All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · तान्ताः (1/2)
इति णान्तवर्गः ॥
अस्तः पुंसि पश्चिमाद्रौ क्षिप्तावसितयोस्त्रिषु ।अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥
7.16.2 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सि (wrong syllable)
आर्त्तिः स्त्री पीडने गत्यां धनुष्कोप्याञ्च याचने ।आप्तिर्योगे च संप्राप्तौ इतः स्मृते गते त्रिषु ।ईतिः स्यादतिदृष्ट्यादिषट्सु डिम्बप्रवासयोः ॥
7.16.3 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मृ (wrong syllable)
उक्तमेकाक्षरच्छन्दोभाषिते प्रेरिते त्रिषु ।ऊतिः स्त्रियां रक्षणे स्यात्सीवणे क्षारणेऽपि च ॥
7.16.4 · p. 214
अनुष्टुप्
कृतिर्जुगुप्साकल्याणसार्द्धासु वर्त्मनि स्त्रियाम् ।कृतमुच्छशिले नीरे सत्ये दीप्ते च पूजिते ॥
7.16.5 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
तुरार्तवदीप्त्योश्च वर्षादिषट्सु पुंस्ययम् ।एतः कुर्वरवर्णे स्यादागते हरिणे क्वचित् ॥
7.16.6 · p. 214
अनुष्टुप्metre not read in every line
क्षत्ता सूते प्रतीहारे क्षत्रियाशूद्रजेऽपि च ।नियुक्ते च विरिञ्चे च भुजिष्यातनये पुमान् ।कर्ता विधातरि स्यात्तु कारके वाच्यलिङ्गकः ॥
7.16.7 · p. 214
अनुष्टुप्
कान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् ।कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना ।क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति ।कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥
7.16.8 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्य (wrong syllable)
कुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके ।कृतं स्यादलमर्थे च विहिते युगभेदके ॥हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते ।स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् ।केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे ।ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥
7.16.9 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 4 प्त (wrong syllable)
गतिर्दशायां मार्गे च ज्ञाने यात्राभ्युपाययोः ।नाडीव्रणपथे दाने यातविज्ञातयोर्गतम् ।गातुः पुंसि पिके भृङ्गे गन्धर्वे रोषणे त्रिषु ॥
7.16.10 · p. 214
अनुष्टुप्
गीतिर्गाने छन्दसि स्त्री गीतं गाने च शब्दिते ।गुप्तिः कारागृहे स्त्री स्याद् रक्षणेऽवकरस्थले ॥
7.16.11 · p. 214
अनुष्टुप्
गुप्तन्तु रक्षिते गूढे सङ्गतेऽप्यभिधेयतत् ।घातः प्रहारे कान्ते स्यात्तालावस्थान इत्यपि ।घृतं नीले क्लीबमाद्ये दीप्तिसेचनयोस्त्रिषु ॥
7.16.12 · p. 214
अनुष्टुप्metre not read in every line
जातं त्रिलिङ्गमुत्पन्ने क्लीबं व्यक्तौघजन्मसु ।जातिर्जन्मनि गोत्रे च सामान्ये ब्राह्मणादिके ॥
7.16.13 · p. 214
अनुष्टुप्
जातीफले च मालत्यां छन्दस्यश्मन्तिकासु च ।ज्ञातिस्ताते सगोत्रे च पुमानप्रसवेऽपि च ॥ततं वाद्यव्याप्तयोर्ना मारुते विस्तृते त्रिषु ।तातः पितरि पूज्ये स्यादनुकम्प्ये च पुंस्ययम् ॥तिक्तः सुगन्धरसयोः पर्पटे तु नपुंसकम् ।तिक्ता च कटुरोहिण्यां वचनादौ तु वाच्यवत् ॥
