कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

दान्ताः · दपादः

॥ इति थान्तवर्गः ॥

॥ दपादः ॥

रदो विलेखने दन्ते छदः स्यात्पक्षपत्रयोः ।क्षोदश्च पेषणे धूलौ स्वादुर्मिष्टमनोज्ञयोः ॥
17.1.1 · p. 92
अनुष्टुप्
छन्दावभिप्रायवशौ मृदू चातीक्ष्णकोमलौ ।स्वेदः स्यात्स्वेदने घर्मे शादः कर्दमशष्पयोः ॥
17.1.2 · p. 92
अनुष्टुप्
भद्रं सुखे च कल्याणे निन्दा कुत्सापवादयोः ।सम्पल्लक्ष्म्यां गुणोत्कर्षे शरत्संवत्सरे ऋतौ ॥
17.1.3 · p. 92
अनुष्टुप्
कामदा घेनुका चापि मर्यादा सीमनि स्थितौ ।धनदो दातरि श्रीदे विशदं स्पष्टशुक्लयोः ॥
17.1.4 · p. 93
अनुष्टुप्
जलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ ।नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥
17.1.5 · p. 93
अनुष्टुप्metre not read in every line
आमोदौ हर्षगन्धौ तु दायादौ ज्ञातिबान्धवौ ।तमोनुदो[48]ऽग्रिचन्द्रार्काः प्रतिपत्तिथिसंविदोः ॥
17.1.6 · p. 93
अनुष्टुप्
प्रियंवदः खेचरे च महामदो गजेऽपि च ।विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः ।अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥
17.1.7 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)