All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
स्वर्गकाण्डः · कालवर्गः
इति व्योमवर्गः ।
कालोऽमतिश्चायतिरप्यनेहास वत्सरात्मा समयो भवन्तः ।पारुश्च पीयुर्जहकोऽपि जिव्रि-र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥
1.4.1 · p. 39
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 ल (wrong syllable); pāda 2, syllable 7 ग्नः (wrong syllable)
स्यात्कालकालः किल नित्य एषईशात्मकोऽसाविति कालविज्ञाः ।यावत्परार्द्धं स निमेष[26a]तोऽन्य-स्तं वानुमिन्वन्ति दिनेशगत्या ॥ २ ॥
1.4.2 · p. 39
इन्द्रवज्राmetre not read in every line
भूतो व्यतीतः स इहाव्ययं प्राक्पुमान्भवन्तिः स च वर्त्तमानः ।तत्कालके त्वेकपदं तदात्वंभावी च भूष्णुर्गदिताऽयतिः स्त्री ॥ ३ ॥
1.4.3 · p. 39
उपजातिः
तात्कालिका तु तत्कालजाता तात्कालिकी त्रिषु ।समयाकरणं कालयापनं न नरीरितम् ।स्यात्कालिकं सामयिकं भवादौकाल्यं प्रकृष्टे त्विह कालिकं स्यात् ।काल्यं तथा सामयिकं च तद्वत्संप्राप्तकाले त्रिषु कालिकादि ॥ ४ ॥
1.4.4 · p. 39
अनुष्टुप्two metres in one verse
स्याद्द्वादशारं किल कालचक्र-माधारषट्कं त्ववसर्पिणी स्त्री ।उत्सर्पिणी स्यात्षडरा परे चबौद्धादिशास्त्रेष्वनयोः प्रचारः ॥ ५ ॥
1.4.5 · p. 39
इन्द्रवज्रा
लघ्वक्षरोच्चारणतुल्यमात्रःकालो निमेषो निमिषोऽपि पुंसि ।द्वयोस्तुटिस्तौ दशभिस्तु ताभिःप्राणोऽथ षड्भिः किल तैर्विनाडी ॥ ६ ॥
1.4.6 · p. 40
उपजातिः
पलं च न स्त्री गुरुवर्णषष्ट्याषष्ट्या पलैः स्याद्घटिकात्र नाडी ।साधारणी स्त्री तु न दण्डमाहुर्-मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥
1.4.7 · p. 40
उपजातिः
पुंसि क्षणोऽश्वत्थ इह स्त्रि[26b]यां नसूर्यादिकानां भणितं मुनीनाम् ।काष्ठाः किलाष्टादशकैनिमेषैस्-तत्त्रिंशतः स्त्री गदिता कला* ॥ ८ ॥
1.4.8 · p. 40
metre not recognised
त्रिंशत्कलाकः कथितः क्षणो नाते षट् घटीत्युक्तिरहो परेषाम् ।स्याद्घाटिकं नाडिकमन्त्यलिङ्गंयन्त्रं घटाज्ञानकरं भवेद्यत् ॥ ९ ॥
1.4.9 · p. 40
इन्द्रवज्रा
घटिंधमस्त्रिषु भवेद्घटिकायन्त्रवादकः ।अहोरात्रः पुंसि भवेद् द्युनिशं तु नपुंसके ।अहोरात्रो मुहूर्तानां त्रिंशता परिकीर्त्तितः ॥ १० ॥
1.4.10 · p. 40
अनुष्टुप्
रौद्राभ्युदयिकौ श्वेतसर्पौ मित्राह्वमैत्रकौ ।पितृचारभटौ भानुवसू तौयाह्वविश्वकौ ॥ ११ ॥
1.4.11 · p. 40
अनुष्टुप्
गान्धर्ववैश्वदेवौ च वेधाः कुतपमस्त्रियाम् ।रौहिणो विधिरैन्द्रस्तु तिलको विभवः पुनः ॥ १२ ॥
1.4.12 · p. 41
अनुष्टुप्
