कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

द्वितीयः काण्डः · वनाध्यायः (1/3)

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पर्वताध्याय एकादशः ॥

वनाध्यायः

काननं विपिनारण्यगहनानि वनं वनी ।अटवी दवदावौ च कान्तारं सत्रमित्यपि ॥ ४३५ ॥
2.3.435 · p. 58
अनुष्टुप्
वन्या वनसमूहे स्याद्वन्यं वनभवे त्रिषु ।महारण्यमरण्यानी प्रस्तारस्तु तृणाटवी ॥ ४३६ ॥
2.3.436 · p. 58
अनुष्टुप्
कृत्रिमं वनमाराम उद्यानोपवने समे ।राज्ञां तु वनमाक्रीडो वेश्मारामस्तु निष्कुटः ॥ ४३७ ॥
2.3.437 · p. 58
अनुष्टुप्
गणिकामात्यभवनोपवने वृक्षवाटिका ।प्रमदवनं तद्यत्स्यादुपवनमन्तःपुराङ्गनाद्युचितम् ॥ ४३८ ॥
2.3.438 · p. 58
अनुष्टुप्metre not read in every line
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
2.3.439 · p. 58
अनुष्टुप्metre not read in every line
वन्ध्योऽफलोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितो जातपुष्पः स्यात् फलिनः फलवान् फली ॥ ४४० ॥
2.3.440 · p. 58
अनुष्टुप्
उत्फूल्लफुल्लसंफुल्लप्रफुल्लविकचस्फुटाः ।व्याकोचोन्मिषितोन्निद्रोद्बुद्धा वन्ध्यादयस्त्रिषु ॥ ४४१ ॥
2.3.441 · p. 58
अनुष्टुप्
वानस्पत्यः फली पुष्पात् फल्यपुष्पाद्वनस्पतिः ।फलपाकावसनाः स्युरोषध्यो व्रततिर्लता ॥ ४४२ ॥
2.3.442 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
वल्ली च वल्लरी चाथ सैव वीरुत् प्रतानिनी ।गुल्मिन्युलपमस्त्री तु कोटरो निष्कुहः पुमान् ॥ ४४३ ॥
2.3.443 · p. 59
अनुष्टुप्
बुध्नाङ्घ्री मूलनेत्रे च शिखराग्रे शिखा स्त्रियाम् ।त्वक्त्वचाच(छ?)ल्लयश्चोलो वल्कं वल्कलमस्त्रियाम् ॥ ४४४ ॥
2.3.444 · p. 59
अनुष्टुप्
परुः पर्व पुमान् ग्रन्थिर्विस्तारो विटपोऽस्त्रियाम् ।शाखालता स्कन्धशाखा शाला तुल्ये शिफाजटे ।अवरोहस्तु सा शाखा या मूलादग्रमाश्रिता ॥ ४४५ ॥
2.3.445 · p. 59
अनुष्टुप्
अस्त्री स्थाणुर्ध्रुवः शङ्कुरङ्कूरोऽङ्कुरमस्त्रियाम् ।स्तम्बः प्रकाण्डमस्त्री स्याद्ध्रस्वशाखाशिफः क्षुपः ॥ ४४६ ॥
2.3.446 · p. 59
अनुष्टुप्
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
2.3.447 · p. 59
अनुष्टुप्
स्युरुच्छ्रायोच्छ्रयोत्सेधा नगादीनां समुन्नतौ ।माढिः शङ्कुः पत्रसिरा त्रिषु शुङ्गा च कोशिका ॥ ४४८ ॥
