All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (1/14)
इति द्व्यक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ द्व्यक्षरकाण्डे नानालिङ्गाध्यायः ।
अथ नानार्थशब्देषु नानालिङ्गानधीमहे ।प्राणिजातिषु नृस्त्रीत्वं पूर्ववत् स्याद्व्यवस्थया ॥ १ ॥
2.5.1 · p. 42
अनुष्टुप्
इन्दोः सर्वेऽपि पर्याया हंसस्यापि नपुंसके ।रजते स्युः खरस्यापि कुमुदे मूर्धजस्य तु ॥ २ ॥
2.5.2 · p. 43
अनुष्टुप्
ह्रीबेरेऽथ नृलिङ्गाः स्युः स्पृक्कायां तस्कराह्वयाः ।स्योनाके तु सृगालस्य वानरस्य तु सिल्हने ॥ ३ ॥
2.5.3 · p. 43
अनुष्टुप्
कूर्मस्य मकरस्यापि पर्याया निधिभेदयोः ।अथैव स्वस्वलिङ्गाः स्युरुशीरे समराह्वयाः ॥ ४ ॥
2.5.4 · p. 43
अनुष्टुप्
जलमुस्तेऽटवेर्बिन्दोः सिध्मादौ देहवैकृते ।गणस्याब्धेश्च सङ्ख्यायां शिरसः शिखरे तरोः ॥ ५ ॥
2.5.5 · p. 43
अनुष्टुप्
अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः ।पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपम् ॥ ६ ॥
2.5.6 · p. 43
अनुष्टुप्
धूल्यश्वयोरश्वकन्दे पर्पटे मरिचेऽयसः ।सर्पस्य सीसके नागकेसरे द्विपसर्पयोः ॥ ७ ॥
2.5.7 · p. 43
अनुष्टुप्
सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् ।अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥
2.5.8 · p. 43
अनुष्टुप्
खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥
2.5.9 · p. 43
अनुष्टुप्
धनुर्मकरकुम्भानां क्रमाद्द्वादशराशिनि ।ध्वजधूममृगेन्द्राणां श्वोक्षरासभहस्तिनाम् ॥ १० ॥
2.5.10 · p. 43
अनुष्टुप्
वायसस्य च पर्यायाः क्रमात् पूर्वादिवेश्मसु ।वाट्यालके स्युरन्नस्य शैलेये तु शिलाह्वयाः ॥ ११ ॥
2.5.11 · p. 43
अनुष्टुप्
त्वचो लवङ्गे पर्णस्य पक्षे क्ली किंशुके नरः ।रूक्षस्याञ्जनभेदे क्ली पुल्लिँङ्गो नागकेसरे ॥ १२ ॥
2.5.12 · p. 43
अनुष्टुप्
धुर्धूरेऽप्यम्बुजाख्यास्तु निधिभेदे नृलिङ्गकाः ।शुभस्य फेनिलतरौ पर्यायाः स्युर्नृलिङ्गकाः ॥ १३ ॥
2.5.13 · p. 43
अनुष्टुप्
माक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे ।अथार्कशब्दो ना सूर्ये वह्नाविन्दौ पुरन्दरे ॥ १४ ॥
2.5.14 · p. 44
अनुष्टुप्
ज्येष्ठभ्रातरि वज्रेऽन्ने स्फटिके स्तुतिमन्त्रयोः ।अध्वर्युक्रमभेदेऽर्कपर्णसंज्ञे च गुल्मके ॥ १५ ॥
