कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उत्सृष्ट

utsṛṣṭaवि · adj.

In 13 kośas: 12 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1475 · p. 56
परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ ॥परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् ।धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.189
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ।
उद्गीतिः
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.714 · p. 82
अवकीर्णमवध्वस्तं त्यक्तमुत्सृष्टमुज्झितम् ।अनादृतमवज्ञातमपहस्तितमिष्यते ॥ ७१४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.174 · p. 233
अवज्ञातं चावमतं परिभूतेऽवमानितम् ।उत्सृष्टं विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥ १७४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.72 · p. 8
संयतोऽप्यथ मुक्तः स्यादुत्सृष्टश्च विसृष्टवत् ।प्राट् कथं[163a]कथिकः प्रष्टा कथकैकलटौ(?)समौ ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.31 · p. 25
परिक्षिप्तं वलयितं निवीतं परिवेष्टितम् ।निवृतं स्यात्संवलितं वलितं च समार्थकम् ।परिष्कृतं परीतं च त्यक्तं तूत्सृ[ष्ट]मुज्झितम् ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.356 · p. 96
उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् ।[53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.110 · p. 45
सिद्धे निर्वृत्तनिष्पन्नौ निर्मितो विहितः कृतः ।लब्धमासादितं प्राप्तं त्यक्तमुत्सृष्टमुज्झितम् ॥ ११० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2681 · p. 433
त्यक्तमुज्झितमुत्सृष्टं धूतं विधूतमित्यपि ।हीनं चेत्यभिधेयानि त्यक्तस्य संभवन्ति वै ॥ २६८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.77 · p. 168
त्यक्तं हीनञ्च विधुतं धूतोत्सृष्टसमुज्झितम् ।भाषितोक्तोदिताख्यातलपिताभिहितजल्पितम् ।विदितं बूधितं बुद्ध मनितं प्रतिपन्नवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 लपि (syllable split)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.878 · p. 110
पटच्चरं जीर्णविस्त्रं पुंसि नक्तककर्पटौ ।परिवीतं त्रिषूत्सृष्टं निवीतं प्रावृतं त्रिषु ॥ ८७८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.101 · p. 209
मनिते विदितज्ञातौ बुधिते बोधबुद्धवत् ।त्यक्ते तु विधुतोत्सृष्टहीनधूतसमुज्झिताः ॥ १०१ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.265 · p. 69
उन्मदस्तु पुमाञ्छूर्पे कच्छपे तु द्वयोरयम् ।उत्सृष्टस्त्रिषु दत्ते स्यात् त्यक्ते चाथ नृलिङ्गकः ॥ २६५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.266 · p. 69
शाकजातिविशेषस्य मारिषाख्यस्य भेदके ।देवमारिषसंज्ञेऽथो उन्माथः पाशयन्त्रके ॥ २६६ ॥
अनुष्टुप्
doubtful

उत्सृष्ट as a meaning in nānārtha verses