ऐन्द्राग्नो निर्ऋतिर्नक्तंचरी वरुणसम्बरौ ।अर्यमा विजयो योनिर्भग एते दिने क्षणाः ॥ १३ ॥
1.4.13 · p. 41
अनुष्टुप्
शांकरश्चाजपादश्च तथाऽहिर्बुध्नमैत्रकौ ।आश्विनो याम्य आग्नेयो वैधात्रश्चान्द्र एव च ॥ १४ ॥
1.4.14 · p. 41
अनुष्टुप्
आदितेयोऽथ जैवश्च वैष्णवः सौर एव च ।[27a]ब्राह्मो नाभस्वतश्चेति मुहूर्त्ताः क्रमशो निशि ॥ १५ ॥
1.4.15 · p. 41
अनुष्टुप्
द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम-सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ ।****************** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥
1.4.16 · p. 41
metre not recognisednearly वसन्ततिलका
अध्युष्ण्य(?)हर्दिवं क्लीबे पुण्याहं पुण्यवद्दिनम् ।सुदिनाहं प्रशस्तं तत्पुंस्येकाहोऽहरेककः ॥ १७ ॥
1.4.17 · p. 41
अनुष्टुप्
द्वयोरह्नोः समाहारे द्व्यह एवं त्र्यहादयः ।द्वयोरह्नोर्भवो द्व्यह्नो द्व्यह्ना स्त्रीति विशेष्यवत् ॥ १८ ॥
1.4.18 · p. 41
अनुष्टुप्
द्व्यहीनो द्व्यहनिवृत्तो द्वैयह्निक इह त्रिषु ।सर्वाह्नः सर्वदिवसः संख्याताह्नो मितं दिनम् ॥ १९ ॥
1.4.19 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
नक्तंदिवं तथा रात्रिंदिवं क्लीबे रतद्द्वि(र्द्धि)कम् ।अहश्च दिनं तु न स्त्री स्याद्वासरे समार्थकम् ॥ २० ॥
1.4.20 · p. 42
अनुष्टुप्metre not read in every line
सुप्रातं सुप्रभातेऽह्नि निवृत्तेऽह्नाऽह्निकं त्रिषु ।आह्नं क्लीबेऽहर्गणः स्यादहोरूपं वरं दिनम् ॥ २१ ॥
1.4.21 · p. 42
अनुष्टुप्
क्लीबेऽव्ययं प्रत्यहं स्यादन्वहं तद्दिनं तथा ।त्रिषु प्रात्यहिकं दैनंदिनं चात्रसमुद्भवम् ।रवीन्दु-मङ्गल-बुध-गुरु-भार्गव-सौरयः ॥ २२ ॥
1.4.22 · p. 42
अनुष्टुप्metre not read in every line
सप्त वाराधिपास्तेषां नाम्ना रव्यादिवा[27b]सराः ।स्याद्भवे संधिवेलायां सांधिवेलं त्रिलिङ्गकम् ।प्रत्यूष-गोस-गोसर्गाः कल्यं काल्यमहर्मुखम् ॥ २३ ॥
1.4.23 · p. 42
अनुष्टुप्metre not read in every line
उषः-प्रत्युषसी व्युष्टं प्रभातं च विभातवत् ।प्रगं क्लीबेऽव्ययं प्रातः प्रगे प्राभातिकं त्रिषु ॥ २४ ॥
1.4.24 · p. 42
अनुष्टुप्
प्रातस्तनं चौषसिकं काल्यिकं च प्रगेतनम् ।उषस्यं स्यादुषोदैव्यं वैयुष्टं व्युष्टदानकम् ।प्रातस्तन्म(?)श्चतस्रः स्याद्घटिका अरुणोदयः ॥ २५ ॥
1.4.25 · p. 42
अनुष्टुप्
संध्या संधा च संधिर्ना सैव प्रोक्ता पितृप्रसूः ।पुंसि प्राह्णश्च पूर्वाह्णो दिवामध्यं नपुंसके ॥ २६ ॥
1.4.26 · p. 42
अनुष्टुप्
माध्यंदिनावर्तने च मध्याह्नो अपराह्नकः ।सायो विकालः सायाह्नमुत्सूरः सबलिस्तथा ॥ २७ ॥
