संवर्त
saṃvartaपुं · masc.In 16 kośas: 18 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः ।संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च ।कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥
आर्या
genderपुंmasc.
कृष्णवर्णस्तु संवर्तो वर्तुलश्चक्र इत्यपि ।कलायः स्यात्कालपूरः पूरक: कडलोऽपि च ॥ २६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
genderपुंmasc.
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।कल्पान्तस्तु युगान्तः स्यात्संवर्तप्रलयक्षयाः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वसुधः करकः कीनः कीरः कन्दोऽनकः शुभः ।गन्धर्वनगरं देवः संवर्तो रसदोऽभ्रजित् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
समः संवत्सरे प्रोक्तः शरदब्दोऽपि वत्सरः ।संवर्तः प्रलये पापे वृजिनं कलुषं विघम् ॥ १४४ ॥
अनुष्टुप्
genderपुंmasc.
ज्योतिर्गर्भः सदागामी कृतज्ञः प्रलयाधिपः ।तस्य भेदस्तु संवर्त इलावर्तस्तु पुष्करः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कल्पान्तः प्रलयः कल्पः परिवर्तस्तथा क्षयः ।समगुप्तिश्च संवर्तो युगान्तश्च जिहानकः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
अथ मन्वन्तरं दैवयुगानामेकसप्ततिः ।प्रलयकल्पकल्पान्तसंवर्तलयसंक्षयाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
इड्वत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ ।संवर्तः परिवर्तश्च सांदृष्टिक-सांमृष्टिके ॥ ५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable); pāda 4, syllable 5 सां (wrong syllable)
genderपुंmasc.
संवर्तबाडवौ दस्रदवदावा वनानले ।छागरस्तु करीषाग्निस्तरक्षस्तु तृणानले ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
शङ्खमेखलसौजामिभर्गबाहविबाष्कलाः ।चण्डभार्गवसंवर्तपुण्डरीकविभण्डकाः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
परिवर्तस्तु संवर्तः प्रलयो भूतसंप्लवः ।क्षयो युगान्तः कल्पान्तः समस्वापो जगत्क्षयः ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
पाराशरमथ वृत्तं मन्दाक्रान्तावसन्ततिलकादि ।मन्वत्रिविष्णुहारीतसंवर्तयमगौतमाः ॥ ९२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वंशवर्णः कृष्णवर्णः संवर्तो वातुलश्चणः ।समौ खल्वकनिष्पावौ गोधूमः सुमनो गुरुः ॥ १४२५ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तश्च षडश्रायां त्रिलिंग्यामलकी शिवा ।धात्री कर्षफला तिष्या सेव्याध्यण्डा झटा दृढा ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
वंशवर्णे कृष्णवर्णः संवर्तो वातुलश्चणः ।कलायः स्यात् कालपूरः खण्डिकः कालपूरकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः ।परिमाणेऽपि प्रस्थः सर्वात्मनि सर्वसन्नाहः ॥ ८०१ ॥
आर्या
meaningsहायन
उन्मत्तोऽविनयश्चेष्टो धूस्तूरश्च प्रकीर्तितः ।संवर्तः प्रलये प्रोक्तस्तथा विभीतकद्रुमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
देशान्तरे संगरनृत्यगेहे-ऽप्यानर्त उक्तो जनवाचकोऽपि ।आवर्त आवर्तनचिन्तनाम्भो-भ्रमेष्वथाब्दे प्रलयेऽक्षवृक्षे ॥ ७५ ॥
उपजातिः
doubtful
संवर्त as a meaning in nānārtha verses
- धरणिकोश कल्पकल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । कूपो नौगुणवृक्षे स्याद्गर्तोदपानयोरपि ॥ Dharaṇikośa 20.2.1
- नानार्थार्णवसंक्षेप कल्पविभीतके विकल्पे च संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्ये वर्णने तथा ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 2.2.23
- परमानन्दीयनाममाला कल्पकल्पः शास्त्रे विधौ पापे संवर्ते ब्रह्मणो दिने । प्रकर्षे दिशि काष्ठा च कालमानदिशोरपि ॥ १०३ ॥ Paramānandīyanāmamālā 5.7.103
- शब्दरत्नाकर प्रलयपर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने । प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥ Śabdaratnākara 4.1.2120
- त्रिकाण्डशेष कल्पकल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । धान्ये कुशेऽष्टमांशेऽह्नः कुतपश्छागकम्बले ॥ २७५ ॥ Trikāṇḍaśeṣa 3.3.275
- वैजयन्ती प्रलयप्रलयो मरणे श्लेषे मूर्छासंवर्तयोरपि । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ४३ ॥ Vaijayantī 7.1.43