7.16.14 · p. 215
अनुष्टुप्
तूस्तं धूलौ जटायाञ्च पापे सूक्ष्मे च न द्वयोः ।त्रेताग्नित्रितये युगे तिप्राणितेरिते ॥
7.16.15 · p. 215
अनुष्टुप्metre not read in every line
दन्तः कुञ्जे च दशने दन्ती स्यादोषधीभिदि ।दान्तस्तू दलिते पुंसि तपः क्लेशसहे त्रिषु ॥
7.16.16 · p. 215
अनुष्टुप्
दितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि ।दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् ॥द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् ।दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः ॥धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥
7.16.17 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दयोनिमहाभूततद्गुणेषु रसादिषु ।इन्द्रियेषु च धाता स्याद् विधौ तु पालके त्रिषु ॥
7.16.18 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
धुतं त्यक्ते विधूते स्याद् धूतं कम्पितभर्त्सिते ॥
7.16.19 · p. 215
धूर्तो ना धुस्तरे खण्डणवणे स्याद्विटे त्रिषु ।धृतिर्धैर्ये धारणे च योगभेदेष्टितुष्टिषु ॥
7.16.20 · p. 215
अनुष्टुप्
नतं तगरपाद्यान्तु त्रिषु स्याद्वक्रनम्रयोः ।नीतिर्नये प्रायणे च पक्ति गौरवपाकयोः ॥
7.16.21 · p. 215
अनुष्टुप्
पंक्तिर्दशाक्षरच्छन्दो दिक्संख्याश्रेणिषु स्त्रियाम् ।प्राप्तं समञ्जसे लब्धे पतिः स्वामिन्यधीश्वरे ।पातः पुमान् पतने स्यात्त्राते निगदिते त्रिषु ॥
7.16.23 · p. 215
अनुष्टुप्metre not read in every line
प्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये ।प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥
7.16.24 · p. 215
अनुष्टुप्
पीतिः स्याद्घोटके पुंसि स्त्रियां पाने निगद्यते ।पीता स्त्री तु हरिद्रायां पाने क्लीबं सिते त्रिषु ॥
7.16.25 · p. 215
अनुष्टुप्
प्रीतिः प्रदेशपूज्येऽस्त्री रतौ हर्षेऽपि च स्त्रियाम् ।पुस्तं न ना पुस्तके स्यात्क्लीबे लेप्यादिकर्मणि ॥
7.16.26 · p. 215
अनुष्टुप्
प्लुतस्त्रिमात्रके पुंसि क्लीबे हयगतौ भवेत् ।पूर्तं त्रिषु पवित्रे स्याच् शटिते (?) बहुलीकृते ॥
7.16.27 · p. 215
अनुष्टुप्
पूर्तं खातादिके क्लीबं पालने पूरिते त्रिषु ।प्रेतो मृते वाच्यलिङ्गः पुंसि भूतान्तरे मतः ॥
7.16.28 · p. 216
अनुष्टुप्
भर्ता पत्यौ भवेत्पुंसि त्रिषु पोष्टरि धातरि ।भक्तिर्विभागे सेवायां भ्रान्तिर्मिथ्यामतौ गतौ ॥
7.16.31 · p. 216
अनुष्टुप्
भूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् ।अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥
7.16.34 · p. 216
अनुष्टुप्
क्लीबं त्रिषु चिते प्राप्ते वृत्ते सत्ये समेऽपि च ।पुमान् कुमारयोगीन्द्रदेवयोन्यरेषु च ॥
7.16.35 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मतं ज्ञाते सम्मते च मतिबुद्धीच्छयोः स्मृता ।मन्तुः पुंस्यपराधे स्याद् विद्यातरि च मानुषे ॥
7.16.36 · p. 216
अनुष्टुप्