1.4.27 · p. 42
अनुष्टुप्
सायमव्ययमस्मिंस्तु भवे सायंतनं त्रिषु ।आद्यन्तरं तेष्वह्नो वा त्रिसंध्या स्त्र्युपवैणवम् ॥ २८ ॥
1.4.28 · p. 42
अनुष्टुप्
पूर्वाह्णतः संगवः स्यान्मुहूर्तत्रितयात्मकः ।स एव मित्रदेवत्य इति श्रुतिविदो बुधाः ॥ २९ ॥
1.4.29 · p. 43
अनुष्टुप्
पूर्वाह्णिकं तु पूर्वाह्णेतनं प्राह्णेतनं भवे ।प्राह्णः सोढो यस्य भवेत्स्यात्प्राह्णेतन एव सः ॥ ३० ॥
1.4.30 · p. 43
अनुष्टुप्
पू[28a]र्वाह्णो यस्य सोढोऽस्ति स पूर्वाह्णतनस्त्रिषु ।पूर्वाह्णकस्तत्र जातेऽथापराह्णेतनं तथा ॥ ३१ ॥
1.4.31 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 र्वा (syllables merged)
आपराह्णिकमेतद्भु जातार्थे त्वपराह्णकम् ।अश्विन्यादियुते कालविशेषे सति भेद्यगः ॥ ३३ ॥
1.4.33 · p. 43
अनुष्टुप्
आश्विनो दिवसो रात्रिस्त्वाश्विनी दिनमाश्विनम् ।अथ कालाविशेषे स्यादघा(?)श्विन्यावमू त्रये ॥ ३३ ॥
1.4.33 · p. 43
अनुष्टुप्
अश्विन्यादि द्वंद्वभाजि विशेषे सति वाऽसति ।अश्विनीभरणीयं स्यात्कृत्तिकारोहिणीयवत् ॥ ३४ ॥
1.4.34 · p. 43
अनुष्टुप्
राजनी(?) स्यात्तिष्यपुनर्वसवीयं न्यु(?)दाहृतिः ।गताहः कल्यमन्त्ये ह्यः पूर्वेद्युर्मतमव्ययम् ॥ ३५ ॥
1.4.35 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ति (wrong syllable)
तद्भु ह्यस्त्यं ह्यस्तनं च श्वस्त्रस्तरे(?)द्युसमेऽव्ययम् ।शौवस्तिकं श्वस्तनवं श्वस्त्यं चैतद्भवे त्रिषु ॥ ३६ ॥
1.4.36 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अपरस्मिन्नह्नि भवेदपरेद्युरथाधरे ।दिनेऽधरेद्युरन्यस्मिन्नन्येद्युरितरं दिनम् ॥ ३७ ॥
1.4.37 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्न (wrong syllable)
इतरेद्युश्चाऽन्यतरेद्युस्तदन्यतरद्भवेत् ।उभयद्युस्तूभयेद्युरपरं तच्च परेद्यवि ॥ ३८ ॥
1.4.38 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्चाऽ (wrong syllable); pāda 4, syllable 1 रप (syllable split)
पूर्वेद्युः स्यात्पूर्वदिनमुत्तरेद्युस्तदुत्तरम् ।अस्मिन्दिनेऽद्याव्ययं स्यात्तद्भवेऽद्यतनं त्रिषु ।[28b]निशीथिनी निषद्वरी विभावरी च *र्वरी ।तमस्विनी च यामिनी स तन्यतुस्तमा तमी ॥ ३९ ॥
1.4.39 · p. 44
अनुष्टुप्metre not read in every linenearly पञ्चचामरम्
निशान्धिका च सर्वरी तमीश्च शर्वरीनिशौ ।उषा क्षपा च वाशुरा हिमांशुकामिनी तथा ॥ ४० ॥
1.4.40 · p. 44
पञ्चचामरम्
श्यामा त्रियामा क्षणदा च रात्रिःस्याद्वासतेयी वसतिश्च तुङ्गी ।उषा च दोषा रजनी च भौतीनक्तं तु दोषाऽव्ययमत्र रात्रौ ॥ ४१ ॥
