All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां द्व्यक्षरकाण्डे अर्थवल्लिङ्गाध्यायः
नानालिङ्गेषु सर्वत्र स्वयमेव क्वचित्क्वचित् ।उन्नेयमर्थवल्लिङ्गं गुणद्रव्यक्रियार्थकम् ॥ १ ॥
6.5.1 · p. 230
अनुष्टुप्
अक्षो रथांग आधारे व्यवहारे विभीतके ।शकटे पाशके कर्षे द्यूतभेदेऽक्षमिन्द्रिये ॥ २ ॥
6.5.2 · p. 230
अनुष्टुप्
अब्जो धन्वन्तरौ शंखे चन्द्रे क्ली लवणेंऽबुजे ।प्रदेशेंऽश उपायेंऽगमंगो देशेंऽगशालिनि ॥ ३ ॥
6.5.3 · p. 230
अनुष्टुप्
अविर्भूपुष्पवत्योः स्त्री वायुप्राकारभास्तु ना ।अजः पितामहेऽनादौ छागे विष्णौ हरे रवौ ॥ ४ ॥
6.5.4 · p. 230
अनुष्टुप्
अन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके ।नार्धमासेऽणिरक्ल्यश्रौ रूप्येऽक्षाग्रध्रुवे ध्रुवे ॥ ५ ॥
6.5.5 · p. 230
अनुष्टुप्
अर्हन्तौ जिनसम्मान्यावर्वन्तौ हयकुत्सितौ ।अन्धोऽचक्षुस्तमोऽप्यन्धमर्चिर्भाज्वालयोर्न ना ॥ ६ ॥
6.5.6 · p. 230
अनुष्टुप्
अस्त्र आस्रश्च पुंलिंगौ क्लेशे क्ली रुधिरेऽश्रुणि ।आद्यो मुख्ये धातृपूर्वेष्वामोऽपक्वेऽपि रुज्यपि ॥ ७ ॥
6.5.7 · p. 230
अनुष्टुप्
इनास्त्वात्माधिपार्काढ्या उष्णोऽग्नौ चतुरेऽपि च ।उशिर्नाग्नावुशीरेऽस्त्री न नोषः कल्यसंध्ययोः ॥ ८ ॥
6.5.8 · p. 230
अनुष्टुप्
उस्रः किरण उस्रा गौर् ऋक्षंनिर्लोमनीन्द्रिये ।कंब्वस्त्री वलये शंखे शंबूके कणसंख्ययोः ॥ ९ ॥
6.5.9 · p. 230
अनुष्टुप्
कल्को ना सिह्लके न स्त्री किट्टे दंभेऽघपिष्टयोः ।कारा बन्धनगेहे स्त्री करे ना बन्धने न षण् ॥ १० ॥
6.5.10 · p. 230
अनुष्टुप्
कांस्यं कंसोऽस्त्रियां पानपात्रे तैजस आढके ।काण्डोऽस्त्रीषौ बले नाले गर्ह्येऽवसरवर्गयोः ॥ ११ ॥
6.5.11 · p. 230
अनुष्टुप्
ग्रन्थौ स्तंबे प्रकाण्डेप्सु कश्यं मद्यकशार्हयोः ।क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ॥ १२ ॥
6.5.12 · p. 231
अनुष्टुप्
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ।कूटोऽस्त्री पुंजमायाघेष्वद्रिशृंगेषुभेदयोः ॥ १३ ॥
6.5.13 · p. 231
अनुष्टुप्
अयोघनेऽनृते फाले दंभे निश्चलयन्त्रके ।कृष्णं सीसाघलोहेषु कृष्णो नीले नले कलौ ॥ १४ ॥
6.5.14 · p. 231
अनुष्टुप्
शूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरौ ।कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थौघे गृहे तनौ ॥ १५ ॥
6.5.15 · p. 231
अनुष्टुप्
गुह्येऽण्डे वेष्टके पेश्यां पुस्तकासिपिधानयोः ।कोलं बदरतक्कोलशुण्ठीव्योषेऽर्धकर्षके ॥ १६ ॥
6.5.16 · p. 231
अनुष्टुप्
कोला चव्येऽस्त्रपिप्पल्योः कोलः खंजे प्लवे किटौ ।कायो लक्ष्ये तनौ बृन्दे पुमांस्त्रिषु कदैवते ॥ १७ ॥
