कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पेषण

peṣaṇa

In 6 kośas: 0 synonym verses, 8 as a meaning of another word.

पेषण as a meaning in nānārtha verses

  • धरणिकोश क्षोदरदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः । क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥ Dharaṇikośa 17.1.1
  • कोषकल्पतरु पट्टखेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ Koṣakalpataru 6.10.9
  • कोषकल्पतरु क्षोदमूलेऽपि पादोऽयव( ? )सूपकारे सूदस्तथा व्यञ्जनसूपयोश्च । क्षोदो रजःपेषणयोरथ स्या- च्छादोऽपि शष्पे नरि कर्दमे च ॥ २६ ॥ Koṣakalpataru 6.19.26
  • शब्दरत्नावली क्षोदअब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
  • शब्दरत्नावली वर्त्तनीवसनं छादने वस्त्रे निवासे चापि कुत्रचित् । वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् ॥ व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च । व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे ॥ पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) । वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥ Śabdaratnāvalī 7.20.71
  • शब्दरत्नाकर क्षोदपेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः । काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥ Śabdaratnākara 4.1.1887
  • त्रिकाण्डशेष क्षोदस्त्री गभ्भार्यां क्लीबमब्जे दिङ्नागे कुमुदः कपौ । पुष्पे क्लीबं भ्रमौकुन्दः क्षोदो रजसि पेषणे ॥ २०५ ॥ Trikāṇḍaśeṣa 3.3.205
  • वैजयन्ती क्षोदकण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः । गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥ Vaijayantī 6.1.13