कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पञ्चाङ्गुल

pañcāṅgulaपुं · masc.

In 11 kośas: 11 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1150 · p. 45
पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका ॥ ११५० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.51
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.326 · p. 285
पञ्चाङ्गुलो दीर्घदण्डेरुवूकौ रुबुको वकः ।वर्द्धमानस्तत्र रक्ते स्याद्व्याघ्रो हस्तिकर्णकः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 155
पञ्चाङ्गुलो वर्धमानो डिम्बो वातारिरप्यसौ ।सितस्तूत्तानपत्रोऽयं गन्धर्वो दीर्घदण्डकः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 274
काष्ठे पञ्चाङ्गुलं क्लीबे धान्यं सीत्यं च सस्यकम् ।व्रीहिः स्तम्बकरी पुंसि व्रीहिस्त्वाशुश्च पाटलः ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.153 · p. 84
पञ्चाङ्गुलो वर्द्धमान आमण्डो रुचको रुचुः ।व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः ॥ १५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व्या (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.74 · p. 61
बन्धुजीवकबन्धूकौ एरण्डे तु तथेक्ष्यताम् ।पञ्चाङ्गुलो धातकी तु धातुपुष्पी निगद्यते ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2050 · p. 340
एरण्डो व्याघ्रपुच्छश्च चञ्चुः पञ्चाङ्गुलः पुनः ॥ २०५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2052 · p. 340
रुचक उरुवूकश्च ख्यात उरुवुकः पुनः ।एतन्नामानि मन्यन्ते पञ्चाङ्गुलस्य पण्डितैः ॥ २०५२ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.103 · p. 64
पञ्चाङ्गुलश्चित्रकश्च चित्रो गन्धर्वहस्तकः ।शमीरोऽपि च शस्यार्कः द्वयं स्वल्पशमीतरौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.546 · p. 71
चञ्चुः पञ्चाङ्गुलामण्डौ रुबको वर्धमानकः ।व्याघ्रपुच्छो हस्तपर्णो वातघ्नस्तरुणोऽर्भकः ॥ ५४६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.358 · p. 57
पञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे ।पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥
अनुष्टुप्

पञ्चाङ्गुल as a meaning in nānārtha verses

  • कोषकल्पतरु डिम्बबिम्बं फले स्यादपि बिम्बिकायाः । स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या- ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे । पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथ स्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥ Koṣakalpataru 6.24.27
  • शिवकोष तरुणजरणो रुचके कृष्णे जीरे क्लीबं तु हिङ्गुनि । तरुणं च स्त्रियां कुब्जपुष्पे पञ्चाङ्गुले पुमान् ॥ १५९ ॥ Śivakoṣa 11.2.159