6.5.17 · p. 231
अनुष्टुप्
कर्पूः स्त्री तुषकोष्ठे कुल्यायां ना च ना करीषाग्नौ ।श्रोण्यां भृशे किलिंजे गजगण्डे शवरथे शवे च कटः ॥ १८ ॥
6.5.18 · p. 231
गीतिः
किष्कुर्वितस्तावनपुं सप्रकोष्ठकरे पुमान् ।कीलोऽक्ली कफणौ ज्वाले बाहौ ना शंकुशर्वयोः ॥ १९ ॥
6.5.19 · p. 231
अनुष्टुप्
पीठे श्मश्रुणि कूर्चोऽस्त्री भ्रूमध्ये कत्थने कुशे ।कृत्या क्रियादेवतयोः कार्ये क्ली कुपिते त्रिषु ॥ २० ॥
6.5.20 · p. 231
अनुष्टुप्
युगेऽक्षपाते पर्याप्ते कृतं क्ली विहितेऽर्थवत् ।क्ष्वेडा वेणुशलाकायां सिंहनादे विषे तु ना ॥ २१ ॥
6.5.21 · p. 231
अनुष्टुप्
क्षेमो ना प्राप्तरक्षायां मोक्षेऽप्यस्त्री तु मङ्गले ।स्वीयेऽन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे ॥ २२ ॥
6.5.22 · p. 231
अनुष्टुप्
क्रोडं क्ली कर्ष उत्सङ्गे सूकरे ना न नोरसि ।औषधे रुजि कुष्ठोऽस्त्री कुञ्जोऽस्त्री गह्वरे हनौ ॥ २३ ॥
6.5.23 · p. 231
अनुष्टुप्
दर्भे कुशोऽस्त्री तोये क्ली कुटिर्वक्रे गृहे नषण् ।कृष्टिर्विलेखे प्राज्ञे ना खेटो ग्रामे कफेऽधमे ॥ २४ ॥
6.5.24 · p. 232
अनुष्टुप्
अर्धे गुडविकारे च खण्डोऽस्त्री खण्डिते त्रिषु ।खलं भूस्थानकल्केषु खलो नीचः खलेत्वरी ॥ २५ ॥
6.5.25 · p. 232
अनुष्टुप्
गव्यूतौ गोगणे गव्या ज्यायागद्रव्ययोर्नपुम् ।भाण्डागारे पुमान् गञ्जः स्त्री तु खन्यां सुरागृहे ॥ २६ ॥
6.5.26 · p. 232
अनुष्टुप्
गुडौ पिण्डेशुविकृती स्नुहीगुलिकयोर्गुडा ।गुरुर्गीष्पतिपित्राद्योः पौरोहित्यकरे च ना ॥ २७ ॥
6.5.27 · p. 232
अनुष्टुप्
मात्रादौ स्त्री बृहत्ख्यातदुर्भरालघुषु त्रिषु ।गोत्रा गोनिचये भूम्यां गोत्रं नाम्नि कुलेऽचले ॥ २८ ॥
6.5.28 · p. 232
अनुष्टुप्
गडुः पृष्ठगुडे कुब्जे गदो रोगो गदायुधम् ।गोप्यो रक्ष्ये दाससुते घ्राणमाघ्रातनासयोः ॥ २९ ॥
6.5.29 · p. 232
अनुष्टुप्
घनाः कठिनसंघातमेघकाठिन्यमुद्गराः ।चित्रा सुभद्रा तारा च चित्रमालेख्यमिश्रयोः ॥ ३० ॥
6.5.30 · p. 232
अनुष्टुप्
चेलं वासोऽक्षमं काम्यं गर्हितं बर्हिचन्द्रकः ।चुम्रो नाशे विषण्णे च चोक्षो गीतमनोज्ञयोः ॥ ३१ ॥
6.5.31 · p. 232
अनुष्टुप्
छेको विदग्धे गृह्ये च जिह्यं मन्देऽघवक्रयोः ।जन्यं रणे जनितरि विगीतजननीययोः ॥ ३२ ॥
6.5.32 · p. 232
अनुष्टुप्
ज्ञातिभृत्या नवोढाया जन्याः स्निग्धा वरस्य च ।जीवः प्राणे त्रयी ना तु जन्तावात्मनि गीष्पतौ ॥ ३३ ॥
6.5.33 · p. 232
अनुष्टुप्
त्रिषु जीवति मौर्व्यां स्त्री स्याज्जीर्णो वज्रवृद्धयोः ।झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥ ३४ ॥
