कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · ककारादयः

अथ ककारादयो यथा ।

कर्को घटेऽनिले राशौ श्वेताश्वे दर्पणेऽपि च ॥ ८३ ॥
5.7.83 · p. 172
कुणिर्वृक्षे कुहस्तेऽथ पिप्पल्यां जीरके कणा ।काकं काकसमूहे च योषितां करणान्तरे ॥ ८४ ॥
5.7.84 · p. 172
अनुष्टुप्
काका तु काकजङ्घायां काकमाच्यामपि स्मृता ।कुञ्जस्तु दन्तिनां दन्ते निकुञ्जे मन्दिरे हनौ ॥ ८५ ॥
5.7.85 · p. 172
अनुष्टुप्
कोकस्तु चक्रवाके स्थाद्वृके खर्जूरिकाद्रुमे ।कचो वाक्पतिपुत्रे स्यात्केशे बन्धे व्रणान्तरे ॥ ८६ ॥
5.7.86 · p. 172
अनुष्टुप्
काचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः ।कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥
5.7.87 · p. 172
अनुष्टुप्
कुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे ।क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥
5.7.88 · p. 172
अनुष्टुप्
ऋग्भेदे वेदवित्पाठे कण्ठः स्यान्मदनद्रुमे ।घोषे गले समीपे च कार्यं हेतौ प्रयोजने ॥ ८९ ॥
5.7.89 · p. 172
अनुष्टुप्
क्रोडः कोले शनावङ्के कृष्णो विष्णौ पिकेऽर्जुने ।काके वर्णे तथा व्यासे कृष्णं मरिचलोहयोः ॥ ९० ॥
5.7.90 · p. 173
अनुष्टुप्
कृष्णा तु द्रौपदीनील्योः पिप्पलीहारहरयोः ।कद्रूः सर्पजनन्यां स्यात्कद्रुः काञ्चनवर्णके ॥ ९१ ॥
5.7.91 · p. 173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ह (wrong syllable)
कल्यं मद्ये प्रभातेऽपि सावधाने निरामये ।केशोऽब्जे वरुणे वाले काशः स्यात्तृणरोगयोः ॥ ९२ ॥
5.7.92 · p. 173
अनुष्टुप्
कुशो रामाङ्गजे दर्भे पापिष्ठेऽथ जले कुशम् ।कश्यं मद्ये कशार्हे च सोमवल्लीरसे तथा ॥ ९३ ॥
5.7.93 · p. 173
अनुष्टुप्
कोशः पेश्यां वने दिव्ये धनागारे च कुड्मले ।क्रिया कर्मणि चेष्टायामारम्भोपाययोरपि ॥ ९४ ॥
5.7.94 · p. 173
अनुष्टुप्
कन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता ।कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥
5.7.95 · p. 173
अनुष्टुप्
समयेऽपि महाकाले काव्यो नक्षत्रशुक्रयोः ।काव्याथ पूतनाबुद्ध्योः काव्यं ग्रन्थेऽपि कथ्यते ॥ ९६ ॥
5.7.96 · p. 173
अनुष्टुप्
प्लवे दिगम्बरे कीशः कीलः शङ्क्वग्नितेजसोः ।कान्ता स्त्रियां प्रियङ्गौ च काली कीटे नवाम्बुदे ॥ ९७ ॥
5.7.97 · p. 173
अनुष्टुप्
कालिकायां परीवादे कीर्णः छन्ने हतेऽपि च ।कृतं फले युगे पर्याप्तेऽपि तद्विहिते त्रिषु ॥ ९८ ॥
5.7.98 · p. 174
अनुष्टुप्
कर्णोऽर्कजे श्रुतौ काञ्ची रक्तिका मेखला पुरी ।काण्डो नालेऽधमे बाणे स्तम्बे वर्गे जलेऽपि च ॥ ९९ ॥
5.7.99 · p. 174
अनुष्टुप्
जाराज्जीवत्पतेः पुत्रे कुण्डः कुम्भ्यां जलाश्रये ।कला शिल्पे विधोर्भागे क्रीडानादरनर्मणोः ॥ १०० ॥
5.7.100 · p. 174
अनुष्टुप्
कुम्भो घटे गजाङ्गेऽपि राक्षसे राशिभिद्यथ ।कोलं तु बदरं प्रोक्तं कोलः शूकरखञ्जयोः ॥ १०१ ॥
5.7.101 · p. 174
अनुष्टुप्
क्रौञ्चो द्वीपे खगे शैले कक्षः शुष्कवने स्मृतः ।बाहुमूले तृणे पापे कटः स्यात्समये शवे ॥ १०२ ॥