2.3.448 · p. 59
अनुष्टुप्
पल्लवोऽस्त्री किसलयं प्रवालं पुंनपुंसकम् ।जालकं क्षारकः पुंसि कलिका कोरकोऽस्त्रियाम् ॥ ४४९ ॥
2.3.449 · p. 59
अनुष्टुप्
मुकुलोऽस्त्री कुड्मलोऽस्त्री वल्लरी मञ्जरी स्त्रियौ ।गुलुच्छगुच्छस्तबकाः पुष्पं तु कुसुमं सुमम् ॥ ४५० ॥
2.3.450 · p. 59
अनुष्टुप्
मणीचकं प्रसूनं च सूनं सुमनसः स्त्रियः ।प्रसवो मकरन्दस्तु मरन्दः पुष्पजं मधु ॥ ४५१ ॥
2.3.451 · p. 60
अनुष्टुप्
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
2.3.452 · p. 60
वसन्ततिलका
विदलः पाटितं दारु काष्ठं दार्विन्धनैधसी ।इध्ममेधः समित् स्त्री स्याद्वं शिर्ना परुरङ्कुरः ॥ ४५३ ॥
2.3.453 · p. 60
अनुष्टुप्
पुंनागाम्रादिकं सर्वं द्विहीनं फलपुष्पयोः ।अश्वत्थमैङ्गुदं प्लाक्षं नैयग्रोधं च बार्हतम् ॥ ४५४ ॥
2.3.454 · p. 60
अनुष्टुप्
शैग्रवं वैणवं च स्युरश्वत्थादिफले क्रमात् ।फले स्वलिङ्गा व्रीह्याद्या हरीतक्यादयस्तथा ॥ ४५५ ॥
2.3.455 · p. 60
अनुष्टुप्
पुष्पे स्वलिङ्गा जात्याद्याः पुष्पे क्लीबे च पाटला ।विदार्याद्यास्तु मूलेऽपि जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५६ ॥
2.3.456 · p. 60
अनुष्टुप्
तत्फलेऽथ स्त्रियामेव शिम्बी स्यात् फलकोशिका ।अश्वत्थपिप्पलगजाशनबोधिवृक्ष-यज्ञद्रुमाश्चलदलोऽथ पलाशपर्णौ ।यज्ञीयकिंशुकसमिद्द्रुमवातपोताब्रह्मद्रुमे स्युरथ दन्तशठः कपित्थः ॥ ४५७ ॥
2.3.457 · p. 60
अनुष्टुप्two metres in one verse
दधित्थमन्मथदधिफलपुष्पफला अपि ।आम्रे माकन्दकामाङ्गचूतास्तस्मिन् ससौरमै ॥ ४५८ ॥
2.3.458 · p. 60
अनुष्टुप्
सहकारो रसालश्च जटालो बहुपाद्वटः ।न्यग्रोधोऽथ नदीसर्ज इन्द्रद्रुः ककुभोर्जुनः ॥ ४५९ ॥
2.3.459 · p. 61
अनुष्टुप्
वीरद्रुश्च सुगन्धिः स्यादर्जुनश्च (नाख्यो ?) धनंजयः ।अश्वकर्णो लतावृक्षः कुशिको दीर्घवृन्तकः ॥ ४६० ॥
2.3.460 · p. 61
अनुष्टुप्
राजकद्रुरजाकर्णस्तिमिशस्तु रथद्रुमः ।अश्मगर्भो रक्तसारः स्यन्दनो नेमिरित्यपि ॥ ४६१ ॥
2.3.461 · p. 61
अनुष्टुप्
नागरङ्गस्तु नारङ्गो नार्यङ्गस्तक्रवासनः ।जम्बीरे दन्तशठो जम्भलजम्भीरजम्भलिकुचाश्च ॥ ४६२ ॥
2.3.462 · p. 61
अनुष्टुप्metre not read in every line
वरणे सिततरुवरुणौ सेतुकुमारौ च तिक्तशाकश्च ।अभया पूतना पथ्या हरीतक्यमृता शिवा ॥ ४६३ ॥
