कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मीन

mīnaपुं · masc.

In 21 kośas: 25 synonym verses, 6 as a nānārtha head word, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1344 · p. 51
मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः ॥ १३४३ ॥संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः ।विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.17
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.657 · p. 75
वैसारिणो विसारः पृथुरोमा जलचरो झषो मत्स्यः ।तिमिरनिमिषश्च मीनः शकली शल्की च विज्ञेयः ॥ ६५७ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.166 · p. 81
मत्स्यो मीनश्चली चीमो वालुके नडमीनकः ।मकरः पत्रकी यन्त्री नको नीराटकः स्मृतः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.39 · p. 3
तथैव विबुधैः प्रोक्तो नक्रश्च मकरो मृगः ।घटकुंभश्च कलशो मत्स्यो मीनो झषो मतः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नृचतुष्पदजलकीटसरीसृपसंज्ञा Gaṇitanāmamālā 30.114 · p. 7
तुलामिथुनसंज्ञाश्च कोदण्डाद्यं दलं नराः ।नक्रस्यान्त्यदलं मीनो घटश्चजलराशयः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नवप्रकारकसञ्ज्ञा Gaṇitanāmamālā 31.117 · p. 7
पृष्ठोदया कर्किधन्वी नक्राजवृषभं स्मृतम् ।अन्ये शीर्षोदया ज्ञेया मीनः स्यादुभयोदयः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त सूर्यादीनामुच्चसंज्ञा Gaṇitanāmamālā 33.120 · p. 7
अजवृषमृगावालाकर्कमीनतुलाधिपाः ॥ १२० ॥
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त सूर्यादीनां नीचसंज्ञा Gaṇitanāmamālā 34.121 · p. 7
तुलालिकर्कमीनेषु मृगकन्याक्रियेषु च ॥ १२१ ॥
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.73 · p. 351
पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः ।कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.226 · p. 405
वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनकौ ।ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥ २२६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.108 · p. 38
जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि ।आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥
गीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.80 · p. 108
मत्स्यो मच्छो झषो मीनोऽण्डज आम्भसिकस्तिमिः ॥ ८० ॥
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 17 · p. 8
पृथुरोमा षडक्षीणो यादो वैसारिणो झषः ।विसारी शफरी मीनः पाठीनोऽनिमिषस्तिमिः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.241 · p. 82
संघचारी झषो मस्त्यो मीनो वैसारिणोऽप्यसौ ।अण्डजः स्थिरजिह्वोऽपि विसारः स्वकुलक्षयः ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.289 · p. 20
कूलं तीरं तरो वप्रो जलसीमोपकण्ठभूः ।वैखानसः पृथुकचा मत्स्यो मीनो झषस्तिमिः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.14 · p. 41
सुसरो मकरो ग्राहे जलचारो वनौकसः ।मीनो मसलकः पुच्छी चिरजीवी निलिम्पकः ।गलग्राही काभिमुखः प्रद्युम्नः कर्णसागरः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.122 · p. 14
पृथुरोमा संघचारी मत्स्यो मीनो झषोऽण्डजः ।वैसारिणो विसारी च शम्बरोऽनिमिषस्तिमिः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.41 · p. 16
धनुश्च मकरश्चैव कुम्भो मीनश्च राशयः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2439 · p. 394
मत्स्यो मीनो मूको मत्सः शम्बरः शंवरस्तिमिः ।आत्माशी शकली शल्की विसारः स्वकुलक्षयः ॥ २४३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.229 · p. 16
कुम्भो मीन इति प्रोक्ताः क्रमाद्द्वादशराशयः ॥
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.68 · p. 41
वरिशी वलिशिश्चाषि वालिशं वडिशं तथा ।मत्स्यो वैसारिणो मीनः पाठीनश्च वदालकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.332 · p. 44
मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः ।वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥
गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.41 · p. 151
पृथुरोमा झषो मत्स्यो मीनो वैसारिणस्तिमिः ।जलपिप्पिक आत्माशी शकुली स्वकुलक्षयः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.6 · p. 105
मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ ।भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 भृ (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.89 · p. 245
सूना तु पुत्र्यां गलशुण्डिकायांवधस्थलेऽथोनमुशन्ति हीने ।रणोद्यमेऽथार्कमयूखयोः स्यात्स्योनोऽथ मीनो झषराशिभेदे ॥ ८९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.9 · p. 43
खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥
अनुष्टुप्
meaningsराशि
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1000 · p. 128
मीनो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते ।यष्टौ तु मीना स्त्री क्ली तु हिंसने मीढवाक् पुनः ॥ १००० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.251 · p. 177
भृतिकाञ्चनयोर्मर्म मलिनं दूषितेऽसिते ।मानं प्रमाणे तौल्ये च मीनो राश्यन्तरे झषे ॥ २५१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पर्यायसंयोगन्यायप्रदर्शनाध्यायः Vaijayantī 8.6.14 · p. 282
संख्याभेदेऽपि शंखस्य मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ १४ ॥
अनुष्टुप्
meaningsराशि

