All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · गान्ताः
इति खान्तवर्गः ॥
गौ पुंसि वृषभे रश्मौ कुलिशे त्रिदिवेऽपि च ।स्त्रियां गवीषु दृग्-वाग्-भूदिक्षु वारिणि भूम्नि च ॥
7.3.1 · p. 191
अनुष्टुप्
क्लीवैकत्वे तु मुख्य स्यादन्तिकेऽङ्गवति त्रिषु ।इङ्ग आङ्गश्च विज्ञाने इङ्गिते जङ्गमेऽपि च ॥
7.3.4 · p. 191
अनुष्टुप्
खगो विहङ्गे देवे च ग्रहे सूर्ये च मङ्गले ।खङ्गो गण्डशृङ्गेऽसिबुद्धभिद्गण्डकेषु च ॥
7.3.5 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ख (syllables merged)
गाङ्गः पुंसि गुहे भीष्मे स्याद्गङ्गासम्भवे त्रिषु ।चङ्गो दक्षे शोभने च सारङ्गे हलयाजके ॥टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि ।त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥
7.3.6 · p. 191
अनुष्टुप्
तुङ्गः पुन्नागनगयोर्निशावर्वरयोः स्त्रियाम् ।ग्रहयोगभिदोरुग्रे प्रधानेऽप्युन्नते त्रिषु ॥
7.3.7 · p. 191
अनुष्टुप्
दुर्गा स्त्री चण्डिका नील्योः सङ्कटे दुर्गमे त्रिषु ।नागं क्लीबे तु रङ्गे स्यात् सीसके करणान्तरे ।पुंसि पन्नगमातङ्गक्रूराचारिषु नीरदे ॥
7.3.8 · p. 191
अनुष्टुप्
देहवायुभिदि श्रेष्ठे पुन्नागे नागकेशरे ।स्यात्पिङ्गा चण्डिका हिङ्गु नाडीगोरचनासु च ॥
7.3.9 · p. 191
अनुष्टुप्
पिङ्गी शस्यां शिशौ क्लीबं पिशङ्गे तु पुमानयम् ।पुगो बृन्दे गुवाके च भावे कण्टकिभूरुहे ॥
7.3.10 · p. 191
अनुष्टुप्
फल्गुः स्त्रियां नदीभेदरेणुभिद्मलपूषु च ।मिथ्या वचसि निःसारे तद्भवेदभिधेयवत् ॥
7.3.11 · p. 191
अनुष्टुप्
भङ्गा शस्यभेदे भङ्गः पराजयतरङ्गयोः ।रोगभेदे भये पुंसि भङ्गिस्त्रियामनुक्रमे ॥
7.3.12 · p. 192
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable); pāda 4, syllable 3 स्त्रि (wrong syllable)
भगं स्त्रीज्ञानवैराग्ययोनिमाहात्म्यकीर्तिषु ।ऐश्वर्यधर्मकामेषु मोक्षे यत्नेऽथ ना रवौ ॥
7.3.13 · p. 192
अनुष्टुप्
भागो रूप्यार्द्यके भाग्ये एकदेशेऽशंकेऽपि च ।भृगुः शुक्रे महेशे स्यादतटे नारकादिभिः (?) ॥
7.3.14 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शं (wrong syllable)
भृङ्गः षिड्गे च धूम्याटे भृङ्गराजे मधुव्रते ।भृङ्गारे भृङ्गरोले च भृङ्गं क्लीबे गुडत्वचि ॥
7.3.15 · p. 192
अनुष्टुप्
अन्वेषणे च याच्ञायां मृगीकान्तान्तरेऽपि च ।युगो हलरथाङ्गे ना कृतादिषु नपुंसकम् ॥
7.3.18 · p. 192
अनुष्टुप्
बृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये ।योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे ।देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥
7.3.19 · p. 192
अनुष्टुप्
रागोऽनुरागे क्लेशादौ गान्धारादौ महीपतौ ।मात्सर्यादौ लोहितादौ स्याच्चन्द्रमसि भाष्करे ॥
7.3.22 · p. 192
अनुष्टुप्
लङ्गः सङ्गे च षिङ्गे च रोगः स्याद्व्याधिकुष्ठयोः ।लिङ्गं चिह्ने महादेवमूर्तिभेदेऽनुमानके ।सांख्योक्तप्रकृतौ चापि मेहनेऽपि नपुंसकम् ॥
7.3.23 · p. 192
अनुष्टुप्
व्यङ्गः प्लवे च हीनाङ्गे वङ्गः सीसकरङ्गयोः ।वल्गुश्छागलके पुंसि सुन्दरेऽपि च वाच्यवत् ॥
7.3.24 · p. 192
अनुष्टुप्
शुङ्गी स्त्रियान्तु पर्कय्यां वटाम्रातकयोरपि ।शृङ्गं प्रधाने चिह्ने च शिखरे जलयन्त्रके ॥
7.3.27 · p. 192
अनुष्टुप्
विषाणोत्कर्षयोरूर्ध्वे तीक्ष्णे सूक्ष्मे च पङ्कजे ।शृङ्गो ना कूर्चशीर्षे तु मुनिभेदे च स स्मृतः ॥
7.3.28 · p. 192
अनुष्टुप्
शृङ्गी स्वर्णे विषामीनभेदयोर्मृषत्रौषधे ।सर्गोऽध्यायनिश्चयात्ममोक्षोत्साहादिसृष्टिषु ॥
7.3.29 · p. 193
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ष (wrong syllable); pāda 3, syllable 4 य (wrong syllable)
अपाङ्गो लोचनान्ते स्यात् तिलके चाङ्गहीनके ।आभोगः पूर्णतायान्तु यत्ने छत्रे च वारुले ॥आयोगः व्यापृतौ तीरे गन्धमाल्योपहारके ।आशुगः पवने बाणे तीव्रे सत्वरगन्तरि ॥
7.3.31 · p. 193
अनुष्टुप्
उत्सर्गस्त्यागसामान्यन्यायदानेषु वर्तते ।कलिङ्गोऽपि च धूम्याटे स्यात् पूतिकरजेऽपि च ॥
7.3.32 · p. 193
अनुष्टुप्
पुंसि तीवृति भूम्नि स्यात् न द्वयोः कूटजे फले ।वनितायां कलिङ्गी च लताभेदे च कुत्रचित् ॥
7.3.33 · p. 193
अनुष्टुप्
कालिङ्गो भूमिकर्कारुदन्ताबलफणिष्वपि ।कालिङ्गी राजकर्कय्यां चक्राङ्गो मानसौकसि ॥
7.3.34 · p. 193
अनुष्टुप्
चक्राङ्गी कटुरोहिण्यां जिह्मगः फणिमन्दयोः ।तडागः स्यात् कूटयन्त्रे जलाधारविशेषके ॥
7.3.35 · p. 193
अनुष्टुप्
तातगुः स्यात् क्षुद्रताते जनकस्य हिते त्रिषु ।त्रिवर्गः त्रिफलावृद्धिस्यानक्षयकत्रिके ॥
7.3.36 · p. 193
metre not recognisednearly अनुष्टुप्
सुनीतौ धर्मकामार्थे सत्त्वरजस्तमस्यपि ।तुरङ्गी चाश्वगन्धायां तुरङ्गो हयचित्तयोः ॥
7.3.37 · p. 193
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
धाराङ्गो मेहने तीर्थे खङ्गे चापि वरण्डके ।नारङ्गो यमजप्राणि नागरङ्ग महीरुहोः ॥
7.3.38 · p. 193
अनुष्टुप्
निसर्गः सर्गरूपादौ निषङ्गः सङ्गतूणयोः ।पत्राङ्गोऽस्त्री भूर्जपत्रे पद्मके रक्तचन्दने ॥पन्नगः स्यादौषधीभित् पन्नगाशनयोरपि ।प्लवगोऽरुणमण्डूकवानरप्लवपक्षिषु ॥
7.3.39 · p. 193
अनुष्टुप्
