥
2.4.76
अनुष्टुप्
करवीरे करीरे तु क्रकरग्रन्थिलावुभौ ।
2.4.120
अनुष्टुप्