2.5.15 · p. 44
अनुष्टुप्
वसिष्ठजमदग्न्यादिसामभेदेषु केषुचित् ।नपुंसके त्वर्कपर्णगुल्मस्य फलपुष्पयोः ॥ १६ ॥
2.5.16 · p. 44
अनुष्टुप्
रथादिचक्रे कर्षाख्यमानद्यूतशलाकयोः ।चतुश्शताङ्गुले मानविशेषे (थ?च) रथादिनः ॥ १८ ॥
2.5.18 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चक्रधारककाष्ठेऽथ क्ली सौवर्चल इन्द्रिये ।अजयस्त्वाह नित्येऽपि तत्र स्याद्भेद्यलिङ्गकम् ॥ १९ ॥
2.5.19 · p. 44
अनुष्टुप्
अन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके ।धर्मे प्रधाने च पुमान् केषाञ्चित् पुन्नपुंसकम् ॥ २० ॥
2.5.20 · p. 44
अनुष्टुप्
कोटेरारभ्य दशमे स्थाने दशगुणोत्तरे ।सङ्ख्याभेदे समुद्राख्यसङ्ख्यायां त्वपरे विदुः ॥ २१ ॥
2.5.21 · p. 44
अनुष्टुप्
सा च सङ्ख्याष्टमं स्थानं कोटेरारभ्य कीर्तिता ।एतयोः पूर्वसङ्ख्यायां विकल्पेनाभ्यधात् त्रिषु ॥ २२ ॥
2.5.22 · p. 44
अनुष्टुप्
छान्दोग्योपनिषद्युक्तं सर्वेष्वन्तेष्वितीदृशम् ।तत्रार्थश्चिन्तनीयोऽन्यः पदार्थं मन्वते परे ॥ २३ ॥
2.5.23 · p. 44
अनुष्टुप्
अन्ता तु नृस्त्रियोर्बन्धे घञ्याकारेऽपि चान्ततेः ।अन्तनायां तु पुल्लिँङ्गो भेद्यवत् तु पचाद्यचि ॥ २४ ॥
2.5.24 · p. 44
अनुष्टुप्
अर्ममस्त्री स्थले ग्रामे नेत्ररोगान्तरेऽपि च ।अट्टो नातिशये घाते क्षौमसंज्ञगृहान्तरे ॥ २५ ॥
2.5.25 · p. 45
अनुष्टुप्
शुष्कस्फुटितभूभागे त्रिषु पक्वौदने तु नप् ।अयः शुभावहे दैवे द्यूताक्षपतने गतौ ॥ २६ ॥
2.5.26 · p. 45
अनुष्टुप्
पुमान् गन्तरि तु प्राहुर्भेद्यलिङ्गं वदावदाः ।अयतेरप्ययेरेतेरीयतेश्च पचाद्यचि ॥ २७ ॥
2.5.27 · p. 45
अनुष्टुप्
अर्यो महाशास्तरि ना द्वयोर्वैश्ये यदा त्वयम् ।वैश्यजातिस्त्रियामर्या स्यादर्याणी च सा तदा ॥ २८ ॥
2.5.28 · p. 45
अनुष्टुप्
यदा तु वृत्तिः पुंयोगात् तदार्यी त्रिषु तु प्रभौ ।अर्थ्यस्त्रिष्वनपेतेऽर्थाद् विद्वदात्मवतोरपि ॥ २९ ॥
2.5.29 · p. 45
अनुष्टुप्
न्याय्ये च कृकणाख्ये च पक्षिभेदे द्वयोरयम् ।शिलाजतुनि तु क्लीबमरं तु त्वरिते त्रिषु ॥ ३० ॥
2.5.30 · p. 45
अनुष्टुप्
तत्राप्यसत्त्वे क्ली ना तु चक्रविष्कम्भदारुणि ।अजो हरे विधौ विष्णौ ताते दशरथस्य च ॥ ३१ ॥