1.4.41 · p. 44
उपजातिः
ज्यौत्स्नी ज्योतिष्मती च स्याद्रात्रिश्चन्द्रिकया युता ।तामसी तु तमिस्रा सायं धं(?)तमसंयुता ॥ ४२ ॥
1.4.42 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यक्षरात्रिस्तु दीपाली रत्नाली दीपशृङ्खला ।मृगनेत्रा पुष्यनेत्रा या मृगादिभनेत्रका ॥ ४३ ॥
1.4.43 · p. 44
अनुष्टुप्
पक्षिणी स्त्री वर्तमाना * * हर्मध्यगा निशा ।रात्रिद्वयस्य मध्यस्थं दिनमुक्तं च पक्षिणी ।गणरात्रं निशावृन्दं गर्भकं रजनीद्वयम् ॥ ४४ ॥
1.4.44 · p. 44
अनुष्टुप्metre not read in every line
रात्रकं पञ्चरात्रं स्यात्त्रिरात्रं रजनीत्रयम् ।हिडिः स्त्रियां रजन्यां यत्क्रियते रक्षणं शिशोः ॥प्रदोषो रजनीवक्त्रं निशीथस्त्वर्धरात्रकः ।स्यात्सर्वावसरः पुंसि स्त्रियामत्र महानिशा ॥ ४५ ॥
1.4.45 · p. 44
अनुष्टुप्
उच्चन्द्रोऽपररात्रः[29a] स्यादथ त्रिषु निशा भवेत् ।स्यान्नैशिकं तथा नैशं तत्र दोषातनं भवेत् ॥ ४६ ॥
1.4.46 · p. 45
अनुष्टुप्metre not read in every line
सायंप्रातिकमुद्दिष्टं सायंप्रातःसमुद्भवम् ।द्वैरात्रिक-द्विरात्रीणौ निवृत्तौ यौ द्विरात्रतः ॥ ४८ ॥
1.4.48 · p. 45
अनुष्टुप्
त्रैरात्रिकस्त्रिरात्रीणः सरात्रिस्तुल्यरात्रिकः ।कल्याणीपञ्चमा रात्र्यः कल्याणी यासु पञ्चमी ॥ ४९ ॥
1.4.49 · p. 45
अनुष्टुप्
द्वयोस्तिथिः कर्मवाटी तैथ्यं तु तिथिजे त्रिषु ।उदयादौदयं शुद्धा षष्टिनाडीमिता तिथीः(थिः?) ।विद्धा सायोदये पूर्वतिथ्या षड्दण्डमानया ॥ ५० ॥
1.4.50 · p. 45
अनुष्टुप्metre not read in every line
संयुतास्तमये तद्वत्परतिथ्या युताऽथ वा ।सायाह्नव्यापिनी या स्यात्संमुखा सा निगद्यते ॥ ५१ ॥
1.4.51 · p. 45
अनुष्टुप्
नवाहः पुंसि वृद्धिः स्त्री प्रतिपत्पक्षतिर्भवेत् ।वत्सरादिश्चैत्रशुक्ला साऽथ कार्त्तिकशुक्लगा ॥असौ बलिदिनं नावरात्रिकी त्विषशुक्लगा ।सुमङ्गलपदा ब्राह्मी द्वितीया युग्मनामिका ॥ ५२ ॥
1.4.52 · p. 45
अनुष्टुप्
बला तृ[29b]तीया गौरी च चतुर्थी तु खलागणः ।पञ्चमी नागदेवी स्यात्तस्यां लक्ष्मीवती स्त्रियाम् ॥ ५४ ॥
1.4.54 · p. 45
अनुष्टुप्metre not read in every line
स्कान्दी षष्ठी चातियशा मित्रा सौरी च सप्तमी ।अष्टमी स्याच्च माहेशी भवेत्सासुर्महाबला ॥ ५५ ॥
1.4.55 · p. 45
अनुष्टुप्
नभःकृष्णाष्टमी * * * * कृष्णदिनं च सा ।रोहिणीसंयुता त्वेषा जयन्तीति निगद्यते ।महाष्टमीत्याश्विनस्य शुक्लपक्षगताष्टमी ॥ ५६ ॥
1.4.56 · p. 45
अनुष्टुप्metre not read in every line
