All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (14/18)
शमीफलेति संज्ञा स्याल्लक्ष्मीवांस्तु नृलिङ्गकः ।कतकाख्यद्रुमे त्रिस्तु श्रीमति क्ली तु लाङ्गलम् ॥ १५६१ ॥
4.1561 · p. 183
अनुष्टुप्
गृहदारुविशेषे च पुष्पभेदे हलेऽपि च ।अथ स्याल्लाङ्गली तोयपिप्पलीसंज्ञभेषजे ॥ १५६२ ॥
4.1562 · p. 183
अनुष्टुप्
स्त्रियामग्निशिखासंज्ञलतायां च पुमान् पुनः ।शालिप्रभेदेऽथ क्लीबं लाङ्गूलं मेढ्रपुच्छयोः ॥ १५६३ ॥
4.1563 · p. 183
अनुष्टुप्
लाङ्गूली तु स्त्रियां पृश्निपर्ण्याख्यस्थावरान्तरे ।लालसा तु न नौत्सुक्ये प्रार्थनायां च दौहृदे ॥ १५६४ ॥
4.1564 · p. 183
अनुष्टुप्
अतिमात्राभिलाषे च लावणस्तु पुमानयम् ।लवणाब्धौ त्रि लवणसम्बन्धिन्यथ लासिका ॥ १५६५ ॥
4.1565 · p. 184
अनुष्टुप्
स्त्री नर्तक्यां लासकस्तु त्रिषु स्याल्लसितर्यथ ।बालानुकृतिशब्दे ना लालकः स्त्री तु लालिका ॥ १५६६ ॥
4.1566 · p. 184
अनुष्टुप्
नासारज्जौ तुरङ्गाणां स्यात् त्रिस्तु ललितर्यथ ।लालनो ना सर्जरसे लालना त्वपुमानियम् ॥ १५६७ ॥
4.1567 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
क्रियायां स्याल्लालयतेर्लाञ्छनं त नपुंसकम् ।अङ्कने चैव चिह्ने च संज्ञायां रभसोऽपठीत् ॥ १५६८ ॥
4.1568 · p. 184
अनुष्टुप्
लाञ्छनी तु स्त्रियामेषा मुद्रायां लाङ्गली तु ना ।नालिकेरद्रुमे चापि बलभद्रेऽप्यथ त्रिषु ॥ १५६९ ॥
4.1569 · p. 184
अनुष्टुप्
विद्याल्लाङ्गलवत्यर्थे लुशभं तु वने नपि ।ना तु मत्तगजे स्त्री तु वाद्यभेदे हि लुम्बिका ॥ १५७० ॥
4.1570 · p. 184
अनुष्टुप्
भक्षभेदेऽप्युलुम्बाख्ये त्रि तु लुम्बितरि स्मृतः ।लुम्बनं त्वर्दनं ज्ञेयं लेखनी तु स्त्रियामियम् ॥ १५७१ ॥
4.1571 · p. 184
अनुष्टुप्
स्याच्चित्रतूलिकायां क्ली पुनर्लेखनमित्यदः ।क्रियायां लिखतेस्त्रिस्तु साधने लेखकर्मणः ॥ १५७२ ॥
4.1572 · p. 184
अनुष्टुप्
लेहनस्तु शुनि द्वे स्याच्चौर्यग्रासिनि तु त्रिषु ।सौवर्चलद्रवे त्वस्त्री (लेहितो ? लोहिते) जारणाह्वये ॥ १५७३ ॥
4.1573 · p. 184
अनुष्टुप्metre not read in every line
त्रिस्तु लेहयतेः कर्मभूते स्याल्लेढिकर्तरि ।लोभनं तु सुवर्णे क्ली लोभे लोभयतेः पुनः ॥ १५७४ ॥
4.1574 · p. 184
अनुष्टुप्