2.5.31 · p. 45
अनुष्टुप्
ना निर्जन्मनि तु त्रि स्याद् द्वयोस्तुच्छगले स्मृतः ।अब्जं क्ली लवणे पद्मे ना तु शङ्खशशाङ्कयोः ॥ ३२ ॥
2.5.32 · p. 45
अनुष्टुप्
धन्वन्तरौ चाजयस्तु शङ्खेऽमुं क्लीबमभ्यधात् ।नाप्तः स लिङ्गे त्रिषु तु जलसम्भूतवस्तुनि ॥ ३३ ॥
2.5.33 · p. 45
अनुष्टुप्
अग्रं पुरोधिकोर्ध्वेषु पलमाने नपुंसकम् ।आधिक्यश्रैष्ठ्ययोरेके प्रधाने त्वभिधेयवत् ॥ ३४ ॥
2.5.34 · p. 45
अनुष्टुप्
लिङ्गमाचक्षतेऽस्यान्ये तत्राप्यन्ये नपुंसकम् ।अङ्गं शरीरावयवे शरीरोपाययोर्गुणे ॥ ३५ ॥
2.5.35 · p. 45
अनुष्टुप्
वैयाकरणसंज्ञायां प्रदेशे च नपुंसकम् ।नीवृद्भेदे तु पुंभूम्नि तद्राजे तु पुमानयम् ॥ ३६ ॥
2.5.36 · p. 46
अनुष्टुप्
अङ्गशालिनि तु त्रि स्यादथ सम्बोधनादिषु ।अङ्गेत्यव्ययमम्ब्लस्तु षण्णामन्यतमे रसे ॥ ३७ ॥
2.5.37 · p. 46
अनुष्टुप्
पुमांस्तद्वति तु त्रि स्यादन्धं तु तिमिरे नपुम् ।त्रिषु नेत्रविहीनेऽथ स्यादर्धः शकले पुमान् ॥ ३८ ॥
2.5.38 · p. 46
अनुष्टुप्
समभागे तु शण्डोऽयं रूपकार्धेऽपि रूढितः ।अर्हो योग्ये त्रिरर्हा तु नृस्त्रियोरर्हणे तथा ॥ ३९ ॥
2.5.39 · p. 46
अनुष्टुप्
अण्डं क्लीबं विहङ्गादेः पेशीकोशेऽपरे पुनः ।मुष्के त्वाहुः परेऽप्येनं पुन्नपुंसकयोर्विदुः ॥ ४० ॥
2.5.40 · p. 46
अनुष्टुप्
अन्नं तु त्रिषु जग्धे स्यादोदने क्ली जलेऽपि च ।अस्तोऽस्तमयशैले ना त्रिषु क्षिप्ते गृहेषु नप् ॥ ४१ ॥
2.5.41 · p. 46
अनुष्टुप्
अक्ष्णं क्ली नयनेऽक्ष्णा स्त्री रज्जौ व्याधौ पुमांस्त्रि तु ।अखण्डेऽथ द्वयोरक्तः प्रेते त्रि म्रक्षितादिषु ॥ ४२ ॥
2.5.42 · p. 46
अनुष्टुप्
अश्वो विष्ण्ववतारे ना तुरङ्गे तु द्वयोरयम् ।अन्ध्रस्त्वनन्यपूर्वायां निषाद्यां जनिते द्वयोः ॥ ४३ ॥
2.5.43 · p. 46
अनुष्टुप्
वैदेहेनाथ पुंभूम्नि नीवृद्भेदेऽथ तन्नृपे ।ना तद्देशनिवासे तु मनुष्ये स्याद्द्वयोरयम् ॥ ४४ ॥
2.5.44 · p. 46
अनुष्टुप्
अङ्क्यः स्यादङ्कनीये त्रि स्यान्मृदङ्गान्तरे पुमान् ।अर्घ्यं त्रिषु जलेऽर्घार्थे तदर्हेऽथो नपुंसकम् ॥ ४५ ॥
2.5.45 · p. 46
अनुष्टुप्
आपाण्डुतिक्ते मधुनि वैराग्ये त्वर्दमामनत् ।शण्डे पुंसि तु गत्यादावस्रं तु रुधिराश्रुणोः ॥ ४६ ॥
2.5.46 · p. 46
अनुष्टुप्