2.3.463 · p. 61
अनुष्टुप्metre not read in every line
वयःस्था श्रेयसी नन्दी निर्व्यथा रेचकी जया ।अमृता स्यात्तिष्यफला श्रेयःस्थामलकी त्रिषु ॥ ४६४ ॥
2.3.464 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ति (wrong syllable)
पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः ।अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे ।मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥
2.3.465 · p. 61
अनुष्टुप्two metres in one verse
वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ।गायत्री खदिरः शल्यः कुम्भाण्डो दन्तधावनः ॥ ४६६ ॥
2.3.466 · p. 61
अनुष्टुप्
खरत्वग्बालपुत्रश्च खरसारोऽसितच्छदः ।खदिरे स्युर्विट्खदिरश्यामसारारिमेदकाः ॥ ४६७ ॥
2.3.467 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वि (wrong syllable)
श्वेतस्कन्धमहासारसोमवल्कघुणौकसः ।धवस्तु शरभाक्षः स्याद्गौराक्षो मधुरच्छदः ॥ ४६८ ॥
2.3.468 · p. 62
अनुष्टुप्
कालस्कन्धः कृष्णसारतिन्दुकस्फूर्जका अपि ।शिंशपायां तीक्ष्णगन्धा भस्मगर्भावसादनी ॥ ४६९ ॥
2.3.469 · p. 62
अनुष्टुप्
कपिला पिच्छिला कृष्णसारा सैवाङ्गसारका ।अथ स्यात् पीलुकः काकः काकेन्दुः काकतिन्दुकः ॥ ४७० ॥
2.3.470 · p. 62
अनुष्टुप्
मृदुत्वक्चर्मिणौ भूर्जे भूर्जपत्रः सितच्छदः ।सर्जो निकोचकाङ्कोलौ बिल्वः श्रीफलबिल्वकौ ॥ ४७१ ॥
2.3.471 · p. 62
अनुष्टुप्
तत्र शाण्डिल्यशैलूषपूतिपाकमहाफलाः ।मालूरश्चाथ यज्ञाङ्गो हेमदुग्ध उदुम्बरः ॥ ४७२ ॥
2.3.472 · p. 62
अनुष्टुप्
क्षीरी जन्तुफलस्तस्मिन् जघनेफल इत्यपि ।फल्गुस्तु मलपूः काकोदुम्बरी जघनेफला ॥ ४७३ ॥
2.3.473 · p. 62
अनुष्टुप्
कोविदारे चमरिको रक्तपुष्पो युगच्छदः ।कुद्दालः काञ्चनारोऽपि महिषाक्षस्तु गुल्गुलुः ॥ ४७४ ॥
2.3.474 · p. 62
अनुष्टुप्
कौशिको धूपनिर्यासः कुम्भोलूखलकं पुरः ।निम्बे स्युर्हिङ्गुनिर्याससर्वतोभद्रमालकाः ॥ ४७५ ॥
2.3.475 · p. 62
अनुष्टुप्
अरिष्टः पिचुमन्दश्च स एव यवनेष्टकः ।स्थिरायुः पिच्छिला मोचा पूरणी शाल्मलिर्द्वयोः ॥ ४७६ ॥
2.3.476 · p. 63
अनुष्टुप्
शाल्मलीवेष्टके पिच्छा कण्टकी कूटशाल्मलिः ।रोचनो रक्तपुष्पश्च व्याघ्रपात्तु विकङ्कतः ॥ ४७७ ॥
2.3.477 · p. 63
अनुष्टुप्
