समसुप्ति
samasuptiस्त्री · fem.In 6 kośas: 6 synonym verses.
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः ।संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च ।कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥
आर्या
genderस्त्रीfem.
जहानकः समसुप्तिः संहारो युगकल्पयोः ।दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥ ८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderस्त्रीfem.
कल्पान्त-प्रलय-जगद्विनाश-कल्पाःसंहार-क्षय-समसुप्तयो जिहानः ।संवर्त्तोऽपि च परिवर्त्तको युगान्तःस्त्रीलिङ्गा भवति महानिशाकरात्रिः ॥ ११२ ॥
प्रहर्षिणी
genderस्त्रीfem.
कल्पोऽपि परिवर्तश्च समसुप्तिजिहानकौ ।तत्काले च तदात्वं स्यात्फलं सान्दृष्टिकं मतम् ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
तद्रात्रौ तु महासुप्तिः समसुप्तिर्जगत्क्षयः ।महाप्रलयकल्पान्तौ युगांतो भूतसंप्लवः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.