क्ली ना तु केशे यत् त्वेतदजयेन प्रमादिना ।अस्रः कोण इति प्रोक्तं तन्नादृत्यं मनीषिभिः ॥ ४७ ॥
2.5.47 · p. 47
अनुष्टुप्
तालव्योष्मा द्वितीयो हि वर्णः कोणाभिधायिनः ।एकीयस्याश्रशब्दस्य स्यादणिस्तु नरस्त्रियोः ॥ ४८ ॥
2.5.48 · p. 47
अनुष्टुप्
रथाद्यक्षाग्रकीले च क्लीबेऽश्रौ रूप्य एव च ।वर्धमानतिथिप्रायपक्षे त्वेष पुमानथ ॥ ४९ ॥
2.5.49 · p. 47
अनुष्टुप्
चिक्रोडाख्ये प्राणिभेदे द्वयोर्ना त्वहिरम्बुदे ।वृत्रासुरे च द्वे तु स्यात् पन्नगे स्त्री त्वही गवि ॥ ५० ॥
2.5.50 · p. 47
अनुष्टुप्
अप्सु द्यावापृथिव्योश्च स्यादर्तिस्तु नृलिङ्गकः ।भूवादिधातुभेदेऽथ स्त्री धनुष्कोटिपीडयोः ॥ ५१ ॥
2.5.51 · p. 47
अनुष्टुप्
अरिस्तु शत्रौ ना द्वे तु मनुष्येऽथ त्रिरीश्वरे ।अञ्जिः शेफे पुमान्नागकेसराह्वयपादपे ॥ ५२ ॥
2.5.52 · p. 47
अनुष्टुप्
त्रिस्त्वृजौ व्यञ्जके शुक्ले पेषण्यां तु स्त्रियामयम् ।अभ्रिः स्त्री काष्ठकुद्दाले स्यात् कूपे तु पुमानयम् ॥ ५३ ॥
2.5.53 · p. 47
अनुष्टुप्
अविः पुंस्यवतौ धातौ सूर्यपर्वतयोरपि ।द्वयोस्तु मेषेऽथाविर्ना भाःप्राकारार्कवायुषु ॥ ५४ ॥
2.5.54 · p. 47
अनुष्टुप्
स्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् ।परमाणौ धान्यभेदे सामुद्रलवणे तु नप् ॥ ५५ ॥
2.5.55 · p. 47
अनुष्टुप्
सूक्ष्मेषु त्रिषु तत्रापि स्त्र्यर्थे वाण्वीत्यथाङ्गुलौ ।रश्मौ चाण्वी स्त्र्यथानुर्ना प्राणे मर्त्ये तु स द्वयोः ॥ ५६ ॥
2.5.56 · p. 47
अनुष्टुप्
अंशुः सूत्रादिसूक्ष्मांशेऽप्येकदेशे लतादिनः ।चन्द्रे सूर्ये द्युतौ रश्मौ पुमान् केचित्तु मन्वते ॥ ५७ ॥
2.5.57 · p. 47
अनुष्टुप्
स्त्रीलिङ्गमप्यन्तिमयोरर्थयोरङ्गुवाक् पुनः ।द्वयोः पक्षिणि हिंसार्थे पुमानक्तुस्तु केशवे ॥ ५८ ॥
2.5.58 · p. 48
अनुष्टुप्
इन्द्रे च ना दिशि स्त्री स्यादसत् तु क्लीबलिङ्गकम् ।प्रधानतत्त्वे साङ्ख्यानां त्रिस्तु सत्प्रतियोगिनि ॥ ५९ ॥
2.5.59 · p. 48
अनुष्टुप्
पुंश्चल्यामसती स्त्री स्यादर्वा तु त्रिषु कुत्सिते ।अश्वे द्वयोः पुमांस्तु स्यादशनौ च मुनौ तथा ॥ ६० ॥
2.5.60 · p. 48
अनुष्टुप्
अर्हस्तु त्रिषु पूज्ये ना जिनेऽली तु द्वयोरलौ ।पुच्छकण्टकिकीटेऽथ ना स्यादष्टमराशिके ॥ ६१ ॥
2.5.61 · p. 48
अनुष्टुप्
