हिंसित
hiṃsitaIn 4 kośas: 0 synonym verses, 11 as a meaning of another word.
हिंसित as a meaning in nānārtha verses
- धरणिकोश अर्दितउत्थितं प्रोद्यते जाते वृद्धियुक्ते प्रकीर्तितम् । [38] अर्दितं हिंसितं प्रोक्तं वातव्याधौ च याचिते ॥ Dharaṇikośa 15.2.28
- कोषकल्पतरु गतफले च पर्याप्तगतं च षण्ढे त्रिषु प्रणीतेऽपि च हिंसिते च । धुतं भवे******* धूतं तथा भर्त्सितकम्पितार्थम् । पूतं पवित्रे बहुलीकृते च तोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥ Koṣakalpataru 6.16.5
- कोषकल्पतरु ग्रन्थितग्रन्थितमुक्तं गुम्फितहिंसितयोः स्यात्समाक्रान्ते । मथितं निर्जलतक्रे निघृष्ट आलोडिते परवत् ॥ ८९ ॥ Koṣakalpataru 6.16.89
- नानार्थार्णवसंक्षेप ऊर्णप्रशस्तरोमावर्ते च भ्रूमध्यस्थेऽथ हिंसिते । ऊर्णस्त्रि हिंसने तु क्ली स्यादूकस्तु किलिञ्जके ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 2.5.111
- नानार्थार्णवसंक्षेप तूर्णवासोदशायां तूषा तु तुष्टौ स्त्रीपुंसयोरथ । तूर्णं त्रिषु स्यात् त्वरिते हिंसिते क्ली तु हिंसने ॥ ५५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.559
- नानार्थार्णवसंक्षेप मीनमीनो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते । यष्टौ तु मीना स्त्री क्ली तु हिंसने मीढवाक् पुनः ॥ १००० ॥ Nānārthārṇavasaṃkṣepa 2.5.1000
- नानार्थार्णवसंक्षेप रितगतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते । रिष्टं स्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1108
- शब्दरत्नावली कीर्णकीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः । कृष्णो व्यासे वायसे च केशवार्जुनयोरपि । कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.6
- शब्दरत्नावली कृतकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली अर्दितअर्दितो व्याधिते संस्ये हिंसिते याचिते त्रिषु । अक्षतं न द्वयोर्त्वाजिपिण्डयोस्त्रिषु खण्डिते ॥ Śabdaratnāvalī 7.16.74
- शब्दरत्नावली ग्रथितग्रथितं गुम्फिताक्रान्तहिंसितेष्वभिधेयवत् । गर्भास्तर्ना करे सूर्ये स्वाहायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.16.99