All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · टान्ताः
इति चान्तादिवर्गः
एकटाः ।
द्विटाः ।
कालक्रियाकारकपोलकेषुशवप्रकर्षद्विपगण्डकेषु ।कटो भटः पामरवीरयोः स्याद्भटिस्तु भाटिः प्रगमे स्त्रियौ स्तः ॥ २ ॥
6.10.2 · p. 178
उपजातिःmetre not read in every line
घटः समाधौ कुटमौलिकूटयो-र्घटा[तु] गोष्ठ्यां गजसज्जनायाम् ।कुटस्तु कूटे च घटे च तद्व-द्वलाङ्गके प्रस्तरकुट्टके स्त्री ॥ ३ ॥
6.10.3 · p. 178
upajati mixed
कुटी द्वयोर्मन्दिरमद्यकुम्भ-दासीषु गुच्छे[270a]ऽथ पटः पियालौ ।पुरस्कृतौ चैलवरे लटस्तुप्रमादवाग्दूषणयोर्निरुक्तः ॥ ४ ॥
6.10.4 · p. 179
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 दा (wrong syllable)
वटस्तु न स्त्री समतावराट-कपर्दभक्ष्येषु गुडेऽपि तद्वत् ।न्यग्रोधशुम्बेषु स तु त्रिलिङ्गोद्वंद्वेन हीनः स फले वटस्य ॥ ५ ॥
6.10.5 · p. 179
उपजातिः
षिङ्गे विटोऽस्त्री लवणाम्बुशैल-वालच्छदेषु प्रथितः स पुंसि ।सिङ्घाणकादौ तु घृतादिकाना-मधःस्थभागेंऽहसि किट्टमस्त्री ॥
6.10.6 · p. 179
उपजातिः
कूटं निश्चलयन्त्रकैतवपुरद्वाराद्रिशृङ्गानृत-मायातुच्छहलाङ्गराशिषु तथा स्त्री रोचनेऽयोघने ।लाटो देशविशेषके च वसने झाटो निकुञ्जे वनेसम्मृष्टावरुषोऽथ ना पथि वृतौ वाटस्त्रये वास्तुभित् ॥ ७ ॥
6.10.7 · p. 179
शार्दूलविक्रीडितम्
स्याच्चाटावुदरे चटुर्निगदितो व्रत्यासनेऽथो कटु-र्दुर्गन्धे च रसे पुमान्सरिषपे स्त्री रोहिणीकङ्गुषु ॥
6.10.9 · p. 179
शार्दूलविक्रीडितम्
क्लीबे दूषणके विशेष्यवदसौ स्यान्मत्सरिक्रू[270b]रयो-श्छत्रायां लवणे पटोलदलके दक्षे तु भेद्ये पटुः ॥ ८ ॥
6.10.8 · p. 179
metre not recognised
खेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके-ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा ।पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणेपीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥
6.10.9 · p. 179
शार्दूलविक्रीडितम्
कष्टं तु दुरवगाहेकृच्छ्रे स्याद्दुःखशब्दे च ।इष्टं संस्कृतियोगेयागे यागक्रियायां च ॥ १० ॥
6.10.10 · p. 180
metre not recognised
आशंसिते प्रियतमेपूज्ये संकीर्तितः परवत् ।रिष्टं क्षेमे च शुभेभाविनि चिह्ने विनाशस्य ॥ ११ ॥
6.10.11 · p. 180
metre not recognised
पापे कृपाणे परव-न्म्लिष्टं त्वव्यक्तवाचि स्यात् ।म्लानेऽन्यवदथ दिष्टंदैवे काले तु पुंलिङ्गम् ॥ १२ ॥
