प्रलय
pralayaपुं · masc.In 15 kośas: 32 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः ।संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
वैवर्ण्यं कालिकाथाश्रु बाष्पो नेत्राम्बु रोदनम् ।अस्रमस्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दस्तु चोटिका प्रोक्ता मुखभेदस्तु जञ्जभा ।एजनं वेपथुः कम्पः प्रलयो … ।आटोपवेगसंरम्भः स्पृहा तु त्वरिता त्वरी ॥ १३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका ।अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
यः संतापः शिखापित्तः प्रलयस्तु प्रलीनता ।स च स्यादिन्द्रियस्वापश्चेष्टनाशोप्यथापि च ॥ ३२५ ॥
अनुष्टुप्
genderपुंmasc.
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः ।स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः ॥ ३७७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
तद्गताब्दाः कुतिथिभाः (४७६१) संवर्त्तः पलयः क्षयः ।परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः ।वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
अस्रं चास्त्र्यस्रुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् ।नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पान्त-प्रलय-जगद्विनाश-कल्पाःसंहार-क्षय-समसुप्तयो जिहानः ।संवर्त्तोऽपि च परिवर्त्तको युगान्तःस्त्रीलिङ्गा भवति महानिशाकरात्रिः ॥ ११२ ॥
प्रहर्षिणी
genderपुंmasc.
स्तम्भः स्वेदः स्वरभ्रंशो रोमाञ्चोऽपि विवर्णता ।बाष्पश्च कम्पः प्रलय इत्यष्टौ सात्त्विका मताः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिकामूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः ।पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः सम्मतंप्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderपुंmasc.
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।कल्पान्तस्तु युगान्तः स्यात्संवर्तप्रलयक्षयाः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
उल्बणे प्रकटश्चोग्र उद्भटश्चोत्कटप्रकौ ।उद्धतः पण्डितश्चण्डः प्रलयश्च प्रतापवान् ॥ ६७८ ॥
अनुष्टुप्
genderविadj.
कल्पो युगान्तः संहारः कल्पान्तः प्रलयः क्षयः ।दिशा आशा दिशः काष्ठा हरितः ककुभश्च ताः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पान्तः प्रलयः कल्पः परिवर्तस्तथा क्षयः ।समगुप्तिश्च संवर्तो युगान्तश्च जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
अस्रमस्रु च नेत्राम्बु बाष्पो लोतस्तथाऽश्रु वै ।मूर्च्छा तु प्रलयश्चैवासात्विकाऽचेष्टिताऽखित्वा ॥ ४५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 खि (wrong syllable)
genderपुंmasc.
अथ मन्वन्तरं दैवयुगानामेकसप्ततिः ।प्रलयकल्पकल्पान्तसंवर्तलयसंक्षयाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
अथ द्वयन्तु मूर्छायां प्रलयो नष्टचेष्टता ।अवहित्था वहित्थञ्च स्यादाकारगुप्तिरेव च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
परिवर्तस्तु संवर्तः प्रलयो भूतसंप्लवः ।क्षयो युगान्तः कल्पान्तः समस्वापो जगत्क्षयः ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
वैवर्ण्यक्लीअश्रुक्लीप्रलयपुंसात्त्विकभावपुंनिर्वेदपुंग्लानिस्त्रीशङ्कास्त्रीस्मृतिस्त्रीधृतिस्त्रीमतिस्त्रीप्रीतिस्त्रीनिद्रास्त्रीअवहित्थास्त्रीव्रीडास्त्रीईर्ष्यास्त्रीसुप्तिस्त्रीअसूयास्त्रीमरणक्लीअलसतास्त्रीउन्मादपुंहर्षपुंअमर्षपुंतर्कपुंअपस्मारपुंमोहपुंश्रमपुंमदपुंजडिमन्पुंव्याधिपुंवेगपुंविषादपुंगर्वपुंचिन्तास्त्रीऔग्र्यक्लीदैन्यक्लीभयक्लीचपलत्वक्लीसंचारिभावपुं
genderपुंmasc.
प्रेतः परेतविगतासुमृतप्रमीत-प्राप्तान्तसंस्थितपरासुविलीननष्टाः ।एते दश त्रिषु कटः कुणपः शवोऽस्त्रीचित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥
वसन्ततिलका
genderपुंmasc.
निकुञ्चितशिरोग्रीवमट्टहासो महाहसः ।सोत्प्रासमाच्छुरितकं प्रलयोऽस्पन्दनस्थितिः ॥ १८२५ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिसर्गस्तु संहारः प्रलयः प्रतिसञ्चरः ॥ ९४.५ ॥
genderपुंmasc.
एजनं वेपथुः कंपः प्रलयोऽस्पन्दनस्थितिः ।आटोपावेगसंरंभसंभ्रमास्तु त्वरा त्वरी ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
प्रसरे चाप्यभाषिष्ट प्रणवस्तु स्तुतावपि ।ओङ्कारे प्रलयस्तु स्यान्मृत्यावस्पन्दनस्थितौ ॥ १३५ ॥
अनुष्टुप्
मूर्च्छायामपि कल्पान्ते श्लेषे चापि क्षयेऽपि च ।प्रदरस्तु भवेद्भङ्गगबाणयोः स्त्रीरुजान्तरे ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
प्रलय as a meaning in nānārtha verses
- धरणिकोश संवर्तउन्मत्तोऽविनयश्चेष्टो धूस्तूरश्च प्रकीर्तितः । संवर्तः प्रलये प्रोक्तस्तथा विभीतकद्रुमः ॥ Dharaṇikośa 15.2.54
- कल्पद्रुकोशः संहृक्रीडावाङः परो भक्षानीत्योः स्यात्प्रलये समः । प्राप्तावङ्वेदनोः साम्येऽवान्निवृत्तौ परेस्तु सः ॥ ९७ ॥ Kalpadrukośa 1.10.97
- कोषकल्पतरु संवर्तदेशान्तरे संगरनृत्यगेहे- ऽप्यानर्त उक्तो जनवाचकोऽपि । आवर्त आवर्तनचिन्तनाम्भो- भ्रमेष्वथाब्दे प्रलयेऽक्षवृक्षे ॥ ७५ ॥ Koṣakalpataru 6.16.75
- कोषकल्पतरु कल्पकल्पस्तु शास्त्रे प्रलये च युक्ते विधेर्दिने पुष्पवतोः पपीः स्यात् । कस्तूरिकायां तु तथाभिमाने दर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥ Koṣakalpataru 6.22.6
- शब्दरत्नावली सम्वर्त्तसम्वर्त्तो मुनिभित्कर्षफलयोः प्रलये घने । संस्कृतं लक्षणोपेते कृत्रिमे भूषितेऽन्यवत् ॥ Śabdaratnāvalī 7.16.143
- तन्त्राभिधान ललः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव ल-कारः सान्त्वनेऽपि च ॥ ३१ ॥ Tantrābhidhāna 3.31