अर्थे स्त्रीशण्डयोर्विद्यालोमनं लोभनेति च ।लोचनं त्वक्षणि क्लीबं पश्यत्यर्थे तु सा न ना ॥ १५७५ ॥
4.1575 · p. 184
अनुष्टुप्
लोचनं लोचना चेति स्त्रियामेव तु लोचना ।विचारोक्ताविदं प्रोक्तं वैजयन्त्यां मनीषिणा ॥ १५७६ ॥
4.1576 · p. 185
अनुष्टुप्
लोहलस्तु त्रिरव्यक्तभाषिणि स्यात् पुमान् पुनः ।शृङ्खला(वी?धा)र्य इत्याह रभसः शब्दवित्तमः ॥ १५७७ ॥
4.1577 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लोटना तु स्त्रियां सानुसारवाचि नपि स्वदः ।विलोटने लोहितं तु रुधिरे क्ली द्वयोः पुनः ॥ १५७८ ॥
4.1578 · p. 185
अनुष्टुप्
आवतारिकसंज्ञे स्यान्मत्स्यभेदे पुमान् पुनः ।रक्तशालौ रक्तवर्णेऽप्यथ स्यात् तद्वति त्रिषु ॥ १५७९ ॥
4.1579 · p. 185
अनुष्टुप्
तत्रापि स्त्र्यर्थवृत्तित्वविवक्षास्ति यदा तदा ।लोहिनी लोहिता चेति द्वैरूप्यं लोचकस्तु ना ॥ १५८० ॥
4.1580 · p. 185
अनुष्टुप्
रक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि भ्रुवि ।अजयस्तु पठत्येनं नीलीरक्तांशुके त्रि तु ॥ १५८१ ॥
4.1581 · p. 185
अनुष्टुप्
दुष्टबुद्धावथ प्राह निर्बुद्धावजयस्तथा ।स्याल्लोचितर्यथ क्लीबं लोहे स्यात् कांस्यसंज्ञके ॥ १५८२ ॥
4.1582 · p. 185
अनुष्टुप्
लोहजं भेद्यवत् तु स्याल्लोहसम्भूतवस्तुनि ।लोमशा तु स्त्रियां मांस्यां लोमशस्तु त्रि रोमशे ॥ १५८३ ॥
4.1583 · p. 185
अनुष्टुप्
वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने ।प्रकारे तु स्त्रियां चाह वर्णिकां शाकटायनः ॥ १५८४ ॥
4.1584 · p. 185
अनुष्टुप्
त्रिस्तु वर्णयितर्येष वलजा तु स्त्रियामियम् ।अपूतधान्यराशौ स्याद् रूपवत्यां च योषिति ॥ १५८५ ॥
4.1585 · p. 185
अनुष्टुप्
अना तु पुरगेहादेर्द्वारे क्षेत्रेऽप्यथापरः ।सस्येऽप्याहाथ रभसः क्लीबं युद्धेऽप्यभाषत ॥ १५८६ ॥
4.1586 · p. 185
अनुष्टुप्
अथ पुंसि भवेन्मिश्ररसभेदेऽस्य लक्षणम् ।लवणोष्णकटुस्वादुतिक्तात्मत्वं त्रिषु त्वदः ॥ १५८७ ॥
4.1587 · p. 186
अनुष्टुप्
तद्वति स्यात् तथैवायं वलजातेऽपि ना पुनः ।रज्जौ वराटः पद्मस्य बीजकोशेऽप्यधीयते ॥ १५८८ ॥
4.1588 · p. 186
अनुष्टुप्
खड्गभेदेऽपि चैरण्डबीजाभपुलकावलौ ।नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥
4.1589 · p. 186
अनुष्टुप्
सेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् ।सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥
4.1590 · p. 186
अनुष्टुप्
वराला हंसकान्तायां स्त्री भैषज्यान्तरे तु नप् ।वमनस्तु पुमान् वृक्षे विज्ञेयोऽङ्कोठसंज्ञके ॥ १५९१ ॥
4.1591 · p. 186
अनुष्टुप्
छर्दनार्दनयोस्तु स्यात् क्लीत्येवं रमसोऽपठीत् ।वयःस्था तु स्त्रियां ब्राह्मीकाकोल्यामलकीषु च ॥ १५९२ ॥
4.1592 · p. 186
अनुष्टुप्
सूक्ष्मैलायां हरीतक्यां तरुणे त्वभिधेयवत् ।व्यलीकस्त्वप्रिये पुंसि स्यादकार्ये च नप् पुनः ॥ १५९३ ॥
4.1593 · p. 186
अनुष्टुप्
पीडायां च विलक्षे चाप्यपराधे विपर्यये ।केचित् त्वाहुर्भेद्यलिङ्गमप्रिये व्यञ्जनं पुनः ॥ १५९४ ॥
4.1594 · p. 186
अनुष्टुप्
क्लीबं श्मश्रुणि निष्ठाने चिह्नावयवयोरपि ।व्यनक्त्यर्थेऽथ ना यज्ञपशुसंस्कारकर्मणि ॥ १५९५ ॥
4.1595 · p. 186
अनुष्टुप्
अस्त्री हलसमाख्येषु वर्णेषु स्यादथास्त्रियाम् ।वलयं कटके ना तु महोदर्याख्यमुस्तके ॥ १५९६ ॥
4.1596 · p. 186
अनुष्टुप्
तथा पश्चिमराश्यर्थे वनजं तु नपुंसकम् ।स्यादुत्पलप्रभेदे हि कंसोत्पलमिति श्रुते ॥ १५९७ ॥
4.1597 · p. 186
अनुष्टुप्
पद्मे च स्त्री तु वनजा मुद्गपर्ण्याह्वयौषधौ ।रभसस्त्वाह पुल्लिँङ्गं मुस्तके शब्दवित्तमः ॥ १५९८ ॥
4.1598 · p. 186
अनुष्टुप्
वनोद्भवे तु त्रिष्वेतद् वलनं तु नपुंसकम् ।आवर्तने स्यात् तन्त्वादेः संवृतौ चलनेऽपि च ॥ १५९९ ॥
4.1599 · p. 187
अनुष्टुप्
अना तु वलयत्यर्थे वलनाथ द्वयोर्मृगे ।हरिणादौ वत्सलस्तु त्रिषु प्रेमवति स्मृतः ॥ १६०० ॥
4.1600 · p. 187
अनुष्टुप्
स्त्रियां तु वत्सला वत्सकामायां गवि नप् पुनः ।वल्गितं वल्गनेऽश्वानां गतिभेदेऽप्यथ त्रिषु ॥ १६०१ ॥
4.1601 · p. 187
अनुष्टुप्
तद्वत्यथ वदालो द्वे मत्स्यभेदे यदाह्वयः ।सहस्रदंष्ट्र इत्येष तथा मत्स्यान्तरेऽपि च ॥ १६०२ ॥
4.1602 · p. 187
अनुष्टुप्
पाठीन इति यस्याख्या वैजयन्त्यां हि कीर्तितौ ।सहस्रदंष्ट्रपाठीनशब्दौ भिन्नाभिधेयकौ ॥ १६०३ ॥
4.1603 · p. 187
अनुष्टुप्
वरा मूर्ध्नि गुह्ये च हस्ते चोचाख्यभेषजे ।क्ली वराङ्गा चतुर्वर्षसुरभौ स्त्री द्वयोः पुनः ॥ १६०४ ॥