6.10.12 · p. 180
metre not recognised
व्युष्टं दिने प्रभातेपर्युषिते स्यात्फले परवत् ।त्वष्टा धातरि सूर्येरथकारे विश्वकर्मणि च ॥ १४ ॥
6.10.14 · p. 180
metre not recognisednearly अनुष्टुप्
स्यात्संग्रहश्लोकमखाभिलाषे-ष्विष्टिः परीमाणमुदोस्तु दिष्टिः ।विष्टिस्तु भद्राकरणेऽपि जन्यौसंप्रेषणे कर्मकरे च योषि[271a]त् ॥ १५ ॥
6.10.15 · p. 180
इन्द्रवज्रा
दृष्टिर्मतौ दर्शननेत्रयोश्चखड्गे समृद्धौ कथिता च ऋष्टिः ।कृष्टिर्बुधे पुंस्यथ कर्षणे स्त्रीसृष्टिः कृतौ स्यादपि च स्वभावे ॥ १६ ॥
6.10.16 · p. 180
इन्द्रवज्रा
वृद्धौ तु पुष्टिः परिपोषणे चयष्टिर्द्वयोर्हारशरे च शस्त्रे ।ध्वजस्य दण्डे मधुके च भार्ङ्ग्यांमुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥
6.10.17 · p. 180
उपजातिः
व्युष्टिः समृद्धौ च फले व्रतादेःस्तुतौ च भृष्टिस्तु विवृक्षवाट्याम् ।***********स्याद्भर्जने पुंसि किरौ च घृष्टिः ॥ १८ ॥
6.10.18 · p. 181
उपजातिःmetre not read in every line
संघर्षघर्षेषु दुरालभायांस्त्रियामथैकप्रसवासु गोषु ।गृष्टिर्वराहक्रमणेऽपि तद्व-ज्जटा स्त्रियां लग्नकचेषु मूले ॥ १९ ॥
6.10.19 · p. 181
उपजातिः
जटी तु पर्कटी मिसी सटा जटा च केसरम् ।फटा फणे तथा करे धटी तु वस्त्रखण्डके ॥ २० ॥
6.10.20 · p. 181
पञ्चचामरम्
धटं तुलापरीक्षणे पटिः पटद्रुभेदयोः ।नटस्तु नर्तकेऽरलौ नरि नटस्त्रियां नटी ॥ २१ ॥
6.10.21 · p. 181
metre not recognisednearly पञ्चचामरम्: pāda 2, syllable 10 रि (wrong syllable)
कोटिः प्रकर्षे धनुरग्रके चकोणे च संख्याभिदि संप्रदिष्टा ।त्रोटिस्तु चञ्च्वाम[271b]पि सोमवल्केपुमांस्तु मत्स्याण्डजभेदयोः स्यात् ॥ २२ ॥
6.10.22 · p. 181
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 पु (wrong syllable)
सूक्ष्मैलायां कालमाने च लेशेसंदेहे च स्यात्त्रुटिः स्त्री तु खाटिः ।निन्द्यागारे स्यात्किणे प्रेतयाने ।पोटा तु स्त्रीपुंसलिङ्गा च दासी ॥ २३ ॥
6.10.23 · p. 181
शालिनी
त्रिटाः ।
अवटः कपटोपजीविगर्ता-न्धुखिलेषु प्रथितोऽथ पर्पटः स्यात् ।नरि पिष्टविकारचर्मनाम्नो(?)-ऽथ विशाले विकलाङ्गके मनोज्ञे ॥ २४ ॥
6.10.24 · p. 181
metre not recognised
विकटः करटस्तु हस्तिगण्डेबलिपुष्टेऽप्यतिनिन्द्यजीविते च ।अपि वाद्यविशेषके तथैका-दशघस्रे पितृकर्मभोक्तरि स्यात् ॥ २५ ॥