5.7.102 · p. 174
अनुष्टुप्
कल्पः शास्त्रे विधौ पापे संवर्ते ब्रह्मणो दिने ।प्रकर्षे दिशि काष्ठा च कालमानदिशोरपि ॥ १०३ ॥
5.7.103 · p. 174
अनुष्टुप्
करो मेघोपले रश्मौ शुण्डायां हस्तिनोऽपि च ।हस्तेऽप्यथ कुलं देहे गेहे शातिचये चये ॥ १०४ ॥
5.7.104 · p. 174
अनुष्टुप्
कारा बन्दिजनागारे कुष्ठं भेषजरोगयोः ।कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥
5.7.105 · p. 174
अनुष्टुप्
कूर्चो भ्रुवोऽन्तरे दम्भे श्मश्रुण्यपि तथोच्यते ।कृच्छ्रे च गहने कष्टं कृष्टिः कर्षणधीमतोः ॥ १०६ ॥
5.7.106 · p. 175
अनुष्टुप्
कोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च ।केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥
5.7.107 · p. 175
अनुष्टुप्
कोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः ।कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥
5.7.108 · p. 175
अनुष्टुप्
कुथो दर्भे तथा प्रातःस्नानासक्तद्विजे मतः ।दम्भास्तरणयोर्हस्तिकम्बले कीटकान्तरे ॥ १०९ ॥
5.7.109 · p. 175
अनुष्टुप्
कविर्मुनौ विधौ शुके हयोपकरणेऽपि च ।लोहपृष्ठे यमे कङ्को द्विजलिङ्गोपजीविनि ॥ ११० ॥
5.7.110 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 शु (wrong syllable)
कौतुकं कुतुके गीतादौ स्मये [18] मङ्गलेऽपि च ।कुण्डली कुण्डलोपेते वरुणे केकिनागयोः ॥ १११ ॥
5.7.111 · p. 175
अनुष्टुप्
करणं साधने काये आसने योगिनापि ।इन्द्रिये नाट्यभेदे च वालवादावपीरितम् ॥ ११२ ॥
5.7.112 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
करटो दुर्मुखे काके वाद्ये गण्डे च हस्तिनः ।मृतश्राद्धे कुसुम्भे च कीलालं जलरक्तयोः ॥ ११३ ॥
5.7.113 · p. 175
अनुष्टुप्
कम्बलं जलजे नीरे काकिणी तु वराटिका ।गुञ्जायामथ कल्याणं मङ्गले काञ्चनेऽपि च ॥ ११४ ॥
5.7.114 · p. 176
अनुष्टुप्
कशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे ।कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥
5.7.115 · p. 176
अनुष्टुप्
कुम्भिलः श्यालके चौरे श्लोकच्छायाहरेऽपि सः ।कुलालः कुम्भकारे स्याद्घूके ककुभपादपे ॥ ११६ ॥
5.7.116 · p. 176
अनुष्टुप्
कन्दलं तु नवाङ्कूरे कपाले कलहे ध्वनौ ।कलङ्कस्त्वपवादेऽङ्के कमलं जलताम्रयोः ॥ ११७ ॥
5.7.117 · p. 176
अनुष्टुप्
भेषजे पङ्कजे शीर्षे कमला मेखलाश्रियोः ।कुशलः सुजन आख्यातः कुशलं क्षेमपुण्ययोः ॥ ११८ ॥
5.7.118 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कर्कशः परुषे तिग्मे खड्गे साहसिके दृढे ।कुमारो युवराजे च कार्तिकेयेऽपि बालके ॥ ११९ ॥
5.7.119 · p. 176
अनुष्टुप्
काञ्चनं चम्पके नागकेसरे हाटके तथा ।धत्तूरे किंशुके कालीये शरेऽपि तदेव च ॥ १२० ॥
5.7.120 · p. 176
अनुष्टुप्
कण्टको नरके शाखिकण्टके दोषवैरिणोः ।कुमुदो दिग्गजे दैत्ये भुजंगे कैरवे कपौ ॥ १२१ ॥
5.7.121 · p. 176
अनुष्टुप्
कानीनः कन्यकासूनौ व्यासे चम्पाधिपे नुपे ।करको दाडिमे मेघपाषाणेऽपि कमण्डलौ ॥ १२२ ॥
5.7.122 · p. 177
अनुष्टुप्