4.1604 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वरुटः प्राक्प्रसूतस्वजातौ स्यात् क्षत्त्रियस्त्रियाम् ।मर्त्यजात्यन्तरे व्रात्याज्जातेऽथो शाकटायनः ॥ १६०५ ॥
4.1605 · p. 187
अनुष्टुप्
निरुच्यौष्ठ्यबकारादिमेनं तस्यार्थमाह हि ।मेदं मेदो हि वैदेहान्निपाद्यां जात उच्यते ॥ १६०६ ॥
4.1606 · p. 187
अनुष्टुप्
वल्लवस्तु द्वयोः सूपकारगोपालयोर्भवेत् ।वर्तकस्तु पुमानश्वखुरे पक्ष्यन्तरे पुनः ॥ १६०७ ॥
4.1607 · p. 187
अनुष्टुप्
वर्तिका व(र्ति?र्त)का च स्त्री त्रि तु वर्तितरि स्मृतः ।वर्तनं तु तुरङ्गस्य क्ली धूलिलुठने तथा ॥ १६०८ ॥
4.1608 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जीविकायां प्रवृत्तौ च मुहुर्वचन एव च ।व्यावर्तने कुटीपिण्डे वर्तना तु न ना भवेत् ॥ १६०९ ॥
4.1609 · p. 187
अनुष्टुप्
धातोर्वर्तयतेरर्थे पिण्डीकरण एव च ।स्याद्भेद्यवत् तु वर्तिष्णौ वरेण्यं त्वभिधेयवत् ॥ १६१० ॥
4.1610 · p. 187
अनुष्टुप्
श्रेष्ठे नपुंसकं त्वन्ये वराहस्तु पुमान् गिरौ ।मेघेऽङ्गिरःसु प्रवरेऽप्यहनि द्वे तु सूकरे ॥ १६११ ॥
4.1611 · p. 188
अनुष्टुप्
वर्धनं छेदने वृद्धिक्रियायां भेद्यवत् पुनः ।स्याद्वृद्धिसाधने चापि वर्धिष्णौ च स्त्रियां पुनः ॥ १६१२ ॥
4.1612 · p. 188
अनुष्टुप्
गलन्तिकायामपि च सम्मार्जन्यां च वर्धनी ।वर्धना तु न ना धातोरर्थे वर्धयतेरथ ॥ १६१३ ॥
4.1613 · p. 188
अनुष्टुप्
वशिकं भेद्यवत् तुच्छे क्लीबं तु गुरुणि स्मृतम् ।वंशिकं त्वगुरौ क्लीबमध्वमानान्तरे तु ना ॥ १६१४ ॥
4.1614 · p. 188
अनुष्टुप्
दशस्तोमात्मके द्वे तु वेनीशूद्रसमुद्भवे ।मर्त्यजात्यन्तरे स्त्री तु वंशिका वंशवाद्यके ॥ १६१५ ॥
4.1615 · p. 188
अनुष्टुप्
कश्चित् तु वंशजालेऽपि ब्रूतेऽथ वपनं नपि ।बीजवापे मुण्डने च वपनी तु स्त्रियामियम् ॥ १६१६ ॥
4.1616 · p. 188
अनुष्टुप्
खरुकुट्याख्यवपनशालायां वयुनस्तु ना ।यज्ञे क्ली तु प्रशस्ते च वैदुष्येऽप्यथ स द्वयोः ॥ १६१७ ॥
4.1617 · p. 188
अनुष्टुप्
देवब्राह्मणयोः क्ली तु प्रज्ञाकान्त्योरथ त्रिषु ।स्याद्धूर्ते वञ्चको द्वे तु सृगाले ना तु वञ्चथः ॥ १६१८ ॥
4.1618 · p. 188
अनुष्टुप्
मार्गे काले च दम्भे च द्वे तु कारौ च कोकिले ।व्रश्चनं छेदने क्लीबं ना पत्रपरशौ त्रि तु ॥ १६१९ ॥
4.1619 · p. 188
अनुष्टुप्