उग्रकर्मा तु नवमी दौर्गी च दशमी पुनः ।धर्मिणी यमदेवत्या वैश्वी त्वेकादशी हरः ।क्लीबे हरिदिनं नन्दा दशम्याः साऽरुणोदये ॥ ५७ ॥
1.4.57 · p. 46
अनुष्टुप्
बोधिन्यूर्जस्य शुक्ले सा शयन्याषाढशुक्लगा ।वृद्धौ यशोवती द्वादशी स्यात्तस्यां हरितिथिर्मता ॥ ५९ ॥
1.4.59 · p. 46
अनुष्टुप्metre not read in every line
एकादश्या त्रयोदश्या त्रिस्पृशा त्रिस्पृगन्विता ।नन्दा परदिने वृद्धा भवेदुन्मीलिनीति सा ॥ ६० ॥
1.4.60 · p. 46
अनुष्टुप्
वृद्धौ वञ्जुलिनी पक्षवर्द्धिनी पर्ववृद्धियुक् ।पुष्ययुक्ता ज[30a]याऽथ स्याद्विजया श्रवणान्विता ॥ ६१ ॥
1.4.61 · p. 46
अनुष्टुप्metre not read in every line
रोहिणीयुक् तु पापघ्नी जयन्ती स पुनर्वसुः ।एकादशी द्वादशी च वैष्णवश्चापि तत्र चेत् ।तद्विष्णुशृङ्खलं चाथ जयाऽऽनङ्गी त्रयोदशी ॥ ६२ ॥
1.4.62 · p. 46
अनुष्टुप्
उग्रा चतुर्दशी शैवी भौत्यमा*च पूर्णिमा ।पक्षान्तौ पञ्चदशौ तु स्त्रियौ सोमाधिदैवते ॥ ६३ ॥
1.4.63 · p. 46
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 द (wrong syllable)
यज्ञकालौ पर्वणी तु क्लीबे अथ यदन्तरम् ।चतुर्दशीपञ्चदश्योः पर्वमूलं तदस्त्रियाम् ॥ ६४ ॥
1.4.64 · p. 47
अनुष्टुप्
संधिः पर्व च पक्षत्या पञ्चदश्योः समागमः ।अमावसी त्वमावासी स्यादमाऽमामसी तथा ॥ ६५ ॥
1.4.65 · p. 47
अनुष्टुप्
अमावा(मा)स्यप्यमावास्याऽमावस्या दर्श आदिमे ।सूर्येन्दुसंगमोऽप्यस्मिन्सा नष्टेन्दुकला कुहूः ॥ ६६ ॥
1.4.66 · p. 47
अनुष्टुप्
कुहुरिन्दुरिपुश्चोक्ता सिनीवाली तु सेन्दुका ।अश्वत्था पूर्णिमा पूर्णमासा राका तु सा विधौ ॥ ६७ ॥
1.4.67 · p. 47
अनुष्टुप्
संपूर्णेऽथ कलाहीने भवेदनुमतिः स्त्रियाम् ।अथोपपौर्णमासं स्यात्तद्वच्चोपाग्रहायणम् ॥तथोपपौ[30b]र्णमासि स्यात्क्लीबे चोपाग्रहायणि ।गुडापूपात्रादिमती सा गुडापूपिका भवेत् ॥कुल्माषाऽत्र तु कौल्माषी तथा वटकिनी भवेत् ।अमावास्योऽप्यमावस्यस्तथामावास्यकस्त्रिषु ॥ ६८ ॥
1.4.68 · p. 47
अनुष्टुप्metre not read in every line
अमावस्यक एवं स्यादमाव(म)स्योऽप्यमाजनिः ।अमावस्यश्च तत्रोक्त अमावास्या स्त्रियां भवेत् ॥ ६९ ॥
1.4.69 · p. 47
अनुष्टुप्
श्रावणी श्रवणा च स्याद्दाण्डपाता तु फाल्गुनी ।हुताशन्युत्सवः पुंसि होलाका तु हुताशनी ।स्याद्वसन्तोत्सवश्चैत्री कौमुदी कार्त्तिकी मता ॥ ७१ ॥
1.4.71 · p. 47
अनुष्टुप्
अश्वयुज्यामुप्तधान्ये स्यादाश्वयुजकं त्रिषु ।प्रतिपत्प्रभृतीनां स्यात्तिथीनां पञ्चके क्रमात् ।नन्दा भद्रा जया रिक्ता पूर्णाग्रेऽप्येवमुन्नयेत् ॥ ७२ ॥
1.4.72 · p. 47