परागः पुष्परेणौ तु धूलिसानीयचूर्णयोः ।चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥
7.3.40 · p. 193
अनुष्टुप्
प्रयागः स्यात् तीर्थभेदे यज्ञे शतमखे हये ।प्रयोगः कार्मणे… प्रयुक्तौ च निदर्शने ॥
7.3.41 · p. 193
metre not recognisednearly अनुष्टुप्
पतङ्गः शालिभेदेऽपि शलभे पक्षिसूर्ययोः ।प्रियङ्गुः स्त्रीराजिकायां कणायां कङ्गुशस्यके ॥
7.3.42 · p. 193
अनुष्टुप्
पुन्नागः स्यान्नरश्रेष्ठे वृक्षभित् पाणुनागयोः ।सितास्मजातीफलयोः मृगे मत्तमतङ्गजे ॥
7.3.43 · p. 193
अनुष्टुप्
वराङ्गं मस्तके योनौ मातङ्गे ना गुडत्वचि ।भुजङ्गः सर्पषिड्गाहिकुटुलेषु(?) मलीमसे ॥
7.3.44 · p. 194
अनुष्टुप्
मानङ्गो मेत्तचाण्डालकुञ्जरेषु जटेऽपि च ।मृदङ्गः पटहे घोषे काष्ठाङ्गे मङ्गलेऽपि च ॥
7.3.45 · p. 194
अनुष्टुप्
रक्ताङ्गो मण्डले स्त्री तु जीवन्त्यां विद्रुमेऽस्त्रियाम् ।अस्त्री रथाङ्गं चक्रे ना चक्रवाकविहङ्गमे ॥
7.3.46 · p. 194
अनुष्टुप्
वातिगो ना तु भण्ढाक्यां धातुवादिनि वाच्यवत् ।स्याद्विडङ्गं क्रिमिघ्ने तु तथाभिक्षे भवेत् त्रिषु ॥
7.3.47 · p. 194
अनुष्टुप्
विसर्गस्तागदानादौ विसृष्टे मलनिर्गमे ।विहङ्गो विहगे बाणे जलदे चन्द्रसूर्ययोः ॥
7.3.48 · p. 194
अनुष्टुप्
सर्वगन्तु जले क्लीबं पुमानम्बहये(?) प्रभौ ।सम्भोगः सुरते भोगे हर्षे च वुद्यशासने ॥
7.3.49 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
सारङ्गो हरिणे छुत्रे भ्रमरे राजहंसके ।कुञ्जरे चातके चित्रे रागभेदेंऽशुकेऽपि च ॥
7.3.50 · p. 194
अनुष्टुप्
अपवगस्तागमोक्षकार्यसमाप्तितत्फले ।अभिषङ्गः समाक्रेशे शपथे च पराभवे ॥
7.3.52 · p. 194
अनुष्टुप्metre not read in every line
ईहामृगस्तु कोके स्यात् तथा रूपकभेदके ।उपरागे दुर्नये स्याद् ग्रहकल्लोलसूर्ययोः ॥
7.3.53 · p. 194
अनुष्टुप्
तथा विधुन्तुदे चैव ग्रहणे चन्द्रसूर्ययोः ।उपसर्गो रोगभेदे प्राणिषु स्यादुपप्लवे ।कटभङ्गः शस्यहस्तछेदे चैव नृपात्यये ॥
7.3.54 · p. 194
अनुष्टुप्metre not read in every line
छत्रभङ्गो वैधव्ये च स्वातन्त्र्ये नृपनाशने ।मल्लनागो लेखहारो व्यात्सायने च दिग्गजे ॥
7.3.55 · p. 194
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable); pāda 4, syllable 3 य (wrong syllable)
समायोगः समाधाने संयोगे च प्रयोजने ।संप्रयोगः रतिकर्मसमर्थे चान्वितावपि ॥
7.3.56 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
कथाप्रसङ्गो जल्पाके वातूलविषवैद्ययोः ।नाडीतरङ्गः काकोलहिण्डयोः रतहिण्डके ॥
7.3.57 · p. 194
अनुष्टुप्