विहित
vihitaवि · adj.In 6 kośas: 1 synonym verse, 6 as a meaning of another word.
सिद्धे निर्वृत्तनिष्पन्नौ निर्मितो विहितः कृतः ।लब्धमासादितं प्राप्तं त्यक्तमुत्सृष्टमुज्झितम् ॥ ११० ॥
अनुष्टुप्
genderविadj.
विहित as a meaning in nānārtha verses
- धरणिकोश प्रणीतप्रणीतः संस्कृते वह्नौ विहितेऽथ प्रवेशिते । संघातः कथितः संघः संघातो नरकान्तरम् ॥ Dharaṇikośa 15.2.53
- नानार्थार्णवसंक्षेप कलितअनाकुलेऽथ कलितं सङ्ख्याते ज्ञातबद्धयोः । आप्ते च विहिते चाह रभसः कमरः पुनः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 3.4.20
- परमानन्दीयनाममाला कृतकालिकायां परीवादे कीर्णः छन्ने हतेऽपि च । कृतं फले युगे पर्याप्तेऽपि तद्विहिते त्रिषु ॥ ९८ ॥ Paramānandīyanāmamālā 5.7.98
- शब्दरत्नावली कृतकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली प्रणीतप्रणीतः संस्कृतोग्नौ स्याद् विहितक्षिप्तयोरपि । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ॥ Śabdaratnāvalī 7.16.115
- वैजयन्ती कृतयुगेऽक्षपाते पर्याप्ते कृतं क्ली विहितेऽर्थवत् । क्ष्वेडा वेणुशलाकायां सिंहनादे विषे तु ना ॥ २१ ॥ Vaijayantī 6.5.21