अनुष्टुप्metre not read in every line
नेष्टामध्येष्टदास्तिस्रस्तिथयः शुक्लपक्षगाः ।प्रतिपत्प्रमुखा इष्टमध्यनेष्टाश्च कृष्णगाः ॥ ७३ ॥
1.4.73 · p. 47
अनुष्टुप्
युग्मास्ताः पक्षरन्ध्रः स्याद्द्वितीयां दशमीं विना ।स्युर्विष्कंभादयो [31a] योगास्तिथ्यर्द्धं करणं भवेत् ॥ ७४ ॥
1.4.74 · p. 48
अनुष्टुप्metre not read in every line
विष्टिस्तु भद्रा कल्याणी पञ्चाङ्गं धर्मलोचनम् ।तिथि-वासर-नक्षत्र-योग-तिथ्यर्द्धपञ्चके ॥ ७५ ॥
1.4.75 · p. 48
अनुष्टुप्
अहोरात्राः पञ्चदश पक्षः पक्षो(क्षं?) नपुंसकम् ।सुद्यव्ययं सिते पक्षे कृष्णे तु बहुलो वदि ॥ ७६ ॥
1.4.76 · p. 48
अनुष्टुप्
मासोऽस्त्री नरि माः श्रामो वर्षांशः स्यादहर्गणः ।दर्शावधिः स चान्द्रः स्यात्सौरः स्यात्संक्रमावधिः ॥ ७७ ॥
1.4.77 · p. 48
अनुष्टुप्
त्रिंशद्दिनः सावनः स्यान्नाक्षत्रो भगणक्रमात् ।असंक्रमोऽधिमासोऽसौ पापः षण्ढो मलिम्लुचः ॥ ७८ ॥
1.4.78 · p. 48
अनुष्टुप्
संसर्पः क्षयमासाद्यः प्राच्यः संक्रान्तिवर्जितः ।क्षयमासो द्विसंक्रान्तिमासोऽहस्पतिरप्यसौ ॥ ७९ ॥
1.4.79 · p. 48
अनुष्टुप्
कार्त्तिकादित्रये स स्यात्तत्राब्दे द्वौ मलिम्लुचे ।मासस्य पूरणे मासतमः स्याद्भेद्यलिङ्गकः ।अर्धमासतमश्चैव संवत्सरतमस्तथा ।माघ्यादयो यत्र भवन्ति पूर्णिमामाघादिमासाः क्रमशः स्मृता अमी ।माघ्ये तपा अस्त्र्यथ फाल्गुनः स्यात्स फल्गुनः फाल्गुनिकस्तपस्यः ॥ ८० ॥
1.4.80 · p. 48
अनुष्टुप्two metres in one verse
[31b]फाल्गुनाडश्च(श्चि)त्रिकस्तु चैत्रः पुष्पाकरो मधुः ।राधमाधववैशाखा ज्येष्ठामूलीयकः पुनः ॥ ८१ ॥
1.4.81 · p. 48
अनुष्टुप्
ज्यैष्ठः शुक्रोऽप्यथ शुचिः पुंस्यषाढक इत्यपि ।आषाढेऽथ श्रावणिकः श्रावणोऽत्र नभाः पुमान् ॥ ८२ ॥
1.4.82 · p. 48
अनुष्टुप्
स्यान्नभस्यः प्रौष्ठपदो भाद्रो भाद्रपदः समः ।स्यादिषोऽश्वयुजोऽप्याश्वयुजोऽप्याश्विन इत्यपि ॥ ८३ ॥
1.4.83 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रौ (wrong syllable)
स्यात्कार्त्तिकः कार्त्तिकिकः कौमुदो बाहुलोर्जकौ ।सहः सहा मार्गशीर्षो मार्गः स्यादाग्रहायणः ॥ ८४ ॥
1.4.84 · p. 49
अनुष्टुप्
आग्रहायणिकश्चाथ तैषः पौषः सहस्यवत् ।ऋतुस्तु प्रुष्वो मासाभ्यामृतव्यमृतुदैवतम् ।वसन्तश्चैत्रराधाभ्यामित्याद्या ऋतवोऽपरे ॥ ८५ ॥
1.4.85 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्वो (wrong syllable)
उत्तरस्यां गतौ भानोस्त्रिभिस्तैः शिशिरादिभिः ।उत्तरायणमादानं दक्षिणा तु रवेर्गतिः ॥ ८६ ॥
1.4.86 · p. 49
अनुष्टुप्