मधुच्छदो ध्रुवावृक्षो ग्रन्थिलोऽथ विषाणिनि ।अजावृक्षो मेषशृङ्गश्चक्षुष्यो बहुशृङ्गकः ॥ ४७८ ॥
2.3.478 · p. 63
अनुष्टुप्
वेल्लन्तको वीरतरुर्वीरद्रुः पृथुमूलकः ।बह्वाकारो दीर्घमूलो रुद्राक्षस्तु महामुनिः ॥ ४७९ ॥
2.3.479 · p. 63
अनुष्टुप्
चतुर्मुखो ब्रह्मसंज्ञः पञ्चास्यस्तु हराह्वयः ।षण्मुखो गुहसंज्ञः स्यात् किंपाकः काकमर्दकः ॥ ४८० ॥
2.3.480 · p. 63
अनुष्टुप्
कुलवृक्षो रज्जुदारुरुद्दालो बहुवारकः ।शीतः श्लेष्मातकः शेलुर्विषघ्नो द्विजकुत्सितः ॥ ४८१ ॥
2.3.481 · p. 63
अनुष्टुप्
न्युब्जः कर्मफलो हव्यकर्मरङ्गशठेश्वराः ।महीपतिर्दन्तशठः शिरीषस्तु कपीतनः ॥ ४८२ ॥
2.3.482 · p. 63
अनुष्टुप्
भण्डिलोऽथ जटी प्लक्षः कर्पटी बहुमूलकः ।दोषग्राहस्तु कनको द्रावणोऽम्बुप्रसादनः ॥ ४८३ ॥
2.3.483 · p. 63
अनुष्टुप्
उल्लेखनीयो लक्ष्मीवान् स्रावणश्च सरश्च सः ।शिग्रुर्मोचकतीक्ष्णगन्धवृषदा अक्षीभशोभाञ्जनौरक्तोऽसौ मधुशिग्रुरेव वनजः स्यात् फेनिलोऽरिष्टकः ।शल्यः स्यात् करहाटको मरुवकः पिण्डीतकश्छर्दन-स्तस्मिन् गारवराटकौ च मदनश्चाङ्गारकस्त्विङ्गुदी ॥ ४८४ ॥
2.3.484 · p. 63
अनुष्टुप्two metres in one verse
कुणवृक्षः पूतिवल्कस्तापसद्रुम इङ्गुदः ।स्त्रीप्रियो वञ्जोलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ४८५ ॥
2.3.485 · p. 64
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ञ्जो (wrong syllable)
पिण्डी तु रक्ताशोकः स्याद्गर्दभाण्डः कपीतनः ।कन्दरालः सुपार्श्वश्च प्लक्षोऽथो भूतपुष्पकः ॥ ४८६ ॥
2.3.486 · p. 64
अनुष्टुप्
स्योनाकशूकफजलरण्डुकरक्तपुष्प-पत्रोर्णगोपनटटुण्डुकदीर्घवृन्ताः ।मण्डूकपर्णशुकनासकुटन्नटर्क्ष-रोमच्छदाश्च तिलकक्षुरकौ समानौ ॥ ४८७ ॥
2.3.487 · p. 64
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
समानाः स्युः परिव्याधकर्णिकारद्रुमोत्पलाः ।घण्टा तु पाटलिर्मोक्षमुष्कगोलीढझाटलाः ॥ ४८८ ॥
2.3.488 · p. 64
अनुष्टुप्
स्त्रियां फलेरुहामोघो काचस्थाली च पाटला ।द्वयोस्तु पाटलिस्तुल्यौ बुर्बुरश्वेतकण्टकौ ॥ ४८९ ॥
2.3.489 · p. 64
अनुष्टुप्
पनसः कण्टकिफलः पयोण्डो जघनेफलः ।मधुबीजोऽथ पनसे निचुलो हिज्जलोऽम्बुजे ।समौ तमालतापिञ्छौ कदम्बस्तु हलिप्रियः ॥ ४९० ॥
2.3.490 · p. 64
अनुष्टुप्