अश्वी त्वश्ववति त्रि स्याद् धनूराशौ तु पुंस्ययम् ।दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाह्वये ॥ ६२ ॥
2.5.62 · p. 48
अनुष्टुप्
अर्चिस्तु भासि ज्वालायां शस्त्रे च स्त्रीनपुंसकम् ।आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६३ ॥
2.5.63 · p. 48
अनुष्टुप्
समीपे सज्जनः प्राह भुक्तिव्याप्त्योस्तु पुंस्ययम् ।आस्या स्यादासनायां स्त्री मुखे मुखबिले च नप् ॥ ६४ ॥
2.5.64 · p. 48
अनुष्टुप्
त्रिषु तद्भवतत्साधुतद्धितक्षेप्यवस्तुषु ।आस्रं क्ली रुधिरे बाष्पे कचे ना त्र्यस्रयोगिनि ॥ ६५ ॥
2.5.65 · p. 48
अनुष्टुप्
आरस्त्वङ्गारके गत्यामागतौ च पुमानथ ।क्षुद्रशस्त्रविशेषेषु स्त्रियामाराथ पित्तले ॥ ६६ ॥
2.5.66 · p. 48
अनुष्टुप्
पुन्नपुंसकलिङ्गोऽयमरसम्बन्धिनि त्रिषु ।आर्या मृडान्यां स्त्री जातिच्छन्दोभेदे च ना पुनः ॥ ६७ ॥
2.5.67 · p. 48
अनुष्टुप्
सौविदल्ले सज्जने तु त्रिरागन्तव्यगम्ययोः ।आर्ययोगिनि चाथार्द्रं शृङ्गिबेरे नृशण्डयोः ॥ ६८ ॥
2.5.68 · p. 48
अनुष्टुप्
आर्द्रा स्त्री रुद्रनक्षत्रे तद्युक्ते कालमात्रके ।क्लिन्ने तु स्यात् त्रिराद्यं तु त्रिषु पूर्वप्रधानयोः ॥ ६९ ॥
2.5.69 · p. 48
अनुष्टुप्
अदनीयेऽपि ना तु स्याद् विरिञ्चेऽथामवाक् त्रिषु ।अपक्वे ना तु रोगेऽथो आयस्त्रिष्वययोगिनि ॥ ७० ॥
2.5.70 · p. 49
अनुष्टुप्
पुंसि तु स्याद्धनोत्पत्तौ स्वामिभाग इतीतरे ।लग्नाच्चैकादशे राशौ विदुः सांवत्सरा गतौ ॥ ७१ ॥
2.5.71 · p. 49
अनुष्टुप्
आगतावथ पुंस्यासः क्षेपणे च धनुष्यपि ।कैवर्तीमुस्तकाभिख्यमुस्तके तु नपुंसकम् ॥ ७२ ॥
2.5.72 · p. 49
अनुष्टुप्
आज्ञा तु स्त्री महीपादेः शासने लग्नराशितः ।राशौ च दशमे वेश्याविशेषे च महीपतेः ॥ ७३ ॥
2.5.73 · p. 49
अनुष्टुप्
यस्याज्ञागणिकेत्याख्या त्रिषु त्वज्ञस्य योगिनि ।तत्रापि भेद्ये स्त्र्यर्थे स्याद् रूपमाज्ञीति मन्यताम् ॥ ७४ ॥
2.5.74 · p. 49
अनुष्टुप्
आणिः स्त्रीपुंसयोर्युद्धे रथाद्यक्षाग्रकीलके ।जङ्घामर्मणि निश्रेण्यां निश्रेणिद्वारि चापरः ॥ ७५ ॥
2.5.75 · p. 49
अनुष्टुप्
आजिः स्त्रियां क्वचित् पुंसि युद्धे सममहीतले ।आखुर्मूषिकमात्रे स्यादेकेषां सूकरे द्वयोः ॥ ७६ ॥
2.5.76 · p. 49
अनुष्टुप्
