कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वातघ्न

vātaghnaपुं · masc.

In 4 kośas: 3 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.412 · p. 66
मरुदेश्यो रूक्षगन्धा वातघ्नो महिषाक्षकः ।देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.546 · p. 71
चञ्चुः पञ्चाङ्गुलामण्डौ रुबको वर्धमानकः ।व्याघ्रपुच्छो हस्तपर्णो वातघ्नस्तरुणोऽर्भकः ॥ ५४६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.65 · p. 50
रुवुः पञ्चांगुलश्च ञ्चुरामण्डस्तरुणोऽम्बुकः ।गन्धर्वहस्तो रुवुको वातन्घो व्याघ्रपुच्छकः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1671 · p. 193
क्ली तु सन्देशवाचि स्याद् वाचिकं त्रि तु वाक्कृते ।गिरा चाभिनये ना तु वातघ्नो भूरुहान्तरे ॥ १६७१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1672 · p. 193
एरण्डसंज्ञे त्रिषु तु वातघ्नी वातघातके ।अमनुष्ये वाजिनं तु नवामिक्षाजवस्तुनि ॥ १६७२ ॥
अनुष्टुप्