नीपकश्च प्रियश्चाथ सन्नकद्रुर्धनुष्पटः ।प्रियालो दीर्घवृन्तस्तु वेत्रो दुर्धर्षणश्च सः ॥ ४९१ ॥
2.3.491 · p. 64
अनुष्टुप्
सालस्तु राजनिर्यासो मोरटोऽङ्कोलपत्रकः ।सप्तपर्णस्त्वयुक्पर्णः शारदो विषमच्छदः ॥ ४९२ ॥
2.3.492 · p. 64
अनुष्टुप्
विशालत्वक् कटुक्षीरः करको दाडिमो द्वयोः ।फलपूरो बीजपूरो रुचको मातुलुङ्गकः ॥ ४९३ ॥
2.3.493 · p. 65
अनुष्टुप्
मातुलुङ्गी च सैवाम्ला पूतिपुष्पी वृकाल्मिका ।तीक्ष्णगन्धेन्द्रसुरससिन्दुवारास्तु नीलिका ॥ ४९४ ॥
2.3.494 · p. 65
अनुष्टुप्
भूतकेशी च निर्गुण्डी शुकनासस्तु निम्बकः ।शुकसारो महानिम्बः कट्वङ्गो दीर्घवृन्तकः ॥ ४९५ ॥
2.3.495 · p. 65
अनुष्टुप्
इन्द्रद्रः कुटजो वत्सः शक्रश्च गिरिमल्लिका ।यवक्षारः कलिङ्गेन्द्रयवभद्रयवानि च ॥ ४९६ ॥
2.3.496 · p. 65
अनुष्टुप्
अस्त्रियां स्युः कलिङ्गाद्या लिकुचो लकुचो डहुः ।पीतसारस्तु बन्धूकप्रसवासनजीवकाः ॥ ४९७ ॥
2.3.497 · p. 65
अनुष्टुप्
सर्जश्च क्षारवृक्षस्तु मुष्ककश्च विषापहः ।पुंनागो पुरुषस्तुङ्गः केसरो देववल्लभः ॥ ४९८ ॥
2.3.498 · p. 65
अनुष्टुप्
बकुलो मञ्जरीहृद्यश्चाम्पेयश्चम्पकोऽस्य तु ।कलिका स्याद्गन्धकली नागः स्यात् काञ्चनाह्वयः ॥ ४९९ ॥
2.3.499 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
चाम्पेयः केसरश्चाथ द्वौ पीतनकपीतनौ ।आम्रातके करञ्जस्तु करजो नक्तमालकः ॥ ५०० ॥
2.3.500 · p. 65
अनुष्टुप्
चीरिबिल्वः प्रकीर्यस्तु पूतिका कलिमारकः ।तत्रैव पूतिकरजो भेदास्त्वङ्गारवल्लरी ॥ ५०१ ॥
2.3.501 · p. 65
अनुष्टुप्
मर्कटी पुंसि षड्ग्रन्थो गोजिह्वादार्विके समे ।शम्याकः कृतमालदीर्घकलिका वारेवतः प्रग्रहोराजद्रुश्चतुरङ्गलोऽपि च सुवर्णश्च स्युरारग्वधे ।नादेयी विदुलो रथाभ्रकुसुमौ वानीरशीतौ परि-व्याधो वञ्जुलवेतसौ च विदलश्चामी समाना नव ॥ ५०२ ॥
2.3.502 · p. 66
अनुष्टुप्two metres in one verse
श्रीपर्णी सर्वतोभद्रा गम्भारी मधुपर्णिका ।काश्मरी भद्रपर्णी च काश्मर्यश्चाथ कट्फलः ॥ ५०३ ॥
2.3.503 · p. 66
अनुष्टुप्
कैडर्यो ना कुमुदिका श्रीपर्णी कुम्भिका च सा ।अगस्त्यो मुनिमार्जारावगस्तिः शुकसारकौ ॥ ५०४ ॥
2.3.504 · p. 66
अनुष्टुप्
शमी शिवा सक्तुफला जया साल्पा शमीरकः ।पीलुर्गुडफलः स्रंसी तत्र शैलसमुद्भवे ॥ ५०५ ॥
2.3.505 · p. 66
अनुष्टुप्