6.10.25 · p. 182
metre not recognised
कुसुम्भदुर्दुरूटयोरथ प्रयोजनोज्झितेपरापवादतत्परेऽकृपे च निर्दटो मतः ॥ २६ ॥
6.10.26 · p. 182
पञ्चचामरम्
चिपिटस्त्वथ पिच्चटार्थकःपरवद्भक्ष्यविशेषके नरि ।दमुटः कमठेऽप्यहर्मणा-वथ मत्तेऽप्यतितीव्र उत्कटः ॥ २७ ॥
6.10.27 · p. 182
वियोगिनी
वार्ताकपुष्पे जकुटो यमोत्थेऽस्त्री सारमेये त्रपुसीसयोस्तु ।स्यात्पिच्चटो दृष्टिगदेऽथ वाट्यांक्षेत्रे कपाटे नरि निष्कुटः स्यात् [272a] ॥ २८ ॥
6.10.28 · p. 182
इन्द्रवज्रा
धौताञ्जन्यां त्र्यङ्कटं शिक्यभेदेप्रोक्तः पङ्के संकरे कर्दटोऽपि ।मोचाटः स्वाच्चन्दने कृष्णजीरेमोचास्थ्नीभस्तुन्दयोः स्यात्कृपीटम् ॥ २९ ॥
6.10.29 · p. 182
शालिनी
निषादशूद्रात्मजताम्रचूड-स्फुलिङ्गवाची किल कुक्कुटोऽस्त्री ।स्त्री तालमध्ये लसुनप्रभेदेस्याद्दम्भचर्योच्चटयोश्च तद्वत् ॥ ३० ॥
6.10.30 · p. 182
उपजातिः
स्यात्केशटः शोषणविष्णुवाचीस्यात्कर्कटः स्त्रीकरणे कुलीरे ।खगान्तरे राशिभिदि स्त्रियां तुस्याद्वालुकी शाल्मलिकाफले च ॥ ३१ ॥
6.10.31 · p. 182
उपजातिः
स्यात्कीकटो देशभिदश्ववाचीमितंपचे स्यादधने त्रिलिङ्गः ।चक्राट उक्तो विषवैद्यधूर्त-दीनारवाची खजके च दिष्टः ॥ ३२ ॥
6.10.32 · p. 183
उपजातिः
वर्णाटः स्याद्गायने चित्रकारेकान्ताजीवेऽथाभिके भावके च ।भावाटः स्यात्साधुसत्संनिवेशेशैलाटस्तु श्वेतकाचे किराते ॥ ३३ ॥
6.10.33 · p. 183
शालिनी
स्यात्पञ्चास्ये मोरटस्त्विक्षुमूले-ऽङ्कोटोद्भूते च प्रसूने स्त्रियां तु ।स्यात्सप्ताहानन्तरक्षीरके चस्त्री मूर्वा[272b]यां मोरटा संप्रदिष्टा ॥ २४ ॥
6.10.24 · p. 183
शालिनीmetre not read in every line
गाथाभिदि मृगमृगयौद्रोहाटः स्याद्दम्भ*जे च ।स्याच्चातके च तुरगेधाराटो वेकटस्तु स्यात् ॥ ३५ ॥
6.10.35 · p. 183
metre not recognised
विकटे जाततरुणिमनिमिश्रितनीचेषु वेरटः परवत् ।बदरीफले तु चरमेत्रिकूट उक्तः सुवेलाद्रौ ॥ ३६ ॥
6.10.36 · p. 183
metre not recognised
क्लीबे तु सैन्धवे स्यात्भाकूटस्त्वद्रिमत्स्यभित् ।बहुमानुषसंकीर्णेहट्टे सूर्येऽस्त्रि निर्मुट रदजौ(?) ॥ ३७ ॥
6.10.37 · p. 183
metre not recognised
काककङ्कपिचुमन्दरसोन-फेनिलेषु नरि तद्वदरिष्टः ।सूतिकागृहशुभाशुभचिह्ने-ष्वन्तिमे कुशधियः प्रवदन्ति ॥ ३८ ॥
6.10.38 · p. 183
स्वागता