अन्येषां मूषिकस्यैव जातिभेदे क्रमाह्वये ।आलुः श्लेष्मातके पुंसि श्लेष्मण्यन्येऽथ नप्स्त्रियोः ॥ ७७ ॥
2.5.77 · p. 49
अनुष्टुप्
चक्रोष्टसंज्ञके कन्दे कर्कर्यां तु स्त्रियामियम् ।आशुः पाटलसंज्ञे ना व्रीहिभेदे दिवाकरे ॥ ७८ ॥
2.5.78 · p. 49
अनुष्टुप्
अलङ्कारसुवर्णे तु क्ली शृङ्गीकनकाह्वये ।असत्त्वगामि चेच्छीघ्रे स्यात् सत्त्वे त्रिष्वथ द्वयोः ॥ ७९ ॥
2.5.79 · p. 49
अनुष्टुप्
तुरगेऽथायुशब्दो द्वे मनुष्ये शकटे तु ना ।स्यात् पुरूरवउर्वश्योः पुत्रेऽथायुर्नपुंसकम् ॥ ८० ॥
2.5.80 · p. 49
अनुष्टुप्
सान्तं जीवितकालेऽन्ने घने वत्सरनीरयोः ।अपि स्याद्विश्वतोदावन्नित्यारण्यकसामनि ॥ ८१ ॥
2.5.81 · p. 50
अनुष्टुप्
केचित् तु जीविते प्राहुः क्रतुभेदेऽथ पुन्नपोः ।इनः सूर्यात्मनोः पुंसि राजन्यन्येऽथ स त्रिषु ॥ ८२ ॥
2.5.82 · p. 50
अनुष्टुप्
आढ्ये स्वामिनि चेष्टं तु त्रिषु वाञ्छितमित्रयोः ।यागक्रियाकर्मभूते पर्याप्ते यजने तु नप् ॥ ८३ ॥
2.5.83 · p. 50
अनुष्टुप्
इच्छायां यज्ञदाने च यज्ञे चाथो पुमानिपः ।ज्ञेय आश्वयुजे मासि क्लीबं त्वयसि सा पुनः ॥ ८४ ॥
2.5.84 · p. 50
अनुष्टुप्
इप्वा स्त्री पुत्रसन्तत्यां कुटुम्बे चेति केचन ।कलत्रे त्वपरे ना तु स्यादाचार्याभिलाषयोः ॥ ८५ ॥
2.5.85 · p. 50
अनुष्टुप्
इभ्य आढ्ये त्रिषु स्त्री तु हस्तिवातिङ्गनेऽथ तत् ।इद्धं स्यादातपे क्ली त्रिर्दीपिते स्त्री त्विडा गवि ॥ ८६ ॥
2.5.86 · p. 50
अनुष्टुप्
बुधपत्न्यां नाडिभेदे भुव्यन्ने दिवि वाचि च ।धनञ्जयस्य वचने दृष्टं भा देवता प्रसूः ॥ ८७ ॥
2.5.87 · p. 50
अनुष्टुप्
इत्येवं तस्य वाक्यस्य चिन्त्योऽर्थो बहुवेदिभिः ।पुमांस्तु देवताभेदे शाकटायनभाषितः ॥ ८८ ॥
2.5.88 · p. 50
अनुष्टुप्
इषुः स्त्रीपुंसयोर्बाणे क्रतुभेदे तु पुंस्ययम् ।विष्टुत्योस्तूभयोः स्त्रीत्वे ना त्विन्दुः शशियज्ञयोः ॥ ८९ ॥
2.5.89 · p. 50
अनुष्टुप्
कर्पूरे क्ली तु सलिले ना त्वीडो देवतान्तरे ।स्तुतौ तु नृस्त्रि स्त्री भूम्यामीशस्तु गिरिशे पुमान् ॥ ९० ॥
2.5.90 · p. 50
अनुष्टुप्
ईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिषु ।उष्णः पुंसि हुताशे स्याद् ग्रीष्मे शिग्रुमहीरुहे ॥ ९१ ॥
2.5.91 · p. 50
अनुष्टुप्