अक्षोटकन्दरालौ द्वौ सुषेणः करमर्दकः ।कृष्णपाकफलौ विघ्नः पाककृष्णफलोऽपि सः ॥ ५०६ ॥
2.3.506 · p. 66
अनुष्टुप्
घोण्टा तु बदरी कोलिः कर्कन्धूर्न नपुंसके ।कुवलं फेनिलं कोलं सौवीरं बदरं तथा ॥ ५०७ ॥
2.3.507 · p. 66
अनुष्टुप्
लताकोलौ तु खपुरा गिरिकोलौ तु सौरसः ।हस्तिकोलौ महाघोण्टा गोपघोण्टा महाफला ॥ ५०८ ॥
2.3.508 · p. 66
अनुष्टुप्
जलकोलौ तु सङ्गाली शिवकोलौ तु कर्कटी ।जम्ब्वां त्रिसारा विरजा महाजम्ब्वां महाफला ॥ ५०९ ॥
2.3.509 · p. 67
अनुष्टुप्
सुरसा राजजम्ब्वां तु सुलभः सुरभिच्छदः ।काकजम्ब्वां तु मेघाभः शिवेष्टः शतपल्लवः ॥ ५१० ॥
2.3.510 · p. 67
अनुष्टुप्
जम्बूटनीलजम्बूटौ सल्लकी सुखिनी ध्रुवा ।हस्तिप्रिया ह्लादिनी च सुरभिः कुञ्जराशनः ॥ ५११ ॥
2.3.511 · p. 67
अनुष्टुप्
स्नुक् स्त्रियां वज्रसीहुण्डबहुक्षीरविषाणिनः ।महावृक्षमहाक्षीरयुग्मकण्टकचित्रकाः ॥ ५१२ ॥
2.3.512 · p. 67
अनुष्टुप्
स्नुह्यां समन्तदुग्धा स्याद्वज्रिणी च त्रिकण्टका ।ऐरावतो नागरङ्गो नमेरुर्नागभूरुहः ॥ ५१३ ॥
2.3.513 · p. 67
अनुष्टुप्
सुभिक्षा त्वनलज्वाला धातकी धातुपुष्पिका ।अजशृङ्गी विषाणी स्यात् पप्फणस्तु श्ववामनः ॥ ५१४ ॥
2.3.514 · p. 67
अनुष्टुप्
भूतृणो गुह्यबीजः स्यात् सुगन्धः पुंस्त्वनाशनः ।अम्लिका तिन्त्रिणी चिञ्चा शुक्तिर्नारी कपिप्रिया ॥ ५१५ ॥
2.3.515 · p. 67
अनुष्टुप्
रोही रोहितकः कुन्दो माघ्यः पूगः कलिङ्गकः ।क्रमुको ब्रह्मदारुश्च पूगी पुंसि तु पर्पटः ॥ ५१६ ॥
2.3.516 · p. 67
अनुष्टुप्
तत्फले कुहली पाली क्रमुकः पट्टिकाह्वयः ।लाक्षाप्रसादनः पट्टी सरलः पीतपादपः ॥ ५१७ ॥
2.3.517 · p. 67
अनुष्टुप्
पूतिकाष्ठोऽपि काम्पिल्यः कर्कशश्चन्द्र इत्यपि ।अश्वकर्णमहासारसस्यसंवरसर्जकाः ॥ ५१८ ॥
2.3.518 · p. 68
अनुष्टुप्
सालोऽथ गालवो लोध्रः शाबरस्तिल्वमार्जनौ ।तिरीटोऽथ फलाध्यक्षो राजादन इमौ समौ ॥ ५१९ ॥
2.3.519 · p. 68
अनुष्टुप्
अर्के तु वसुकास्फोटसदापुष्पविकीरणाः ।मन्दारगणरूपौ च श्वेतार्कस्तु प्रतापसः ॥ ५२० ॥
2.3.520 · p. 68
अनुष्टुप्
एकाष्ठीलः पाशुपतालर्को च शिवमल्ल्यपि ।शुक्लपुष्पः कुरवको नागरो मदनोऽपि सः ॥ ५२१ ॥
2.3.521 · p. 68
अनुष्टुप्
महासहायामम्लानः शोणे तस्मिन् कुरण्टकः ।पीते तस्मिन् कुरवकस्तज्झाटे कलशोदकः ॥ ५२२ ॥
2.3.522 · p. 68