6.5.34 · p. 232
अनुष्टुप्
तनुः स्त्री त्वचि देहे च त्रिष्वल्पे विरले कृशे ।तमा राहुस्तमोऽघं शुक् स्वरूपेऽधस्तलोऽस्त्रियाम् ॥ ३५ ॥
6.5.35 · p. 232
अनुष्टुप्
क्ली तुल्यदेशे तारस्तु मुक्ताशुद्धौ सुमौक्तिके ।उडुदृङ्मध्ययोरक्ली तुच्छं त्वसुखशून्ययोः ॥ ३६ ॥
6.5.36 · p. 233
अनुष्टुप्
ताम्रं शुल्बे शुल्बनिभे तिग्मास्तीक्ष्णोष्णभास्कराः ।तीक्ष्णमुष्णे क्ष्णुते युद्ध आत्मत्यजि विषेऽयसि ॥ ३७ ॥
6.5.37 · p. 233
अनुष्टुप्
कर्णमूलेऽभ्रहरितोस्तोक्मं तोक्मो हरिद्यवः ।दंडोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे ॥ ३८ ॥
6.5.38 · p. 233
अनुष्टुप्
मिथ्याज्ञायां सैन्यभेदे दलो भागे दलं छदे ।दरोऽस्त्री शंखभीगर्तेष्वल्पार्थे त्वव्ययं दरम् ॥ ३९ ॥
6.5.39 · p. 233
अनुष्टुप्
दंष्ट्री ग्राहे सदंष्ट्रेऽहौ शार्दूले मूषिके किटौ ।परिमाणे दारुपात्रे द्रोणोऽस्त्री वायसे पुमान् ॥ ४० ॥
6.5.40 · p. 233
अनुष्टुप्
दिग्धो विषप्रलिप्तेषौ लिप्ते स्नेहप्रवृद्धयोः ।दुर्गे राष्ट्रे वने दुर्गं दुर्गमे नरके पुरे ॥ ४१ ॥
6.5.41 · p. 233
अनुष्टुप्
दृश्या स्यात् पृतना दृश्यं दर्शनीये विभूषणे ।धर्मोऽस्त्री सुकृते साम्ये स्वभावे ना तु सोमपे ॥ ४२ ॥
6.5.42 · p. 233
अनुष्टुप्
न्यायाचारयमाहिंसास्वस्त्री मेढ्रांकयोर्ध्वजः ।धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने बले गृहे ॥ ४३ ॥
6.5.43 · p. 233
अनुष्टुप्
ध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः ।क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥
6.5.44 · p. 233
अनुष्टुप्
निष्कोऽस्त्री हेम्नि दीनारे साष्टे कर्षशते पले ।वक्षोविभूषणे कर्षे नाथस्त्विंद्रे प्रभावपि ॥ ४५ ॥
6.5.45 · p. 233
अनुष्टुप्
न्युब्जं कुब्जे कर्मरंगे न्युब्जो व्याधावधोमुखे ।नेमः पुरोहिते तुल्ये प्रस्थोऽस्त्री सानुमानयोः ॥ ४६ ॥
6.5.46 · p. 233
अनुष्टुप्
बंधने दूरमार्गे च प्राध्वं क्ली प्रवणे त्रिषु ।पूर्वोऽर्थलिंगः प्राच्यादौ पूर्वजेषु नृभूमवान् ॥ ४७ ॥
6.5.47 · p. 233
अनुष्टुप्
पद्मोऽस्त्र्यब्जेष्टकायां क्ली संख्यायां गजबिंदुषु ।ना तु नागे निधौ व्यूहे पंकोऽस्त्री कर्दमैनसोः ॥ ४८ ॥
6.5.48 · p. 234
अनुष्टुप्
परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः ।पार्ष्णिरुन्मत्तनार्यां स्त्री पादग्रंथेरधोऽपि च ॥ ४९ ॥
6.5.49 · p. 234
अनुष्टुप्
पुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः ।पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥
6.5.50 · p. 234
