संहार
saṃhāraपुं · masc.In 12 kośas: 18 synonym verses, 1 as a nānārtha head word, 4 as a meaning of another word.
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः ।संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च ।कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥
आर्या
genderपुंmasc.
स्त्रियामवाची तद्भेदेऽप्यथ संहार इत्ययम् ।संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः ।व्यालजिह्वो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
तद्गताब्दाः कुतिथिभाः (४७६१) संवर्त्तः पलयः क्षयः ।परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
जहानकः समसुप्तिः संहारो युगकल्पयोः ।दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥ ८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderपुंmasc.
कल्पान्त-प्रलय-जगद्विनाश-कल्पाःसंहार-क्षय-समसुप्तयो जिहानः ।संवर्त्तोऽपि च परिवर्त्तको युगान्तःस्त्रीलिङ्गा भवति महानिशाकरात्रिः ॥ ११२ ॥
प्रहर्षिणी
genderपुंmasc.
ऐकार्थ्यमुपनीयन्ते निष्ठा निर्वहणं च तत् ।समापनं च संहारोऽथोपक्षेपोऽर्थसंभवः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
तपनः स्यादवीचिस्तु द्वंद्वे संहार-रौरवौ ।स्यान्महारौरवः कालसूत्रं तामिस्रमित्यपि ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
आदानं स्यादवचयः परिहारस्तु वर्जनम् ।संहारः स्यात्संहरणं निर्हारोऽभ्यवकर्षणम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
निष्ठायां स्यान्निर्वहणं संहारस्तु समापने ।स्यान्नीचचेट्याह्वाने तु हञ्जे हण्डे हलेति च ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पो युगान्तः संहारः कल्पान्तः प्रलयः क्षयः ।दिशा आशा दिशः काष्ठा हरितः ककुभश्च ताः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
संहार स्यादथत्काले तदात्वं प्रतिपाद्यते ।तज्जं सांदृष्टिकं चैव सांसृष्टिकं फलं तथा ॥ १६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टि (wrong syllable)
genderपुंmasc.
अभिग्रहो निरोधः स्यात् प्रग्रहः प्रतिबन्धनम् ।समुच्चयः समाहारः संहारोऽपचयः समौ ॥ १७१३ ॥
अनुष्टुप्
genderपुंmasc.
निर्वहणं तु निष्ठा स्त्री संहारश्च समापने ॥ ६१ ॥
genderपुंmasc.
ऋद्धिर्गदी च चण्डेशः खेटो दक्षिणकूर्परः ।कैटभश्चैव मातङ्गः संहारः खा-र्णकः स्मृतः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
क्रोधः कोपः क्षकारश्च आत्मा स्त्री कामरूपकः ।संहारो नारसिंहोऽथ महातेजो युगान्तकः ।क्षयः संवर्तकः प्रोक्तः सर्वज्ञः क्षेत्रपालकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिसर्गस्तु संहारः प्रलयः प्रतिसञ्चरः ॥ ९४.५ ॥
genderपुंmasc.
संहार as a meaning in nānārtha verses
- कल्पद्रुकोशः प्रतिचर्अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः । प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥ Kalpadrukośa 1.10.105
- तन्त्राभिधान बक्लेदिनी तापिनी भूमिः सुगमिन्द्रो बलिः प्रियः । सुरभिर्मुख-विष्णू च संहारो वसुधाधिपः ॥ १३० ॥ Tantrābhidhāna 2.40.130
- तन्त्राभिधान क्षपरात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१ ॥ Tantrābhidhāna 2.52.171
- तन्त्राभिधान खदक्षिणकूर्परः खेटः शार्ङ्गी चण्डीशकः खगः । कैटभारिश्च मातङ्गः संहारः खा-र्णकः स्मृतः ॥ १९ ॥ Tantrābhidhāna 6.19