कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कीर्ण

kīrṇaवि · adj.

In 11 kośas: 8 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.127 · p. 55
कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥कीर्णमाकीर्णं च पूर्णे त्वाचितं छन्नपूरिते ।भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ ॥प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.702 · p. 81
आचितं निचितं व्याप्तं छन्नं कीर्णं च सङ्कुलम् ।आकुलं भरितं पूर्णं नातिनानार्थवाचकाः ॥ ७०२ ॥
अनुष्टुप्
genderविadj.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.9 · p. 27
पाश्चात्या यवना नीचास्तुरुष्का अपि हिन्दुकाः ।म्लेच्छास्तु वाह्लिकाः कीर्णा अजात्यास्तु प्रकीर्तिताः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.23 · p. 24
संकीर्णं कीर्णमाकीर्णमाकुलं च प्रकीर्णवत् ।पूनं विनष्टमाबर्हितं तून्मूलितमुद्धृतम् ॥ २३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.353 · p. 95
अश्रान्तानवरते[ऽपि?] सततं संततं समम् ।आकीर्णं? संकुलं कीर्णं संकीर्णेऽथाकुलं मतम् ॥ ३५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2677 · p. 432
सङ्कीर्णं सङ्कुलं कीर्णमाकीर्णमाकुलं पुनः ॥ २६७७ ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.65 · p. 254
सततं चानवरता-ऽविरते स्यादनारतम् ।सङ्कुले त्वाकुलं कीर्णं समाङ्भ्या कीर्णमित्यपि ॥ ६५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.7 · p. 154
अन्धुरब्धः प्रहिः कूपश्चुण्डी चौण्डश्च चूतकः ।अवखातस्तु कीर्णः स्यादुत्कीर्णश्च पुरी स्त्रियाम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.5 · p. 49
[27] वेणुर्नृपान्तरे वंशे रेणुः स्वल्पे रजस्यपि ।कीर्णं छन्ने परिक्षिप्ते शीर्णे तनुविशीर्णयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.10 · p. 195
चूर्णः क्षोदे क्षारभेदे च वास-युक्तौ कीर्णं छन्नविक्षिप्तनष्टे ।दीर्णं भीते दारिते वाच्यलिङ्गं [279b]स्थूणा सूर्म्यां वेश्मनः स्तम्भकेऽपि ॥ १० ॥
शालिनीmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.216 · p. 61
कीर्णः पुंसि चुरीसंज्ञे जलस्थानान्तरे त्रि तु ।विक्षिप्ते स्त्री त्वभिख्यायां कीर्तिः कीर्तयतौ तु ना ॥ २१६ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.98 · p. 174
कालिकायां परीवादे कीर्णः छन्ने हतेऽपि च ।कृतं फले युगे पर्याप्तेऽपि तद्विहिते त्रिषु ॥ ९८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.6 · p. 207
कीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः ।कृष्णो व्यासे वायसे च केशवार्जुनयोरपि ।कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥
अनुष्टुप्

कीर्ण as a meaning in nānārtha verses