क्ली तु वह्निगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च ।उग्रः पुंसि महादेवे मर्त्यजात्यन्तरे पुनः ॥ ९२ ॥
2.5.92 · p. 51
अनुष्टुप्
शूद्रायां क्षत्त्रियाज्जाते तेनोढायां द्वयोस्तथा ।शूद्रायां ब्राह्मणाज्जाते तेनोढायामथ स्त्रियाम् ॥ ९३ ॥
2.5.93 · p. 51
अनुष्टुप्
वचायां च खराश्वाख्याजमोजान्तरभेषजे ।उग्रा क्लीबं तु लवणे घटिकालवणाह्वये ॥ ९४ ॥
2.5.94 · p. 51
अनुष्टुप्
कालशेयेऽथ रौद्रे त्रि स्त्री तूस्रा गवि ना घृणौ ।उखः पुंसि स्फिचि परे कर्णपार्श्वेऽप्यधीयते ॥ ९५ ॥
2.5.95 · p. 51
अनुष्टुप्
औखीयानां च शाखाया ऋषिभेदे प्रवक्तरि ।स्त्री तु स्थाल्यामुखा यज्ञविदामुख्याग्निसंभृतेः ॥ ९६ ॥
2.5.96 · p. 51
अनुष्टुप्
साधने चतुरश्रे च स्यान्मृत्पात्रान्तरे तथा ।यदग्निचयनेऽथोल्बं क्ली स्याद्गर्भाशयेऽथ तत् ॥ ९७ ॥
2.5.97 · p. 51
अनुष्टुप्
पुंस्याहामरदत्तोऽस्मिन्नर्थे शुल्बे तु तन्नपि ।रजते भूमिभेदेऽपि सामभेदेऽथ ना क्रतौ ॥ ९८ ॥
2.5.98 · p. 51
अनुष्टुप्
सङ्ख्याज्ञाने विरहिते त्वेष त्रिष्वथ पेलवे ।उभ्र ऊर्ध्वस्थिते च त्रिः पुमांस्तु स्यात् पयोमुचि ॥ ९९ ॥
2.5.99 · p. 51
अनुष्टुप्
उद्रो द्वे जलमार्जार ऋषिभेदे तु नाथ ना ।उषः प्रस्थचतुर्भागे प्रभातेऽथ स्त्रियामुषा ॥ १०० ॥
2.5.100 · p. 51
अनुष्टुप्
अनिरुद्धस्य या पत्नी बाणासुरसुता च या ।तस्यां गवि निशीथिन्यामुषा त्वन्ते निशोऽव्ययम् ॥ १०१ ॥
2.5.101 · p. 51
अनुष्टुप्
उडुर्विप्रे द्वयोर्नप्स्त्री नक्षत्रेऽथो उरु त्रिषु ।बृहत्युर्वी(तु?ति) तत्रापि स्त्र्यर्थे वा स्यादथ स्त्रियाम् ॥ १०२ ॥
2.5.102 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्वी (syllables merged)
उर्वी पृथिव्यां नद्यां च स्यादुदक् तु त्रिषूत्तरे ।दिग्देशकालविषय उदीच्ये चाप्युदङ्मुखे ॥ १०३ ॥
2.5.103 · p. 51
अनुष्टुप्
उदीची तु स्त्रियां राजराजस्य दिशि वा पुनः ।एतेषु सर्वेष्वर्थेषु स्यादव्ययमिदं यदा ॥ १०४ ॥
2.5.104 · p. 52
अनुष्टुप्
प्रथमापञ्चमीसप्तम्यर्थयुक्तमुशिक् पुनः ।ना गौतमर्षो वह्नौ चाप्युशीरे तु स्त्रियां त्रि तु ॥ १०५ ॥
2.5.105 · p. 52
अनुष्टुप्
मेधाविनि स्यादुद्भित् तु सामभेदे नपुंसकम् ।एकाहक्रतुभेदे ना स्यादुद्भिज्जे तु स त्रिषु ॥ १०६ ॥
2.5.106 · p. 52
अनुष्टुप्
उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः ।सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥
2.5.107 · p. 52
अनुष्टुप्
उत्साहे पुंस्त्रियोरूर्ध्वस्तूपर्यर्थे त्रिषूत्थिते ।ऋषिभेदे तु पुंस्यूषा पुनः स्त्री रुजि नप् पुनः ॥ १०८ ॥
2.5.108 · p. 52
अनुष्टुप्
लवणे स्यादूषरजे ना क्षारमृदि नप् पुनः ।ऊमं व्योम्नि पुरे चान्ये पुंसि प्राणिनि तु त्रिषु ॥ १०९ ॥
2.5.109 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दू (wrong syllable)
ऊहा न क्ली विचारे स्यात् सामग्रन्थान्तरे तु ना ।ऊर्णा सा स्त्री कदल्यादेस्तन्तौ मेषादिलोमनि ॥ ११० ॥
2.5.110 · p. 52
अनुष्टुप्
प्रशस्तरोमावर्ते च भ्रूमध्यस्थेऽथ हिंसिते ।ऊर्णस्त्रि हिंसने तु क्ली स्यादूकस्तु किलिञ्जके ॥ १११ ॥
2.5.111 · p. 52
अनुष्टुप्
कैश्चिदन्यैः पुना राशौ राशिस्थाने परैः पुमान् ।शाकटायनपूर्वार्यैरुक्तो द्वे तु विहङ्गमे ॥ ११२ ॥
2.5.112 · p. 52
अनुष्टुप्
भवेदूका तु जन्तौ स्त्री स्वेदजेऽस्थिविवर्जिते ।इति कश्चिदथोर्मिः स्त्रीपुंसयोर्जलवीचिषु ॥ ११३ ॥
2.5.113 · p. 52
अनुष्टुप्
महातरङ्ग इत्यन्ये क्षुत्पिपासादिकेष्वपि ।अजयस्तु पठत्येनामुत्पीडायामपि स्म सः ॥ ११४ ॥
2.5.114 · p. 52
अनुष्टुप्
ऋतं नपुंसकं विद्यात् सिलोञ्छे प्राप्तियज्ञयोः ।गतौ सत्ये तद्वति तु त्रिषु प्राप्ते गतेऽपि च ॥ ११५ ॥
2.5.115 · p. 52
अनुष्टुप्
ऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नप् ।नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुर्निर्लोम्नि तु त्रिषु ॥ ११६ ॥
2.5.116 · p. 53
अनुष्टुप्
ऋश्यः पुंस्यृषिभेदे स्यान्मृगजात्यन्तरे द्वयोः ।ऋजुस्त्रिर्नायकेऽर्थे ना हिंस्रे त्वृष्वो महत्यपि ॥ ११७ ॥
2.5.117 · p. 53
अनुष्टुप्
त्रिररातौ तु पुंस्येष ऋद्धं तु स्यात् समर्धने ।क्ली त्रिरावसिते धान्ये समृद्धेऽपि द्वयोस्त्वृभुः ॥ ११८ ॥
2.5.118 · p. 53
अनुष्टुप्
देवे विदुषि तु त्रि स्यात् पुमांस्तु मधुसूदने ।ज्येष्ठे च ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ११९ ॥
2.5.119 · p. 53
अनुष्टुप्
गभस्तिधाराधरयोर्ऋजुस्तु त्रिगुणे त्रिषु ।अव्युत्पन्ने वररुचिः पुनर्विदुषि चाब्रवीत् ॥ १२० ॥
2.5.120 · p. 53
अनुष्टुप्