माता गौर्यां जनन्याञ्च ब्राह्मणीगोविभूतिषु ।मितिर्माने च विज्ञानेऽप्यवच्छेदेऽपि च स्त्रियाम् ॥
7.16.37 · p. 216
अनुष्टुप्
मुक्तिर्मोक्षे मोचने च भवेत्सौख्यभिदि स्त्रियाम् ।मुक्तः स्यात्प्राप्तमोक्षे च नन्दिते मोचिते त्रिषु ॥
7.16.38 · p. 216
अनुष्टुप्
मौक्तिके तु भवेन्मुक्ता मूर्तिः काठिन्यदेहयोः ।मूर्तं त्रिषु स्यात्कठिनमूर्छने मूर्तिमत्सु च ॥
7.16.39 · p. 216
अनुष्टुप्
मृतं मृत्यौ याचिते स्यात्क्लीबं मृत्युमति त्रिषु ।यतिः स्त्रीपाठविच्छेदविधवारोगसन्धिषु ॥
7.16.40 · p. 216
अनुष्टुप्
रक्तस्त्रिषु लोहितानुरक्तनील्यादिरञ्जिते ।क्लीबं कुङ्कमताभ्रासृक् प्राचीनामलकेषु च ॥
7.16.44 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
रतञ्च सुरते गुह्ये रत्नः सरिति वर्त्मनि ।रिक्तस्तु विपिने शून्ये निर्धने त्रिषु कीर्तितम् ॥
7.16.46 · p. 216
अनुष्टुप्
रीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके ।लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥
7.16.47 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कि (wrong syllable)
प्रियङ्गुशाखा कस्तूरीलतावल्लीषु च स्त्रियाम् ।लिप्तं भुक्तेऽवलिप्ते च विषदिग्धेऽपि न द्वयोः ॥
7.16.48 · p. 216
अनुष्टुप्
लूता पिपीलिकायान्तु मर्कटे च गदान्तरे ।वप्तः स्यात्पुंसि जनके वापके वाच्यलिङ्गकः ॥
7.16.49 · p. 217
अनुष्टुप्
वक्ता स्यात्पण्डिते पुंसि वावदूके तु वाच्यवत् ।व्यक्तं व्याप्ते व्याकुले च व्यक्तः स्यात्पण्डिते स्फुट ॥
7.16.50 · p. 217
अनुष्टुप्
वर्तिर्गात्रानुलेपन्यां दीपे दीपर्दशासु च ।नेत्राञ्जने च लेखायां निर्माणे भेषजस्य च ॥
7.16.51 · p. 217
अनुष्टुप्
वार्त्ता वातिङ्गने कृष्यां वृत्तान्ते वर्चनेऽपि च ।निःसारारोग्ययोर्वार्तं वर्त्तिर्मल्लीरुजे स्त्रिषु ॥
7.16.52 · p. 217
अनुष्टुप्
वित्तिर्लाभे विचारे च सम्भवे स्यादपि स्त्रियाम् ।वित्तं धने क्लीबलिङ्गं त्रिषु ख्याते विचारिते ॥
7.16.53 · p. 217
अनुष्टुप्
वीतन्त्वसारहस्त्यश्चे तथा चाङ्कुशकर्मणि ।वस्तिर्द्वयोरधोनाभेर्दशासु च निरूहणे ॥
7.16.54 · p. 217
अनुष्टुप्
वीतिर्दीप्तौ गतौ भुक्तौ प्रजने वाधनेऽपि च ।वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्त्तने ॥
7.16.55 · p. 217
अनुष्टुप्
वृन्तं प्रसवबन्धे स्यात्कुम्भधारास्तनाग्रयोः ।वृत्तोऽतीते मृतेऽधीते वृतवर्तुलयोरपि ॥
7.16.56 · p. 217
अनुष्टुप्
वाच्यलिङ्गं दृढे क्लीबं छन्दश्चारित्रवृत्तिषु ।शक्तिरुत्साहगौर्योस्तु बले वस्त्रान्तरे स्त्रियाम् ॥
7.16.57 · p. 217
अनुष्टुप्
शान्तोऽभियुक्तरसभिच्छान्तियुक्तेषु पुंस्ययम् ।शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ॥
7.16.58 · p. 217
अनुष्टुप्
शीतं हिमगुणे शीते वाणीरे त्रिषु शीतले ।शुक्तः स्यान्निष्ठुरे श्लिष्टे पूताम्ले निर्जनेऽपि च ॥
7.16.59 · p. 217
अनुष्टुप्
श्रुतिः स्त्री श्रवणे वार्ते वेदे श्रवणकर्मणि ।शुक्तिः शङ्खे शङ्खनखमुक्तास्फोटनखीषु च ॥
7.16.60 · p. 217
अनुष्टुप्