मीन as a meaning in nānārtha verses

  • धरणिकोश संकोचनाराचा लौहबाणा स्यु [र्नाराचो जलहस्तिनि?] । संकोचं कुङ्कुमं प्रोक्तं संकोचो मीनबन्धयोः ॥ Dharaṇikośa 5.2.7
  • धरणिकोश अण्डजअङ्गजो मन्मथे पुत्रे अङ्गजं शोणितं विदुः । अण्डजाः कृकलासादिसर्पमीनखगादिकाः ॥ Dharaṇikośa 7.2.8
  • धरणिकोश गडपीडे बाधानुकम्पे च गडो मीनान्तराययोः । गडुः पृष्ठगुडे कुब्जे षडः पेयान्तरं भिदा ॥ Dharaṇikośa 12.1.2
  • धरणिकोश रोहितरोहितो हरिणमीनमेदयोः प्लीहशत्रुविटपी च रोहितः । रोहितं तु ऋजुशक्रकार्मुके कुङ्कमे सृजि च रोहितं स्मृतम् ॥ Dharaṇikośa 15.3.28
  • धरणिकोश मत्स्यशल्यश्च शल्यके रागे शङ्कौ च मदनद्रुमे । मत्स्यो मीने विराटाख्ये देशेऽपि च जनान्तरे ॥ Dharaṇikośa 25.2.5
  • कोषकल्पतरु संकोचक्रकचो ग्रन्थिलवृक्षे करपत्रे स्यात्तु संकोचम् । काश्मीरे नरि मीने । बन्धेऽथो लोहबाणे स्यात् ॥ ११ ॥ Koṣakalpataru 6.5.11
  • कोषकल्पतरु अण्डजअण्डजाः सरटमीनभुजंग- पक्षिणो मृगमदे तु भवेत्स्त्री । तैलयन्त्रकरवालकफेन- खड्गधेनुफलकेषु परञ्जम् ॥ ४० ॥ Koṣakalpataru 6.7.40
  • कोषकल्पतरु अम्रीणदर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः । शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥ Koṣakalpataru 6.15.60
  • कोषकल्पतरु मत्स्यस्यात्तैजसद्रव्यविशेषके च मत्स्यो विराटे नरि राशिभेदे । मीने तथा यादवमुख्यके च तिष्यस्तु पुष्ये कलिनामकश्च ॥ ४५ ॥ Koṣakalpataru 6.26.45
  • कोषकल्पतरु शिलीन्ध्रशिलीन्ध्रमुक्तं कदलीप्रसूने छत्राकसंज्ञे त्रिपुटाभिधायाम् । मीने द्रु[59b]मे नाथ मृदि स्त्रियां स्या- द्गण्डूपदीनाम्नि खगीविशेषे ॥ ७५ ॥ Koṣakalpataru 6.27.75
  • नानार्थार्णवसंक्षेप मत्स्यमत्स्यस्तु मीने द्वे नीवृद्भेदे तु नरि भूमनि । तद्राजे तु पुमान् मीनराशौ चाथो मघं धने ॥ ९३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.936
  • परमानन्दीयनाममाला काश्यपकुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ । मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥ Paramānandīyanāmamālā 5.7.133
  • परमानन्दीयनाममाला चपलचपलो मूर्धजे मीने चपलं शीघ्रलोलयोः । पारदे चपला लक्ष्म्यां पिप्पलीविद्युतोरथ ॥ १८२ ॥ Paramānandīyanāmamālā 5.11.182
  • शब्दरत्नावली रोहितरसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते । त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥ रेवती तारकामातृभिदोश्च रामयोषिति । रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥ रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥ Śabdaratnāvalī 7.16.128
  • शब्दरत्नावली मत्स्यअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
  • शब्दरत्नावली चपलचपलः पारदे मीने चौरे च चञ्चलाश्मनोः । चपला कुलटालक्ष्मीपिप्पलीचञ्चलासु च ॥ Śabdaratnāvalī 7.28.61
  • शब्दरत्नावली झषकर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् । कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः ॥ काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ । घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके ॥ चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः । झषा नागवलायां स्त्री तापमीनवनेषु ना ॥ Śabdaratnāvalī 7.31.6
  • शब्दरत्नावली अनिमेषअनिमेषः सुरे मीने कामिनीबन्धमित्यपि । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ Śabdaratnāvalī 7.31.28
  • शब्दरत्नाकर झषझषो मीने च मकरे झम्पाश्वादिगतौ गते । प्रमाणगर्वयोष्टङ्को मृगे पाषाणदारणे ॥ १९२७ ॥ Śabdaratnākara 4.1.1927
  • तन्त्राभिधान धद-कारः सत्यसंज्ञः स्यादद्रिश्च परमेश्वरि! । ध-कारश्च महेशानि! मीनः सानुग एव च ॥ २१ ॥ Tantrābhidhāna 1.21
  • तन्त्राभिधान यत्व(वे)गात्मा मलयो माता हंसिनी भृङ्गनायकः । चेतना शोषको मीनो धनिष्ठाऽनङ्गवेदिनी ॥ १४२ ॥ Tantrābhidhāna 2.43.142
  • तन्त्राभिधान धवामाङ्गुल्यादिको मीनो जनार्दन-शिरः-कराः । धर्मेशो धरणीशश्च स्थाणुः प्रीतिश्च धा-र्णकः ॥ ३६ ॥ Tantrābhidhāna 6.36
  • त्रिकाण्डशेष अण्डजपद्मधन्वन्तरी चाऽब्जावण्डजः खगमीनयोः । निचुलेऽप्यम्बुजोऽजस्तु ब्रह्मविष्णुस्मरेष्वपि ॥ ८१ ॥ Trikāṇḍaśeṣa 3.3.81
  • त्रिकाण्डशेष रोहितरिक्तं वनेऽपि रीतिस्तु लोहकिट्टारकूटयोः । रोहितमुजुक्रास्त्रे रक्ते ना मृगमीनयोः ॥ १८० ॥ Trikāṇḍaśeṣa 3.3.180
  • त्रिकाण्डशेष राजीवमाधवौ हरिवैशाखौ राजीवो मृगमीनयोः । रौरवो घोरनरकौ लवश्छेदनलेशयोः ॥ ४२१ ॥ Trikāṇḍaśeṣa 3.3.421
  • उत्पलिनी शृङ्गीशृङ्गं विषाणमाख्यातं शैलाग्रे जलयन्त्रके । मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते ॥ ५० ॥ Utpalinī 50