अनुष्टुप्
पार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः ।स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥
6.5.51 · p. 234
अनुष्टुप्
स्यात्परेत इव प्रेतो मृतप्राणिविशेषयोः ।लाभनिष्पत्तिभोगेषु बीजे फाले धने फलम् ॥ ५२ ॥
6.5.52 · p. 234
अनुष्टुप्
फली ताम्रादिफलके बर्हिर्नाग्नौ नपुं कुश ।ब्रह्मा रुद्रेंद्रभृग्वादिविप्रर्त्विग्यज्ञधातृषु ॥ ५३ ॥
6.5.53 · p. 234
अनुष्टुप्
अर्केऽग्नौ क्ली तु वेदेऽन्नं स्वाध्यात्मात्मतपःसु च ।बलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च ॥ ५४ ॥
6.5.54 · p. 234
अनुष्टुप्
बलो रामे बलाढ्ये च बाढं त्वनुमते दृढे ।बिंबोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ५५ ॥
6.5.55 · p. 234
अनुष्टुप्
प्रतिबिंबे तत्प्रकृतौ क्ली तु स्याद्बिंबिकाफले ।साज्ये मधुनि तक्कोले बोलं बोलोंऽभसां भ्रमः ॥ ५६ ॥
6.5.56 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
बोधिरर्थे सुविज्ञाने कुक्कुटाश्वत्थयोस्तु ना ।बालोऽक्ली नीलझिण्ट्यां च भेलौ तूडुपभीरूकौ ॥ ५७ ॥
6.5.57 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 रू (wrong syllable)
भगं योन्यां भगो यत्ने यशोवीर्यार्कभूतिषु ।कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपः सु च ॥ ५८ ॥
6.5.58 · p. 234
अनुष्टुप्
खादौ जन्तौ च भूतं क्ली समातीतोचिते त्रिषु ।भास्वानिंदौ भास्वरेऽर्के भेको वर्षाभ्वि कातरे ॥ ५९ ॥
6.5.59 · p. 234
अनुष्टुप्
अन्नतत्परयोर्भक्तं भद्रं कल्याणसौख्ययोः ।मन्दाः सरोगनिर्भाग्यस्वल्पाज्ञापटुसूर्यजाः ॥ ६० ॥
6.5.60 · p. 235
अनुष्टुप्
क्षौद्रादौ तद्रसेऽप्यस्त्री ना वसन्ते रसेऽसुरे ।चैत्रे मधूके क्ली त्वप्सु मद्ये पुष्परसे मधु ॥ ६१ ॥
6.5.61 · p. 235
अनुष्टुप्
अक्ली मणिरजाकण्ठस्तने रत्नेऽप्यलिंजरे ।मात्रा परिच्छदेऽर्थेंशें प्रवृत्तौ कर्णभूषणे ॥ ६२ ॥
6.5.62 · p. 235
अनुष्टुप्
अक्षरावयवे माने मात्रं कार्त्स्न्येऽवधारणे ।मध्यं युक्तेंऽतराले च महद्राज्यविशालयोः ॥ ६३ ॥
6.5.63 · p. 235
अनुष्टुप्
मोचा कदल्यां स्त्री वृक्षरसे ना पाटले नषण् ।मौलिः संयतकेशेषु चूडायां मकुटेऽप्यषण् ॥ ६४ ॥
6.5.64 · p. 235
अनुष्टुप्
मलं किट्टाघयोश्चास्त्री यमजान्तकयोर्यमः ।ययुर्ना मोक्षमार्गेऽश्वे स्त्रीत्वाप्तौ दीर्घयष्टिके ॥ ६५ ॥
6.5.65 · p. 235
अनुष्टुप्
युगोऽस्त्री स्यन्दनाद्यंगे क्ली तु युग्मे कृतादिके ।योनिः स्त्रीणां भगे स्थाने कारणे ताम्रकेऽप्यषण् ॥ ६६ ॥
6.5.66 · p. 235
अनुष्टुप्