साधने छेदनस्याथ वचुष्यं तु त्रि वक्तरि ।नकुले तु द्वयोराह कश्चिच्छब्दविचक्षणः ॥ १६२० ॥
4.1620 · p. 188
अनुष्टुप्
वसिरं त्व्रब्धिजे क्लीबं लवणे रभसः पुनः ।किणिहीहस्तिपिप्पल्योरपि प्राह पुमान् पुनः ॥ १६२१ ॥
4.1621 · p. 188
अनुष्टुप्
सिंहोक्तो हस्तिपिप्पल्यां कार्पासास्थ्नि तु वर्वरः ।लुब्धके ना पारसीकजने तु द्वे स्त्रियां पुनः ॥ १६२२ ॥
4.1622 · p. 189
अनुष्टुप्
भार्यायां वर्वरी नद्यां केशविन्यसनान्तरे ।भेद्यवत् त्वधमे वक्रकेशे च वरकस्तु ना ॥ १६२३ ॥
4.1623 · p. 189
अनुष्टुप्
वनमुद्गे कोद्रवस्य प्रभेदे रूक्षणाह्वये ।अस्त्रियां तु द्विखण्डाख्ये भवेत् प्रावरणान्तरे ॥ १६२४ ॥
4.1624 · p. 189
अनुष्टुप्
वठरस्तु शठे स्थूले त्रिषु वर्षे तु पुंस्ययम् ।वधकस्तु पुमान् व्याधौ पद्मबीजे तु नप्यदः ॥ १६२५ ॥
4.1625 · p. 189
अनुष्टुप्
भेद्यवद्घातके ना तु वरणः पादपान्तरे ।तिक्तशाकाह्वये चैव प्राकारे चैव नृप्यदः ॥ १६२६ ॥
4.1626 · p. 189
अनुष्टुप्
सम्भक्तावावृतौ चाथ वरुणो ना प्रचेतसि ।वरूणाह्वयवृझे च महोदरजान्तरे ॥ १६२७ ॥
4.1627 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जलोदराख्ये क्ली त्वप्सु प्रसवेऽत्रोक्तशाखिनः ।वसन्तस्त्वृतुभेदे ना सुरभ्याख्ये त्रिषु त्वयम् ॥ १६२८ ॥
4.1628 · p. 189
अनुष्टुप्
क्रियायां वसतेर्धातोः कर्तर्यत्रापि च स्त्रियाम् ।यदा वृत्तिस्तदा रूपं वसन्तीति पुमान् पुनः ॥ १६२९ ॥
4.1629 · p. 189
अनुष्टुप्
वहन्तो रथरेणौ स्यात् त्रि तु वाहक्रियाकृति ।तत्र स्त्र्यर्थे यदा वृत्तिर्वहन्तीति तदा भवेत् ॥ १६३० ॥
4.1630 · p. 189
अनुष्टुप्
ना विस्तृतकरे हस्ते क्ली ताम्रे मकरेऽपि च ।बल्लूरं तु वनक्षेत्र ऊषरे वाहने च नप् ॥ १६३१ ॥
4.1631 · p. 189
अनुष्टुप्
बल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः ।वधूलस्तु गजे द्वे स्यादृषिभेदे तु पुंस्ययम् ॥ १६३२ ॥
4.1632 · p. 189
अनुष्टुप्
स्याद्रसायनतन्त्रस्य कर्तरि स्यात् तु भेद्यवत् ।वरिष्ठः स्यादुरुतमे तथा वरतमेऽपि च ॥ १६३३ ॥
4.1633 · p. 189
अनुष्टुप्
द्वे तु तित्तिरिसंझे स्यात् पक्षिजात्यन्तरेऽथ सा ।वडवा घोटकान्तायां स्त्रीभेदेऽपि च विश्रुते ॥ १६३४ ॥
4.1634 · p. 190
अनुष्टुप्