वर्गादिभिस्त्रिभिः पुंसि विसर्गो दक्षिणायनम् ।कुसुमसम * * * कामबन्धुः क्षिपण्युःसुरभिरिह वसन्तो * ष्मपुष्पाकरौ च ।ऋतुपतिरबलाङ्गः स्यात्तु वास[32a]न्तमेतद्-भवमिह पुनरुप्तं तच्च वासन्तकं च ॥ ८८ ॥
1.4.88 · p. 49
अनुष्टुप्metre not read in every line
एवं स्यात्पूर्ववासन्तं तत्पूर्वावयवोद्भवम् ।भवेत्तु पौर्ववासन्तं यद्धि पूर्ववसन्तजम् ॥ ८९ ॥
1.4.89 · p. 49
अनुष्टुप्
वसन्ताधिकृतग्रन्थाध्येता वासन्तिकस्त्रिषु ।हैमन्तिकः शैशिरिक एवं शारदिकोऽपि च ॥ ८९ ॥
1.4.89 · p. 50
अनुष्टुप्
ग्रीष्मो निदाघो दीर्घाहा ऊष्मा स्यादूष्म ऊष्मकः ।उष्णोपगम उष्णश्च घर्मा पुंसि तपश्च सः ॥ ८९ ॥
1.4.89 · p. 50
अनुष्टुप्
त्रिषु ग्रैष्मं ग्रीष्मभवे तत्रोप्ते ग्रैष्मकं तथा ।कदम्बपुष्पी दीर्घाह्नी प्रावृट् स्त्री प्रावृषा तथा ॥ ९० ॥
1.4.90 · p. 50
अनुष्टुप्
वर्षा च वरिषा भूम्नि प्रावृषेण्यस्तु तद्भवे ॥ ९१ ॥
1.4.91 · p. 50
प्रावृड्जातं प्रावृषिकं साधु वर्षासु वार्षिकम् ।कादम्बपुष्पिकं मैघागमिकं मैघकालिकम् ।पुंसि मेघात्ययः स्त्री तु शरदा शरदा सह ॥ ९२ ॥
1.4.92 · p. 50
अनुष्टुप्
शरद्युप्ताः पच्यमानाः पुष्यन्तो वापि शारदाः ।स्याच्छारदः शारदिको यः शरत्कालजो गदः ॥ ९३ ॥
1.4.93 · p. 50
अनुष्टुप्
तज्जमन्यच्छारदं स्यात्प्रावृषेण्यादयस्त्रिषु ।भवेच्छारदिकं श्राद्धं य[32b]च्छरत्कालसंभवम् ॥ ९४ ॥
1.4.94 · p. 50
metre not recognised
हेमन्तः प्रसलो हेमा रौद्रोऽथैतद्भवे त्रिषु ।स्याद्धैमनं च हैमन्तमुप्तेऽप्येवं द्विरूपता ॥ ९५ ॥
1.4.95 · p. 50
अनुष्टुप्
संवत्सरो वत्सर-काल-पर्व-युगांशकाः शारदमासमासौ ।अब्दोऽत्र वर्षं च न हायनः स्त्रीसमाः स्त्रियां भूम्नि च वा शरदः स्त्री ॥ ९७ ॥
1.4.97 · p. 50
उपजातिःmetre not read in every linenearly उपजातिः
संवदव्ययमस्मिंस्तु पूर्वे पूर्वतरे य(स)ति ।परुत्परार्यैषमः स्युः परुत्नं तद्भवे त्रिषु ।परारित्नं चैषमस्त्यमैषमस्तनमित्यपि ॥ ९८ ॥
1.4.98 · p. 50
अनुष्टुप्metre not read in every line
पञ्चषष्ट्युत्तरशतत्रया३६५हैः सौरवत्सरः ।एकषष्ट्युत्तरशतत्रयाहै३६१रेष धे(धै)षणः ॥ ९९ ॥
1.4.99 · p. 50
अनुष्टुप्
शतत्रयात्षष्ट्यधिकाद्दिनानामेष सावनः ।चतुःपञ्चाशदधिकत्रिशत्याह्नां स ऐन्दवः ॥ ९९ ॥
1.4.99 · p. 51
अनुष्टुप्
नाक्षर(त्र?)स्तु चतुर्विंशत्यधिकाहशतत्रयात् ।चान्द्रास्तु वत्सराः षष्टिः प्रभवादिकनामभिः ॥ १०० ॥
1.4.100 · p. 51
अनुष्टुप्
चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे ।संपरीदान्विदित्येतच्छब्दपूर्वा हि वत्स[33a]राः ॥ १०१ ॥
