सिद्ध
siddhaवि · adj.In 17 kośas: 34 synonym verses, 8 as a nānārtha head word, 6 as a meaning of another word.
पक्वे राद्धं च सिद्धं च भृष्टं पक्वं विनाम्बुना ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्भ (wrong syllable)
genderविadj.
सिद्धे निर्वृत्तनिष्पन्नौ विलीने विद्रुतद्रुतौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥
अनुष्टुप्
genderविadj.
यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
द्वाविंशतेराकृतिश्च नखसंज्ञास्तु विंशतिः ।सिद्धा जिनाश्चतुर्विंशत्तत्त्वं च पञ्चविंशतिः ॥ ३३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderपुंmasc.
अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके ।राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ९५ ॥
अनुष्टुप्
genderविadj.
पुंसि क्षुधान्नभिजनः क्षुताभिजननः स च ।राजिका कृष्णिका चाथ सिद्धः सिद्धप्रयोजनः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
निष्प्रभे विगतारोकस्तक्षुप्रक्षू तनूकृते ।सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १६५ ॥
अनुष्टुप्
genderविadj.
सिन्दुवारः श्वेतपुष्पः सिन्दूकः स्थिरसाधनः ।स्त्रीपुंसोः सुरसो नेता सिद्धोन्या नीलसिन्दुका ॥ ५११ ॥
अनुष्टुप्
genderपुंmasc.
सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः ।शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराप्सरोयक्षरक्षोगंधर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः ।तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराः किंपुरुषाः पिशाचारक्षांसि यक्षाः सुरगाथकाश्च ।कद्रूसुता गुह्यकसिद्धभूताःकान्ता दिवो दैवतयोनयः स्युः ॥ १२ ॥
इन्द्रवज्रा
genderपुंmasc.
व्युष्टं विवर्तितं वृत्तं वृतं चावृत्तमित्यपि ।निष्पन्नं सिद्ध निर्वृत्ते संपन्नं राद्धमित्यपि ॥ २७ ॥
अनुष्टुप्
genderविadj.
प्लुष्टदग्धोषिताश्चैव निष्पक्वक्वथिते समे ।निष्पन्नसिद्धनिर्वृत्ता विलीनविद्रुतद्रुताः ॥ ३६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderविadj.
उखासिद्धे पैठरोख्ये राद्धसिद्धे समे उभे ।जलं विना तु यत्पक्वं भृष्टं धानादिकं विदुः ॥ ७९ ॥
अनुष्टुप्
genderविadj.
महाराजिकरुद्राद्याः साध्याः प्रोक्ता गणेश्वराः ।किन्नराप्सरसःसिद्धा रक्षोभूतपिशाचकाः ॥ ३५१ ॥
अनुष्टुप्
genderपुंmasc.
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
सिद्धे निर्वृत्तनिष्पन्नौ निर्मितो विहितः कृतः ।लब्धमासादितं प्राप्तं त्यक्तमुत्सृष्टमुज्झितम् ॥ ११० ॥
अनुष्टुप्
genderविadj.
सुसंस्कृतं प्रयस्तञ्च पक्वान्नं चारु कथ्यते ।सिद्धं राद्धञ्च पक्वञ्च नाम पक्वस्य वस्तुनः ॥ ६१७ ॥
अनुष्टुप्
genderविadj.
ऋद्धं सिद्धं सुसम्पन्नं चेति नामानि सन्ति हि ।शूर्पादिना स्वच्छभूतं पूतं स्यान्निर्बुसीकृतम् ॥ २१३३ ॥
अनुष्टुप्
genderक्लीneut.
genderविadj.
रुद्रा एकादश प्रोक्ता वसवोऽष्टौ समीरिताः ।विद्याधराप्सरः सिद्धगन्धर्वयक्षकिन्नराः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्व (wrong syllable)
genderपुंmasc.
स्यादिन्द्रभेषजं विश्वभेषजं भेषजञ्च तत् ।काञ्जिकं काञ्जिकासिद्धमसिलं धातुनाशनम् ॥
अनुष्टुप्
genderक्लीneut.
सिद्धनिर्वृत्तनिष्पन्नास्त्रयं निष्पत्तिमागते ।अथ भिन्नं भेदितञ्च दारितञ्च विदारिते ॥
अनुष्टुप्
genderविadj.