कपालखण्डदुर्नामव्याद्यश्चावर्त्रकेषु च ।श्रुतं स्यात्क्लीबलिङ्गन्तु शास्त्रे श्रवणगोचरे ॥
7.16.61 · p. 217
अनुष्टुप्
श्वेतं रूप्ये सिते नाद्रौ श्वेताम्रे च कपर्दके ।शितं शातञ्च निशिते शातं स्यात्कृशशर्मणोः ॥
7.16.62 · p. 217
अनुष्टुप्
सत्प्रशस्ते विद्यमानेऽत्यादृते साधुसत्ययोः ।धीरेऽपि च वाच्यलिङ्गं स्यात्सतीसाध्वीमयो(?) स्त्रियाम् ॥
7.16.63 · p. 217
metre not recognisednearly अनुष्टुप्
सातिर्दानेऽवसाने च स्वान्तं गह्वरचित्तयोः ।स्थितमूर्द्धे गत्यभावप्रतिज्ञाते च निश्चिते ॥
7.16.64 · p. 217
अनुष्टुप्
स्थितिर्मर्यादावसानसीमास्थानेषु च स्त्रियाम् ।सीता लाङ्गलपद्धत्यां जानकीगङ्गयोरपि ॥
7.16.65 · p. 217
अनुष्टुप्
सुतः स्यात्पार्थिवे पुत्रे स्त्र्यपत्ये तु सुता स्त्रियाम् ।स्वान्तः स्पर्शाज्ञता निद्राविश्रम्भशयनेऽपि च ॥
7.16.66 · p. 218
अनुष्टुप्
सितं धवलबद्धावसिते खण्डान्तरे सिता ।स्यूतिः सीवनसन्तत्योः स्यूतः सूतप्रसेवयोः ॥
7.16.67 · p. 218
अनुष्टुप्
सूतः स्याद्वाहनणक्षत्रसुतपारदयोरपि ।प्रसूते प्रेरिते तक्ष्णि नन्दिसारथिवन्दिषु ॥
7.16.68 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सृतिर्गतौ वर्त्मनि स्यात्सेतुराशौ शिशौ पुमान् ।हस्तः करिकरे सप्रकोष्ठकरेऽपि च ॥
7.16.69 · p. 218
metre not recognisednearly अनुष्टुप्
तथा नक्षत्रभेदे च समूहार्थे कचात्परे ।हेतिरस्त्रे शिखायाञ्च तथा सूर्यार्चिषि स्त्रियाम् ॥
7.16.70 · p. 218
अनुष्टुप्
अमृतं स्यात्तु पीयूषे यज्ञशेषे जले घृते ।मोक्षायाचितयोर्ना तु धन्वन्तरिसुधाभुजोः ॥
7.16.71 · p. 218
अनुष्टुप्
अजितः केशवे पुंसि त्रिषु च स्यादनिर्जिते ।अच्युतः पुंसि गोविन्दे वाच्यलिङ्गे स्थिरेऽपि च ॥
7.16.73 · p. 218
अनुष्टुप्
अर्दितो व्याधिते संस्ये हिंसिते याचिते त्रिषु ।अक्षतं न द्वयोर्त्वाजिपिण्डयोस्त्रिषु खण्डिते ॥
7.16.74 · p. 218
अनुष्टुप्
अनन्तं क्लीबमाकाशे स्यात्पुमान् कृष्णशेषयोः ।अनन्ता सारिवापथ्याविशल्यामलकीषु च ॥
7.16.75 · p. 218
अनुष्टुप्
दूर्वादुरालभागौरीगुडूचीपिप्पलीषु च ।अम्बन्तं मरणे चूल्यामसृभे(?)ऽनवधावपि ॥
7.16.76 · p. 218
अनुष्टुप्
अमतिः पुंसि काले च दुष्टे हिमकरेऽपि च ।स्यादर्हन् क्षपणके बुद्धे मान्ये शिष्टे पुमानयम् ॥
7.16.77 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अर्हन्तः पुंसि वृद्धे स्यात्सुगते च महेश्वरे ।अर्वती वडवायाञ्च कुम्भदास्यामपि स्त्रियाम् ।अङ्गतिर्ना ब्रह्मविष्ण्वोरग्निहोतरि केशवे ॥
7.16.78 · p. 218
अनुष्टुप्metre not read in every line
आपातश्च तदात्वे स्यात्पतने पातनेऽपि च ।आघ्रातं शिङ्घिते क्रान्ते आख्यातं त्यादिभाषयोः ॥
7.16.81 · p. 218
अनुष्टुप्
आध्मातो वातरुग्भेदे दग्धसंयतशब्दिते ।आप्नुतः स्नातके स्नाते आदृतः सादरेऽर्चिते ॥
7.16.82 · p. 218
अनुष्टुप्
आचितः स्यात्त्रिषुच्छन्ने संगृहीते पुमानयम् ।शकटोन्मयकद्रव्ये पलानामयुतद्वये ॥
7.16.83 · p. 218
अनुष्टुप्
आहतन्तु मृषार्थे स्यात्ताडिते गुणितेऽपि च ।पुरातनांशुके नूत्ने वस्त्रे स्यात्युंसि चानके ॥