वसनादिना विशुद्धेसंसृष्टं संगते च स्यात् ।अवटुस्त्ववटे कूपेकृकाटिकायां परीष्टिस्तु ।परिचर्यामार्गणयोःप्राकाम्येऽन्वेषणे च स्त्री ।गन्धोल्यामपि हंस्यांवरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥
6.10.40 · p. 184
metre not recognised
गदिता[च] मल्लिकायांसतीनके नान्यवन्नीचे ।व्रीहौ तु वर्वटी स्त्रीगदिता तद्वच्च वेश्यासु ॥ ४१ ॥
6.10.41 · p. 184
metre not recognised
पूगादिनूतनफले[273a] प्लक्षे स्यात्पर्कटी योषित् ।स्त्रीकरणे लूतायांकपौ च ना मर्कटोऽथ स्त्री ॥ ४३ ॥
6.10.43 · p. 184
metre not recognised
कपिकच्छ्वां नखभेदेशाखामृग्यां कुरण्टी तु ।दारुमयपुत्रिकायांझिण्टीभेदे तु पुंसि स्यात् ॥ ४३ ॥
6.10.43 · p. 184
metre not recognised
उक्ता द्वितीयवयसिसुवासिन्यां चिरण्टी स्त्री ।वातमृगे वाताट-श्चातक उक्तश्च कोषज्ञैः ॥ ४४ ॥
6.10.44 · p. 184
metre not recognised
लघ्वट् वायौ लघौ त्रय्यां सरट् स्याद्वातमेघयोः ।पुरटोऽङ्घ्रौ सुवर्णेऽन्त्ये देवटो देवशिल्पिनि ॥
6.10.45 · p. 184
अनुष्टुप्
चतुष्टाः ।
प्रायश्चित्ते भुजंगे श्रुतिकट उदितः प्राच्यलोहे च दासी-कम्रे स्यात्कुण्डकीटः क्षितिसुररमणीनन्दने जारजाते ।वेश्यायाः कामकूटो रमणललितयोश्चक्रवाटस्तु कर्मा-रोहे तद्वच्छिखास्थे विटपिनि गदितः किंच पर्यन्तदेशे ॥ ४५ ॥
6.10.45 · p. 185
स्रग्धरा
स्यादक्षवाटो नरि मल्लभूमौपर्पादिकन्देऽपि च बीजपुष्पे ।विषक्रिमौ स्यान्नरि मीनभेदे-ऽप्युच्चिङ्गटो रोषिणि भेद्यलिङ्गः ॥
6.10.47 · p. 185
उपजातिः
कुटन्नटो मुस्तकतिन्दुकार्थेस्यान्नारकीटोऽश्मकृमौ स्व[273b]यं च ॥ ४६ ॥
6.10.46 · p. 185
metre not recognised
प्रतिश्रुताशापहरेऽथ खञ्जनेकृपाणधाराव्रतधारके फले ।स्यात्खञ्जरीटोऽथ कटाक्षवाचकःस्याद्बर्कराटस्तरुणार्यमद्युतौ ॥ ४७ ॥
6.10.47 · p. 185
upajati 12
अनर्थकारे कृपणोन्मदिष्ण्वोःप्रकीर्तितः कार्यपुटः प्रवीणैः ।पुष्पे द्रुभेदे करहाट उक्तःसरोजकन्दे कथितः प्रवीणैः ॥ ४८ ॥
6.10.48 · p. 185
उपजातिः
परपुष्टस्तु पिके नापरान्नपुष्टे विशेष्याभः ।गुह्ये च प्रतिकृष्टंद्वितीयवारेण कृष्टौ च ॥ ४९ ॥
6.10.49 · p. 185
metre not recognised
दुश्चर्मणि स्यात्खलतौ शिवे चकोषप्रवीणैः शिपिविष्ट उक्तः ।संप्रेषिते किंच निराकृते चविशेष्यनिघ्नः प्रतिसृष्ट उक्तः ॥ ५० ॥
6.10.50 · p. 185
उपजातिः
भूमनि तु चतुःषष्टिःकलासु संकीर्तिता तद्वत् ।कृपणे तथा कृपाणेप्रकीर्तितो गाढमुष्टिश्च ॥ ५१ ॥
6.10.51 · p. 186
metre not recognised