विद्याधराप्सरः सिद्धयक्षराक्षसगुह्यकाः ।पिशाचभूतगन्धर्वकिंनराः सुरयोनयः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
निर्वृत्त सिद्धनिष्पन्नौ फल्ग्वसारौ समार्थकौ ।शिश्विदानो दुराचारो विवशोऽरिष्टदुष्टधीः ॥ १६९१ ॥
अनुष्टुप्
genderविadj.
ज्ञप्तिर्निरञ्जनः सिद्धो झान्तः सर्वेश्वरः शुभः ।दुर्मुखश्चानुनासश्च वामाङ्गुल्यग्रगश्च ञः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
द्वयन्तरे त्र्यन्तरे भुक्तमाहुः षष्ठान्नकालकम् ।राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
गंधर्वो गातुगांधर्वौ सिद्धाः स्युः सनकादयः ।भूतापुत्रास्तु भूतानि भूताश्च शिवपार्श्वगाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
गुणौदनिकसूपाश्च लवणो लवणोत्कटः ।पक्वं तु रन्धितं सिद्धं भृष्टं पक्वं विनांबुना ॥ ९३ ॥
अनुष्टुप्
genderविadj.
सिद्धे निर्वृत्तनिष्पन्नौ भिन्ने भेदितदारितौ ।वेधितच्छिद्रितौ विद्धे तष्टत्वष्टौ तनूकृते ॥ १११ ॥
अनुष्टुप्
genderविadj.
ना देवयोनौ तपसा समृद्धेनित्ये प्रसिद्धे फलिते च सिद्धः ।पुंस्यातपेऽथ त्रिषु दीप्त इद्धंसमृद्धसंपन्नगतं च ऋद्धम् ॥ ५४ ॥
उपजातिः
सिद्धस्तु सनकादौ ना देवजात्यन्तरे द्वयोः ।निष्पन्ने तु त्रिषु क्ली तु सिद्धौ गत्यादिकेष्वपि ॥ १५१५ ॥
अनुष्टुप्
स्त्रियां माध्वीके वृद्धौ च जीवन्त्यामपि योषिति ।सिद्धं क्लीबन्तु निद्रायामालस्ये चित्तविभ्रमे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
स्कन्धश्छन्दो विशेषाकेसयुद्धभूषतिवर्ष्मसु ।तरुप्रकाण्डे भद्रादौ समूहे च भवेत्पुमान् ॥अथ साधुर्वार्द्धुषिके सुन्दरे सज्जने त्रिषु ।सिद्धो योगभिदि व्यासे देवयोनिसुसिद्धयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 र्वा (wrong syllable)
नित्ये त्रिषु च निष्पन्ने व्यवहारेऽपि कुत्रचित् ।स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि च न द्वयोः ॥
अनुष्टुप्
doubtful
सिद्ध as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप प्रसिद्धख्यातभूषितयोः सिद्धे प्रभिन्नस्तु विदारिते । मत्तहस्तिनि चाथ स्याद् व्युत्पन्नक्षुण्णयोरयम् ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 3.4.35
- शब्दरत्नावली सूचकसूचकः पिशुने काके बिडाले बोधके शुनि । सीवनद्रव्यभेदे च वृद्धे सिद्धपिशाचयोः ॥ Śabdaratnāvalī 7.1.151
- शब्दरत्नावली निष्पन्ननिमित्तं कारणे चिह्णे निष्पन्नं जातसिद्धयोः । निवातो दृढसन्नाहनिर्वाताश्रययोरपि । निशान्तमूषागृहयोस्तथा शान्तजने त्रिषु ॥ Śabdaratnāvalī 7.16.111
- शब्दरत्नावली वैरोचनवैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः । शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥ शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि । शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥ शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः । भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.20.125
- शब्दरत्नावली शम्भुदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- त्रिकाण्डशेष साधनधान्यभेदे पुमान् षष्टिहायनः कुञ्जरेऽपि च । ना साधौ सज्जनं क्लृप्तौ साधनं सिद्धमेढ्रयोः ॥ २६७ ॥ Trikāṇḍaśeṣa 3.3.267