योग्यं यन्त्रक्षमापूपयानोपायिषु चन्दने ।योग्याभ्यासः क्षमापुण्ये रोको रश्मौ बिले नपुम् ॥ ६७ ॥
6.5.67 · p. 235
अनुष्टुप्
राजते भूषणे रूप्यं रजते हेम्नि चाहते ।त्रिषु प्रशस्तरूपेऽथ रणोऽस्त्री युधि ना ध्वनौ ॥ ६८ ॥
6.5.68 · p. 235
अनुष्टुप्
राष्ट्रोऽस्त्री विषये जन्तौ लोहोऽस्त्री तैजसायसोः ।लक्षं नपुं शरव्ये ना स्त्री व्याजे नियुते न ना ॥ ६९ ॥
6.5.69 · p. 235
अनुष्टुप्
वर्णो नीलादिविप्राद्योः कीर्तौ गीतिक्रमे स्तुतौ ।कुथे वृतेऽक्षरे त्वस्त्री प्रकारे लेपशोभयोः ॥ ७० ॥
6.5.70 · p. 235
अनुष्टुप्
वशी करिण्यां वन्ध्यायां रामायां दुहितर्यपि ।वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः ॥ ७१ ॥
6.5.71 · p. 235
अनुष्टुप्
वरो ना रूपजामात्रोर्देवादेरीप्सिते वृतौ ।त्रिष्वग्र्ये क्ली मनागिष्टे व्यक्तं स्पष्टे बुधे तु ना ॥ ७२ ॥
6.5.72 · p. 236
अनुष्टुप्
वत्सो ना कुटजे वर्षे तर्णके तनयादिके ।बाले च वक्षसि त्वस्त्री वज्रोऽस्त्री हीरकास्त्रयोः ॥ ७३ ॥
6.5.73 · p. 236
अनुष्टुप्
व्यालो दुष्टगजे सर्पे श्वापदे च पुमांस्त्रिषु ।शठेऽथ वित्तमर्थे क्ली त्रिषु ख्याते विचारिते ॥ ७४ ॥
6.5.74 · p. 236
अनुष्टुप्
वीतं शान्ते दुर्गजाश्वे वधो हिंसितृहिंसयोः ।वार्ता वातिंगणोदन्तवाणिज्यादिषु वर्तने ॥ ७५ ॥
6.5.75 · p. 236
अनुष्टुप्
निस्सारारोग्ययोः षण्डो वृत्तिमन्नीरुजोस्त्रिषु ।वृत्तं स्वरूपे चरिते वृत्तौ छन्दोविधासु च ॥ ७६ ॥
6.5.76 · p. 236
अनुष्टुप्
त्रिष्वतीतदृढाधीतवर्तुलेष्वथ गीष्पतौ ।श्रेष्ठोक्षाश्वाखुरेतःसु पुन्धर्मेन्द्रबले वृषः ॥ ७७ ॥
6.5.77 · p. 236
अनुष्टुप्
वसुर्ह्रर्देऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ ।विश्वं जगति सर्वस्मिंस्त्रिषु शुण्ठ्यां पुनर्न ना ॥ ७८ ॥
6.5.78 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्नौ (wrong syllable)
वप्रः पितरि ना न स्त्री क्षेत्रे रोधसि सानुनि ।वर्षोऽस्त्री भारताद्यब्दवृष्टिषु प्रावृषि स्त्रियः ॥ ७९ ॥
6.5.79 · p. 236
अनुष्टुप्
वास्त्वस्त्री गृहभूपुर्योर्गृहे सीमसुरुंगयोः ।वानं शुष्के गतौ व्यूतौ गन्धे वृद्धौ सुधीयमौ ॥ ८० ॥
6.5.80 · p. 236
अनुष्टुप्
वर्ष्म न स्त्री शुभाकारे सौम्ये देहप्रमाणयोः ।विभुः सर्वगते पत्यौ चन्द्रे रविकुबेरयोः ॥ ८१ ॥
6.5.81 · p. 236
अनुष्टुप्
वीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः ।गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥
6.5.82 · p. 236
अनुष्टुप्
शंखोऽस्त्री वलये कंबौ संख्यायां च निधौ तु ना ।अमावस्यां च नागे च शितौ बाणतनूकृतौ ॥ ८३ ॥
6.5.83 · p. 236