7.16.84 · p. 219
अनुष्टुप्
आनर्त्तस्तरणे नृत्यस्थाने देशभिदि जले ।आवर्तश्चिन्तने नीरभ्रमे चावर्त्तने पुमान् ॥
7.16.85 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 दि (wrong syllable)
आस्फोता वनमाल्यान्तु गिरिकर्ष्यामपि स्त्रियाम् ।आयस्तः क्लिशिते क्षिप्ते तेजसि कुपिते हते ॥
7.16.86 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ज (wrong syllable)
आयतिः स्यात् स्त्रियां दैर्घ्ये भाविकालप्रभावयोः ।आयत्तिः स्नेहवलयोर्वशित्वे वासरे स्त्रियाम् ।आकृतिः स्यात् स्त्रियां देहेहृतौ (?) सामान्यरूपयोः ॥
7.16.87 · p. 219
अनुष्टुप्
आसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः ।स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥
7.16.88 · p. 219
अनुष्टुप्
उषितं व्युषिते दग्धे ऊषितं रोगवोधयोः ।उदात्तः स्वरभेदे स्याद्दानवादयप्रभेदयोः ॥
7.16.89 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दयात्यागादिसम्पन्ने काव्यालङ्कारहृदययोः ।उत्तप्तं शुष्कमांसे स्यात्तप्ते परिप्लुते त्रिषु ॥
7.16.90 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 हृद (syllable split); pāda 4, syllable 3 प (wrong syllable)
उचितन्तु मिते त्यस्ते ज्ञाते ग्राह्ये समञ्जसे ।उद्धृतन्तु त्रिषूत्क्षिप्ते संभुक्तोज्झितयोरपि ॥
7.16.91 · p. 219
अनुष्टुप्
उत्थितं स्याद्वृद्धिमति संजाते प्रोच्यते त्रिषु ।उद्घातः पवनाभ्यासयोगकालविशेषके ॥
7.16.92 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वृ (wrong syllable)
उत्तुङ्गे मुद्गरे पादस्खलने समुपक्रमे ।उच्छ्रितन्तु समुन्नद्धे प्रवृद्धे सम्भूते त्रिषु ॥
7.16.93 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 म्भू (wrong syllable)
उन्मत्तो मुचुकुन्दे च धुस्तूरोन्मादयुक्तयोः ।उद्वान्तः स्यात्त्रिषु वान्ते पुंसि निर्मदकुञ्जरे ॥
7.16.94 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 षु (wrong syllable)
एधतुः स्याद्वीतिहोत्रे वर्द्धिते पुरुषे पुमान् ।कलितं विदिते चाप्ते गणिते भेदितेऽपि च ॥
7.16.95 · p. 219
अनुष्टुप्
कपोतश्चित्रकण्ठाङ्गपारावतविहङ्गयोः ।क्रन्दितं रुदिताह्वानयोधचित्करणेषु च ॥
7.16.96 · p. 219
अनुष्टुप्
क्षारितस्त्रिष्वभिशस्ते स्यात् क्षारे स्राविसे पुमान् ।कापोतं स्यात् कपोतौधाञ्जनयोरुचके पुमान् ।किरातो म्लेच्छभेदे स्याद् भूनिम्बाल्पशरीरयोः ॥
7.16.97 · p. 219
अनुष्टुप्metre not read in every line
स्त्रियाञ्चासवधारिण्यां कुहनीदुर्गयोरपि ।कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥
7.16.98 · p. 219
अनुष्टुप्
ग्रथितं गुम्फिताक्रान्तहिंसितेष्वभिधेयवत् ।गर्भास्तर्ना करे सूर्ये स्वाहायामपि च स्त्रियाम् ॥
7.16.99 · p. 220
अनुष्टुप्
गर्म्मुत् धमनहेम्नोः स्त्री गीष्पतिर्गुरुसूरिणोः ।गोपतिर्नृपतौ सूर्ये षण्डे स्मरहरे पुमान् ॥
7.16.100 · p. 220
अनुष्टुप्
स्याज्जगद्भुवने क्लीबं समीरे जङ्गमे त्रिषु ।जगती पिष्ठपे भूमौ जनच्छन्दोविशेषयोः ॥