कामतन्त्रविदां कुम्भदास्यां च रभसस्त्वमुम् ।द्विजाङ्गनायां च प्राह शब्दज्ञोऽथ नृलिङ्गकः ॥ १६३५ ॥
4.1635 · p. 190
अनुष्टुप्
यं पुमांसं वृषं सन्तमारोहन्ति यियप्सवः ।गावस्तत्र गुदे तु स्याद् वनिष्ठुर्ना द्वयोः पुनः ॥ १६३६ ॥
4.1636 · p. 190
अनुष्टुप्
अश्वे त्रिषु तु सम्भक्ते वचक्तुस्तु पुमानयम् ।आचार्ये श्रोत्रिये चाथ ब्राह्मणे द्वे त्रि वाम्ग्मिनि ॥ १६३७ ॥
4.1637 · p. 190
अनुष्टुप्
वन्दना तु न ना स्तुत्यामभिवादन एव च ।वर्षाभूस्तु द्वयोर्भेके वर्षाभ्वीति यदा तदा ॥ १६३८ ॥
4.1638 · p. 190
अनुष्टुप्
वृत्तिः स्याद्योनिमत्यर्थे तथा गण्डूपदेऽपि च ।भेकोक्तन्यायभावः स्यात् परेषां तु मतं विदुः ॥ १६३९ ॥
4.1639 · p. 190
अनुष्टुप्
पुनर्नवासमाख्यायामोषधौ स्त्रीति तत् पुनः ।स्यात् संशयितमस्माभिर्यतश्छन्दसि दृश्यते ॥ १६४० ॥
4.1640 · p. 190
अनुष्टुप्
अनादिसम्प्रदायात्ते प्रयोगे कण्ठजोप्मवान् ।व्युत्पन्नो हृग्रतेर्धातोर्वर्षाष्ठूशब्द एप वै ॥ १६४१ ॥
4.1641 · p. 190
अनुष्टुप्
उन्नम्भयेति वर्षाह्वा जुहोतीति ततश्च सः ।अपभ्रष्ट उताहोस्विद् वर्षाभूरिति चापरः ॥ १६४२ ॥
4.1642 · p. 190
अनुष्टुप्
पुनर्नवायां शब्दोऽस्ति व्युत्पन्नो भवतेरिति ।व्युत्पाद्यमानो भवतेर्मण्डूके सावकाशकः ॥ १६४३ ॥
4.1643 · p. 190
अनुष्टुप्
तस्मात् पुनर्नवायां स्यादयमोष्ठ्यभकारवान् ।सन्दिग्धोऽथ त्रिषु ज्ञेयो वसुमान् वसुसंयुते ॥ १६४४ ॥
4.1644 · p. 190
अनुष्टुप्
भूम्यां तु स्त्री वसुमती वलभित् तु पुमानयम् ।पुरन्दरे तथैकाहक्रतुभेदे च नप् पुनः ॥ १६४५ ॥
4.1645 · p. 191
अनुष्टुप्
स्यादारण्यकयोः सामभेदयोर्ऋचि गीतयोः ।उपत्वाजामयोगिर इत्यस्यामथ स द्वयोः ॥ १६४६ ॥
4.1646 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 गि (wrong syllable)
वनश्वा क्रोष्टरि व्याघ्रे रभसोक्तोऽथ स द्वयोः ।वयोधा युन्यथ त्रि स्याद् वयसो धातरि त्रि तु ॥ १६४७ ॥
4.1647 · p. 191
अनुष्टुप्
वनौका वनवास्तव्ये मर्कटे तु द्वयोरयम् ।वासन्तस्तु पुमाञ्ज्ञेयो वृक्षे कुरवकाह्वये ॥ १६४८ ॥
4.1648 · p. 191
अनुष्टुप्
वासन्ती तु स्त्रियां पुष्पवल्लीभेदेऽतिमुक्तके ।यूथिकायां च रभसोऽवहिते तु त्रिषु स्मृतः ॥ १६४९ ॥
4.1649 · p. 191
अनुष्टुप्