अनुष्टुप्
शिवा हरीतकी क्रोष्टा शमी नद्यामलक्युमा ।शिवो घोले पद्मरागे हरे कीले शिवं जले ॥ ८४ ॥
6.5.84 · p. 237
अनुष्टुप्
भद्रे चाथोपधा शुद्धसचिवेऽग्नौ हरौ शुचिः ।चन्द्रेऽर्के च त्रिषु त्वेष शुद्धेऽनुपहते सिते ॥ ८५ ॥
6.5.85 · p. 237
अनुष्टुप्
शुक्रः सिते कवौ चन्द्रे मासभेदेऽनले द्विजे ।शुक्रं मेध्येऽप्सु पुण्येऽर्थे रुक्मेऽक्षिरुजि रेतसि ॥ ८६ ॥
6.5.86 · p. 237
अनुष्टुप्
क्रीडांबुयन्त्रे शृंगोऽस्त्री पर्वताग्रप्रभुत्वयोः ।पश्वंगे चाथ शेषः स्त्रिष्वन्यस्मिन्नुपयुक्ततः ॥ ८७ ॥
6.5.87 · p. 237
अनुष्टुप्
माल्याक्षतादिदाने स्त्री ना नागेशाप्रधानयोः ।ना पर्याणे विहंगे स्त्री शारिर्द्यूते गुडे नषण् ॥ ८८ ॥
6.5.88 · p. 237
अनुष्टुप्
पथि देये शुल्कमस्त्री जामात्रा यच्च दीयते ।श्रुतं शास्त्रावधृतयोर्नपुमाकर्णितेऽर्थवत् ॥ ८९ ॥
6.5.89 · p. 237
अनुष्टुप्
सजातिशिल्पिसंहत्यामषण्डः श्रेणिरावलौ ।शौण्डी जलदमालायां शौण्डौ समदकुक्कुटौ ॥ ९० ॥
6.5.90 · p. 237
अनुष्टुप्
शको विष्ठा पशूनां स्याद्देशे च गवये शकाः ।शबले मारुते शारः शुद्धाः पूतार्ककेवलाः ॥ ९१ ॥
6.5.91 · p. 237
अनुष्टुप्
शुभ्रिर्नार्केऽर्थवत्सौम्ये शूरौ विक्रान्तकुक्कुटौ ।शूलोऽस्त्री रुजि शस्त्रे च श्वेतं धवलरूप्ययोः ॥ ९२ ॥
6.5.92 · p. 237
अनुष्टुप्
शीतो ना वेतसे शेलौ शैत्ये क्ली तद्वति त्रिषु ।सत्त्वोऽस्त्री जन्तुषु क्ली तु व्यवसाये पराक्रमे ॥ ९३ ॥
6.5.93 · p. 237
अनुष्टुप्
आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः ।प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥
6.5.94 · p. 237
अनुष्टुप्
समा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् ।परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥
6.5.95 · p. 237
अनुष्टुप्
स्पर्शः संस्पर्शने स्प्रष्टर्युपतापप्रदानयोः ।साधुस्त्रिषूचिते सौम्ये सज्जने वार्धुषौ पुमान् ॥ ९६ ॥
6.5.96 · p. 238
अनुष्टुप्
सारो बले स्थिरांशेऽर्थे पुमान्न्याय्ये वरेऽर्थवत् ।स्त्री नद्यां ना नदे सिन्धुर्देशभेदेंऽबुधौ गजे ॥ ९७ ॥
6.5.97 · p. 238
अनुष्टुप्
सौम्यो विप्रे सोमजेऽब्दे सुन्दरे सोमदैवते ।सखा सहाये बन्धौ ना सूक्ष्ममध्यात्मदभ्रयोः ॥ ९८ ॥
6.5.98 · p. 238
अनुष्टुप्
सूनं पुष्पे सुतायां स्त्री स्नेहोऽस्त्री द्रवहार्दयोः ।विष्णुचन्द्रेन्द्रवातार्कयमाश्वांशुशुकाग्निषु ॥ ९९ ॥
6.5.99 · p. 238
अनुष्टुप्
कपिभेकाहिसिंहेषु हरिर्ना कपिले त्रिषु ।हृद्यो वशीक्रिया मन्त्रे हृद्यं दध्न्यनुलेपने ॥ १०० ॥
6.5.100 · p. 238
अनुष्टुप्