7.16.101 · p. 220
अनुष्टुप्
जयन्ती सुतागौर्य्यौः पताका वृक्षभेदयोः ।जयन्तः स्यादिन्द्रपुत्रे भीमे च त्रिपुरान्तके ॥
7.16.102 · p. 220
metre not recognisednearly अनुष्टुप्
जामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि ।जीमूतः पर्वते मेघे देवताडे महत्यपि ॥
7.16.103 · p. 220
अनुष्टुप्
जीवातुरस्त्रियां भुक्त जीवनौषधजीविते ।जीवन्ती तु शमी वन्दा गुडूची जीवनीषु च ॥
7.16.104 · p. 220
अनुष्टुप्
जृम्भितं करणे स्त्रीणां तथा स्फुटितचेष्टयोः ।त्रिगर्त्तो देशभेदे स्याद् गणिते कामुकेऽपि च ॥
7.16.105 · p. 220
अनुष्टुप्
त्रिगर्ता स्याद्घुर्घुरिका कामुकाङ्गनयोरपि ।तृणता स्यात्तृणत्वेऽपि स्त्रियामेव शरासने ॥
7.16.106 · p. 220
अनुष्टुप्
दुर्गतिर्नरके निःस्वे द्विजातिर्विप्रपक्षिणोः ।दुर्जातं व्यसने क्लीबमसज्जातेऽभिधेयवत् ॥
7.16.107 · p. 220
अनुष्टुप्
दृष्टान्तो मरणे शास्त्रे स्यादुदाहरणेऽपि च ।निर्ऋतिः पुंसि दिक्पालभेदेऽलक्ष्म्यामपि स्त्रियाम् ॥
7.16.108 · p. 220
अनुष्टुप्
निकृतं विप्रलम्भे स्यात्त्रिषु विप्रकृते शठे ।निर्मुक्तः स्यान्मुक्तसङ्गमुक्तकञ्चुकसर्पयोः ॥
7.16.109 · p. 220
अनुष्टुप्
निरस्तं त्रिषु निष्ठूते त्यक्तशरे त्वरोदिते ।परित्यक्ते प्रतिहते आश्वासरहितेऽपि च ॥
7.16.110 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
निमित्तं कारणे चिह्णे निष्पन्नं जातसिद्धयोः ।निवातो दृढसन्नाहनिर्वाताश्रययोरपि ।निशान्तमूषागृहयोस्तथा शान्तजने त्रिषु ॥
7.16.111 · p. 220
अनुष्टुप्
निकृतिः स्त्री शठे शाठ्ये दैन्ये क्षेये च भर्त्सने ।निर्वृतिः सुत्थितौ सौख्ये तथास्तङ्गमने स्त्रियाम् ॥
7.16.112 · p. 220
अनुष्टुप्
नियतिर्नियमे दैवे पतत्पातुकपक्षिणोः ।प्रहतं वितते क्षुण्णे पर्यस्ते च हते त्रिषु ।प्रभूतं बहुले भूते उन्नतेऽप्युद्गते त्रिषु ॥
7.16.113 · p. 220
अनुष्टुप्
पलितं शैलजे तापे केशपाके च कर्दमे ।प्रसृतोऽर्द्धाञ्जलौ स्त्री तु जङ्घायां वेगिते त्रिषु ॥
7.16.114 · p. 221
अनुष्टुप्
प्रणीतः संस्कृतोग्नौ स्याद् विहितक्षिप्तयोरपि ।प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ॥
7.16.115 · p. 221
अनुष्टुप्
योन्तैन्विङ्गे पौरवर्गे शक्तौ च योषिति स्त्रियाम् ।पार्वती शल्लकी दुर्गा गोपालपुत्रिकासु च ॥
7.16.116 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
प्रार्थितं शत्रुसंरुद्धे याचितेऽभिहिते त्रिषु ।पित्सन् पुंसि विहङ्गे स्यात्पतनेच्छुजने त्रिषु ॥
7.16.117 · p. 221
अनुष्टुप्
पिशितं पिण्डिते मांसे गणिते च घनेऽपि च ।जटामांस्यान्तु पिशिता स्त्रियामेव निगद्यते ॥
7.16.118 · p. 221
अनुष्टुप्
पीडितं करणे स्त्रीणां बाधिते यन्त्रितेऽपि च ।पुटितं स्याद्धस्तपुटे स्यूतपाटितयोरपि ॥
7.16.119 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध (wrong syllable)
पृषत्पुमान्मृगे बिन्दौ न द्वयोः पृषतोऽपि च ।प्रेक्षितं स्याद्विनिहते सिक्ते च संस्कृते त्रिषु ॥
7.16.120 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)