वसन्तजाते च तथा वसन्ते पुष्पजातिषु ।वसन्तसम्बन्धिनि च वार्ताकी तु स्त्रियामियम् ॥ १६५० ॥
4.1650 · p. 191
अनुष्टुप्
त्रिष्वित्येके शाकफलस्तम्बे वातिङ्गणाह्वये ।प्रसहाख्ये क्षुद्रफलस्तम्बे च प्रसवे पुनः ॥ १६५१ ॥
4.1651 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षु (wrong syllable)
तयोः क्लीबमथ द्वे स्याद् वानरो मर्कटेऽथ ना ।तुरुष्कसंज्ञे निर्यासे वाटिका तु स्त्रियामियम् ॥ १६५२ ॥
4.1652 · p. 191
अनुष्टुप्
पूगवृक्षे त्रिषु पुनर्वाटको वेष्टकेऽथ ना ।वाडबो वडबावह्नौ ब्राह्मणे तु द्वयोस्त्रि तु ॥ १६५३ ॥
4.1653 · p. 191
अनुष्टुप्
वडबायोगिनि प्राह रभसः पुन्नपुंसकम् ।वडबानां गणे द्वे तु वारणः कुञ्जरे त्रि तु ॥ १६५४ ॥
4.1654 · p. 191
अनुष्टुप्
विकारे वरणाख्यस्य तरोर्वरणयोगिनि ।ना तु सेतौ स्त्रीनपोस्तु वारणा स्यान्निवारणे ॥ १६५५ ॥
4.1655 · p. 191
अनुष्टुप्
अथात्र रभसेनोक्तः श्लोकोऽयं पठ्यते यथा ।विशारदे ग(दा?ता)तङ्के मुमुक्षौ बडवेष्टके ॥ १६५६ ॥
4.1656 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निर्जरेऽपि विशाले च वा(गु?ग)रो वारके पुमान् ।इत्येवमत्र लिङ्गानि व्यवस्थाप्यानि यत्नतः ॥ १६५७ ॥
4.1657 · p. 192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्ली तु स्याद्वाहनं युग्ये वाहनी तु स्त्रियामियम् ।पुरस्य राजमार्गे स्यादुपनिष्करसंज्ञके ॥ १६५८ ॥
4.1658 · p. 192
अनुष्टुप्
अना तु वाहयत्यर्थे वाहना वागुरा पुनः ।स्त्रियां स्यान्मृगबन्धन्यां मर्त्यजात्यन्तरे पुनः ॥ १६५९ ॥
4.1659 · p. 192
अनुष्टुप्
वैश्यवेनीसमुद्भूते वानकं तु नपुंसकम् ।ब्रह्मचर्ये त्रिषु पुनर्वनितर्यथ वापनी ॥ १६६० ॥
4.1660 · p. 192
अनुष्टुप्
स्त्रियामोदनभिक्षायां ग्रासमात्र्यामना पुनः ।वापना वापयत्यर्थे वार्तिकस्तु द्वयोरयम् ॥ १६६१ ॥
4.1661 · p. 192
अनुष्टुप्
दूते विवाहविख्यातधूलिभक्ते तु तन्नपि ।व्याख्याग्रन्थविशेषे च वारुणी तु स्त्रियामियम् ॥ १६६२ ॥
4.1662 · p. 192
अनुष्टुप्
उमायां च प्रतीच्यां च सुरायां च लतान्तरे ।भेद्यलिङ्गं तु वरुणसम्बन्धिन्यथ वारिजम् ॥ १६६३ ॥
4.1663 · p. 192
अनुष्टुप्
पद्मे सामुद्रलवणे क्लीबं शङ्खे तु पुंस्ययम् ।वामनस्तु पुमान् विष्णोरवतारान्तरे बलेः ॥ १६६४ ॥