1.4.101 · p. 51
अनुष्टुप्metre not read in every line
अनुवत्सरतुल्यार्थ इन्दुवत्सर उच्यते ।त्रिषु द्विसंवत्सरेणानिर्वृत्ताद्यर्थपञ्चके ॥ १०२ ॥
1.4.102 · p. 51
अनुष्टुप्
स्याद्द्विसंवत्सरीणो* द्विसांवत्सरिकस्तथा ।एवं त्रिसंवत्सरीणस्त्रिसांवत्सरिकादयः ॥ १०३ ॥
1.4.103 · p. 51
metre not recognisednearly अनुष्टुप्
द्विवार्षिक-द्विवर्षीण-द्विवर्षाः स्युरचेतने ।चेतने तु विशेष्ये स्याद्द्विवर्षो बालकादिकः ॥ १०४ ॥
1.4.104 · p. 51
अनुष्टुप्
समामभीष्टे भूते वा भृते भाविनि वा भवेत् ।समीनो द्विसमीनस्तु स्याद्द्वैसमिक इत्यपि ॥ १०५ ॥
1.4.105 · p. 51
अनुष्टुप्
द्विषाष्टिकस्तु द्वे षष्टी भूते भाविनि वा भवेत् ।द्विसाप्ततिक एवं स्याद्द्विपञ्चाशत्क इत्यपि ॥ १०६ ॥
1.4.106 · p. 51
अनुष्टुप्
एवं द्विचात्वारिंशत्को भवेद्द्व्याशितिकस्तथा ।शुक्लपक्षो नृणां पैत्री रात्री कृष्णस्तु तद्दिनम् ।स्याद्दक्षिणायनं दैवी तद्दिनं तूत्तरायणम् ॥ १०७ ॥
1.4.107 · p. 51
अनुष्टुप्
सत्यं कृतयुगं दिव्यवत्सराणां भवेदिदम् ।चतुःसहस्राणि चतुःशत्या संध्यास्य सम्मता ॥ १०८ ॥
1.4.108 · p. 51
अनुष्टुप्
तावानेव च संध्यांश इतरेषु त्रिषु क्रमात् ।एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १०९ ॥
1.4.109 · p. 51
अनुष्टुप्
[33b]त्रेता स्त्री द्वापरः पुंसि कलिस्तिष्यश्चतुर्युगी ।मनुष्याणां सुराणां तु तयैकं युगमुच्यते ॥ ११० ॥
1.4.110 · p. 52
अनुष्टुप्
दैवे युगसहस्रे द्वे ब्राह्मोऽहोरात्र इष्यते ।स्थितिकालो ब्रह्मदिनं कल्पः पुंसि च सम्मतः ॥ १११ ॥
1.4.111 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब्र (wrong syllable)
कल्पान्त-प्रलय-जगद्विनाश-कल्पाःसंहार-क्षय-समसुप्तयो जिहानः ।संवर्त्तोऽपि च परिवर्त्तको युगान्तःस्त्रीलिङ्गा भवति महानिशाकरात्रिः ॥ ११२ ॥
1.4.112 · p. 52
प्रहर्षिणी
दिव्यैकसप्ततियुगैः स्यान्मन्वन्तरमन्तिमे ।तैश्चतुर्दशभिः काहस्तावद्भिर्ब्रह्मणो निशाः ॥ ११३ ॥
1.4.113 · p. 52
अनुष्टुप्
दैवज्ञो गणकस्तथा समयविन्मौहूर्त्त-मौहूर्त्तिकौज्ञानी ज्यौतिषिको निमित्तविदसौ सांवत्सरो हौरिकः ।स्तः कार्त्तान्तिक-पिण्डिलावथ भवेद्वैप्रश्निकः प्रश्नविद्आदेश्यैक्षणिको भवेत्पुनरयं सैद्धान्तिकस्तान्त्रिकः ॥ ११४ ॥
1.4.114 · p. 52
शार्दूलविक्रीडितम्
त्रयीलोचनं ज्योतिषं ज्यौतिषं स्यात्त्रिकस्कन्धशास्त्रं भवेद्धर्मदीपः ।मतं जातकं जन्मकालप्रवृत्तम्अवस्था स्त्रियां कालिकः स्याद्विशेषः ॥ ११५ ॥
1.4.115 · p. 52
भुजङ्गप्रयातम्