ककुभो भूरुहे रोगभेदे वीणाप्रसेवके ।कञ्चुको वृक्षनिर्मोकवारबाणेषु कञ्चुके ॥ १२३ ॥
5.7.123 · p. 177
अनुष्टुप्
कदम्बो निकुरम्बे द्रुविशेषे शिखरे तथा ।कीकसो वानरे कीटे कश्मलं पङ्कपापयोः । ॥ १२४ ॥
5.7.124 · p. 177
अनुष्टुप्
कटकं कङ्कणे सैन्ये राजधानीनितम्बयोः ।कुलिकस्तु तरौ नागे कुलश्रेष्ठेऽपि कथ्यते ॥ १२५ ॥
5.7.125 · p. 177
अनुष्टुप्
कालिङ्गस्तु गजे सर्पे क्रकचः करपत्रके ।ग्रन्थिलद्रौ कठोरेऽथ कणीचिः शकटे स्मृतः ॥ १२६ ॥
5.7.126 · p. 177
अनुष्टुप्
कृपीटं तूदरे नीरे करजो नखवृक्षयोः ।करेणुर्हस्तिहस्तिन्योः कर्णिकारद्रुमेऽपि च ॥ १२७ ॥
5.7.127 · p. 177
अनुष्टुप्
कायस्थो मारुते भेक? जीवके परमात्मनि ।हरीतक्यामलक्योस्तु कायस्थैव निबध्यते ॥ १२८ ॥
5.7.128 · p. 177
अनुष्टुप्
कपर्दोऽपि वराटे स्याज्जटाजूटे पिनाकिनः ।कीनाशस्तु दरिद्रेऽपि कर्षके राक्षसे यमे ॥ १२९ ॥
5.7.129 · p. 178
अनुष्टुप्
कुसुमं नेत्ररो[19]गे स्त्रीरजःपुष्पफलेष्वथ ।कङ्कणं मण्डने हस्तभूषणे कमठोऽप्यथ ॥ १३० ॥
5.7.130 · p. 178
अनुष्टुप्
कच्छपे भाण्डभेदेऽथ कदली न्यङ्कुमोचयोः ।कान्तारं विपिने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ १३१ ॥
5.7.131 · p. 178
अनुष्टुप्
कुतपस्तु जले रूप्ये भागिनेये हुताशने ।दौहित्रे समये दर्भेऽष्टमेंऽशे वासरस्य च ॥ १३२ ॥
5.7.132 · p. 178
अनुष्टुप्
कुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ ।मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥
5.7.133 · p. 178
अनुष्टुप्
कबरी बालविन्यासे कुलायः पक्षिनीडके ।कुकुदं राजचिह्ने स्याद्वृषाङ्के प्रवरेऽपि च ॥ १३४ ॥
5.7.134 · p. 178
अनुष्टुप्
कलधौतं कलध्वाने तारकाञ्चनयोस्तथा ।कालस्कन्धो जीवकद्रौ तमाले तिन्दुके पुनः ॥ १३५ ॥
5.7.135 · p. 178
अनुष्टुप्
करहाटः प्रसूने स्यात्पद्मकन्दे तरावपि ।कौलेयकः कुलोत्पन्ने सारमेये तथाम्बुजे ॥ १३६ ॥
5.7.136 · p. 179
अनुष्टुप्
अथ कामगुणो भोगे सुरते रागविद्यपि ।कशेरुकं जले पृष्ठास्थ्नि कन्दे चा[पि?] कथ्यते ॥ १३७ ॥
5.7.137 · p. 179
अनुष्टुप्
करवीरः कृपाणेऽपि हयमारस्मशानयोः ।कटुकन्दो रसोने स्याच्छृङ्गबेरेऽपि कथ्यते ॥ १३८ ॥
5.7.138 · p. 179
अनुष्टुप्
द्रुमोत्पले कर्णिकारः कृतमालेऽपि सम्मतः ।मृगमेदे कृष्णसारः स्नुहीशिंशपयोस्तथा ॥ १३९ ॥
5.7.139 · p. 179
अनुष्टुप्
कूष्माण्डकस्तु कूष्माण्डे विलाडे ? गणभिद्यपि ।कलकण्ठः पिके हंसे पारापतमयूरयोः ॥ १४० ॥
5.7.140 · p. 179
अनुष्टुप्
कालकण्ठः खञ्जरीटे मयूरे कोकिले तथा ।कालपृष्ठः स्मृतः कर्णचापे कङ्के मृगान्तरे ॥ १४१ ॥
5.7.141 · p. 179
अनुष्टुप्
कादम्बरी सुरा वाणी कोकिला सारिकापि च ।कलध्वनिः कलायुक्ते परपुष्टमयूरयोः ॥ १४२ ॥
5.7.142 · p. 179
अनुष्टुप्
कुरुविन्दास्तु कुल्माषमुस्ताहिङ्गुलदर्पणाः ।कृकवाकुस्ताम्रचूडे मयूरे कृकलासके ॥ १४३ ॥
5.7.143 · p. 179
अनुष्टुप्
काकरूकोऽथ दम्भे स्याद्भीते घूके स्त्रिया जिते ।कोशातकः कचे घोषे स्त्रीत्वे ज्योत्स्नी पटोल्यपि ॥ १४४ ॥
5.7.144 · p. 180
अनुष्टुप्