4.1664 · p. 192
अनुष्टुप्
द्वेष्टरि द्रुमभेदे च मदनाख्ये तथा भवेत् ।दिग्गजे यमकाष्ठास्थे ह्रस्वे तु त्रिष्वथ स्मृतः ॥ १६६५ ॥
4.1665 · p. 192
अनुष्टुप्
वातूलः पुंसि वात्यायां त्रि तु वातासहे तथा ।वातलेऽप्यथ काके द्वे वायसः स्त्री तु वायसी ॥ १६६६ ॥
4.1666 · p. 192
अनुष्टुप्
काकोदुम्बरिकायां च काकमाच्यां च भाषिता ।भेद्यलिङ्गं तु विज्ञेयं वयः सम्बन्धिमात्रके ॥ १६६७ ॥
4.1667 · p. 192
अनुष्टुप्
वालकं त्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके ।ह्रीबेरे तु नपि स्त्री तु वालिका सिकतासु च ॥ १६६८ ॥
4.1668 · p. 193
अनुष्टुप्
ऊर्मो च कर्णपृष्ठस्थे विज्ञेया भूषणान्तरे ।वलये चाङ्गुलीये च पुमांसं रभसोऽब्रवीत् ॥ १६६९ ॥
4.1669 · p. 193
अनुष्टुप्
वासुकस्तु पुमानर्कनामधेयमहीरुहे ।रौमकाख्ये तु लवणे विजानीयान्नपुंसकम् ॥ १६७० ॥
4.1670 · p. 193
अनुष्टुप्
क्ली तु सन्देशवाचि स्याद् वाचिकं त्रि तु वाक्कृते ।गिरा चाभिनये ना तु वातघ्नो भूरुहान्तरे ॥ १६७१ ॥
4.1671 · p. 193
अनुष्टुप्
एरण्डसंज्ञे त्रिषु तु वातघ्नी वातघातके ।अमनुष्ये वाजिनं तु नवामिक्षाजवस्तुनि ॥ १६७२ ॥
4.1672 · p. 193
अनुष्टुप्
वाजिसम्बन्धिनि त्वेतत् त्रिरथो वासिकं नपि ।गृहच्छदिष्काष्ठभेदे सन्धिकाष्ठाह्वयेऽथ सा ॥ १६७३ ॥
4.1673 · p. 193
अनुष्टुप्
वासिका स्त्री माल्यदाम्नि वार्षिकं तु नपुंसकम् ।त्रायमाणासमाख्ये स्यात् स्थावरे भेद्यवत् पुनः ॥ १६७४ ॥
4.1674 · p. 193
अनुष्टुप्
वर्षासु भवजातादौ निर्वृत्तं यच्च किञ्चन ।वर्षेण वर्षाभिर्वा स्यात् तत्राधीष्टादिकेऽपि तत् ॥ १६७५ ॥
4.1675 · p. 193
अनुष्टुप्
वासवस्तु पुमानिन्द्रे द्वादशे चाप्यरत्निके ।भवेत् सप्तदशारत्नेर्यूषस्य स्यात् तु भेद्यवत् ॥ १६७६ ॥
4.1676 · p. 193
अनुष्टुप्
वसुसम्बन्धिनि द्वे तु वातिको विषवैद्यके ।त्रि तु वातस्य शमने कोपने चापि वस्तुनि ॥ १६७७ ॥
4.1677 · p. 193
अनुष्टुप्
वालुका तु स्त्रियामुक्ता सिकतासु नपि त्वदः ।एलावालुकसंज्ञे स्याद् भेषजेऽपि विषान्तरे ॥ १६७८ ॥
4.1678 · p. 193
अनुष्टुप्
पुण्डरीकसमाख्येऽथ वाचालो भेद्यलिङ्गकः ।बहुगर्ह्यगिरि स्त्री तु शारिकासंज्ञपक्षिणि ॥ १६७९ ॥
4.1679 · p. 193
अनुष्टुप्