अनुष्टुप्
किंकिरातः किंकिराटो झिण्टी सैरेयकः पुमान् ।पुंसि त्वार्तगलो बाणो बाणा दासी सहा च सा ॥ ५२३ ॥
2.3.523 · p. 68
अनुष्टुप्
रुजाकरस्त्वार्तगलो भीषणो बहुकण्टकः ।स्वादुतिक्तफलो जालवृक्षो दुर्धर्षकर्कशौ ॥ ५२४ ॥
2.3.524 · p. 68
अनुष्टुप्
काकादनी गृध्रनखी दुराधर्षा स्थिरा च सा ।जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ ५२५ ॥
2.3.525 · p. 68
अनुष्टुप्
अग्निमन्था हविर्मन्था वारणिर्गणिकारिका ।समाः श्रीखण्डभद्रश्रीपटीरमलयोद्भवाः ॥ ५२६ ॥
2.3.526 · p. 68
अनुष्टुप्
रोहिणो गन्धसारश्च गन्धश्चन्दनमस्त्रियाम् ।द्राक्षा तु गोस्तनी स्वाद्वी मृद्वीका कालमेषिका ॥ ५२७ ॥
2.3.527 · p. 69
अनुष्टुप्
रसामृता प्रियाला च नीली स्यान्नीलकेशिका ।श्रीफली रञ्जनी तुत्था ग्रामीणा मधुपर्णिका ॥ ५२८ ॥
2.3.528 · p. 69
अनुष्टुप्
क्लीतकी नीलिनी डोला कुणिका च महारसा ।पुण्ड्रकस्त्वतिमुक्तः स्याद्वासन्ती माधवी लता ॥ ५२९ ॥
2.3.529 · p. 69
अनुष्टुप्
कुणिः कुबेरकः कच्छो नदीवृक्षो वितुन्नकः ।कच्छूरको द्राविडकः काल्यको वेधमुख्यकः ॥ ५३० ॥
2.3.530 · p. 69
अनुष्टुप्
चण्डातको हरिक्षेमौ गणहासश्च राक्षसी ।बहुला चन्द्रबालैला पृथ्वीका निष्कुटी तुटिः ॥ ५३१ ॥
2.3.531 · p. 69
अनुष्टुप्
द्रामिडी चाथ सारङ्गी त्रिपुटा चोपकुञ्चिका ।गोवन्दनी लता गुन्द्रा कारम्भी महिलाह्वया ॥ ५३२ ॥
2.3.532 · p. 69
अनुष्टुप्
विष्वक्सेना गन्धफली प्रियङ्गुः फलिनी फली ।श्यामा च प्रियकश्चाथ वन्दा स्याच्छिखराह्वया ॥ ५३३ ॥
2.3.533 · p. 69
अनुष्टुप्
वृक्षादनी वृक्षरुहा जीवन्त्यपदरोहिणी ।धुत्तूरः कितवो धूर्त उन्मत्तः कनकाह्वयः ॥ ५३४ ॥
2.3.534 · p. 69
अनुष्टुप्
मादनो मदनश्चास्य फले मातुलपुत्रकः ।काला मसूरविदला पाठिनी च सुषेणिका ॥ ५३५ ॥
2.3.535 · p. 69
अनुष्टुप्
गलूची तु च्छिन्नरुहा विशल्या सोमवल्लिका ।वत्सादन्यमृता देवी स्वरुहा चक्रलक्षणा ॥ ५३६ ॥
2.3.536 · p. 69
अनुष्टुप्
छिन्नोद्भवा कुण्डलिनी विषघ्नी सा जयन्त्यपि ।व्यालायुधं व्याघ्रनखं करजश्चक्रकारकः ॥ ५३७ ॥
2.3.537 · p. 70
अनुष्टुप्
कृष्णवृन्ता कुबेराक्षी ग्रामीणासारकुञ्जरा ।पुत्रजीवस्त्वक्षफलः कुमारी तरुणी सहा ॥ ५३८ ॥
2.3.538 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
देवी मूर्वा मधुश्रेणी गोकर्णी मोरटा वसा ।मधूलिका तिक्तवल्का पीलुनी तेजनी च सा ॥ ५३९ ॥
2.3.539 · p. 70
अनुष्टुप्
ऋक्षगन्धा त्वच्छगला मुसली तालमूलिका ।प्रत्यक्श्रेणी सुतश्रेणी द्रवन्ती शम्बरी वृषा ॥ ५४० ॥
2.3.540 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
चित्रोपचित्रा न्यग्रोधी रण्डा मूषिकपर्णिका ।कपिकच्छूस्त्वात्मगुप्ता कण्डूरा शूकशिम्बिका ॥ ५४१ ॥
2.3.541 · p. 70
अनुष्टुप्
ऋश्यप्रोक्ताजडाध्यण्डा मर्कटी प्रावृषायणी ।शेफालिका तु निर्गुण्डी नीलिका सुवहा च सा ॥ ५४२ ॥
2.3.542 · p. 70
अनुष्टुप्
सुमना मालती जातिः सप्तला नवमालिका ।चण्डातकः शतप्रासः करवीरोऽश्वमारकः ॥ ५४३ ॥
2.3.543 · p. 70
अनुष्टुप्
गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका ।भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥
2.3.544 · p. 70
अनुष्टुप्
वनजा मल्लिकास्फोटा बन्धूको बन्धुजीवकः ।गन्धर्वहस्त एरण्ड उरुपूगो व्यडम्बकः ॥ ५४५ ॥
2.3.545 · p. 71
अनुष्टुप्
चञ्चुः पञ्चाङ्गुलामण्डौ रुबको वर्धमानकः ।व्याघ्रपुच्छो हस्तपर्णो वातघ्नस्तरुणोऽर्भकः ॥ ५४६ ॥
2.3.546 · p. 71
अनुष्टुप्
वारुणी नागनन्दी स्याद्रेवती रामदूतिका ।काकोली मधुरा शुक्ला कायस्था स्वादुमांसिका ॥ ५४७ ॥
2.3.547 · p. 71
अनुष्टुप्
देवाह्वया सहादेवा गन्धमूली सुगन्धिका ।वर्षाभूर्वर्षकेतुः स्याच्चक्रपत्रो विरोचनः ॥ ५४८ ॥
2.3.548 · p. 71
अनुष्टुप्
खर्जूरी रोषणः क्षुद्रपरुषश्चिररोहकः ।खरकायो नीलपत्रः खरपर्णः परूषकः ॥ ५४९ ॥
2.3.549 · p. 71
अनुष्टुप्
परिमण्डलमध्यश्च पद्मकं हेमपुष्पकम् ।मधुपत्रं हिङ्गुपत्रं कमलं शीतलं च तत् ॥ ५५० ॥
2.3.550 · p. 71
अनुष्टुप्
प्रह्लादिनी हंसपदी रक्तपादी त्रिपादिका ।धृतराष्ट्री दीर्घपदी घृतमण्डा मधुस्रवा ॥ ५५१ ॥
2.3.551 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
कालपुष्पी महामूला कालमाला सुगन्धिका ।स्वस्थैन्द्री च महागोपी सैव कालानुसारिका ॥ ५५२ ॥
2.3.552 · p. 71
अनुष्टुप्
सूर्यपर्णी मुद्गपर्णी दासी मार्जारगन्धिका ।वनजा किङ्किणी शिम्बी पिशाची माषपर्णिका ॥ ५५३ ॥
2.3.553 · p. 72
अनुष्टुप्
महासहा सिंहविन्ना मांसमाषा च पुष्टिका ।पद्मपत्रा सुवर्णाभा चूर्णगर्भा किरातिका ॥ ५५४ ॥
2.3.554 · p. 72
अनुष्टुप्