कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (5/14)

अग्नौ च जित्वरे तु त्रिर्जित्वा त्विन्द्रेऽपि योद्धरि ।ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ॥ ४८१ ॥
2.5.481 · p. 84
अनुष्टुप्
जीवो ना गीष्पतौ जन्तौ क्षेत्रज्ञे त्रि तु जीवति ।त्रये प्राणे स्त्री तु मौर्व्यां जीवन्त्याख्यलतान्तरे ॥ ४८२ ॥
2.5.482 · p. 84
अनुष्टुप्
स्याज्जीवनक्रियायां तु नृस्री छन्दोन्तरे पुनः ।द्विषष्टिस्वरके क्लीबं जीरस्त्वग्न्यन्नयोः पुमान् ॥ ४८३ ॥
2.5.483 · p. 84
अनुष्टुप्
अजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः ।टङ्के ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥
2.5.484 · p. 84
अनुष्टुप्
मद्गौ च चटके चाथ जीवन् स्यात् प्राणति त्रिषु ।जीवन्ती तु स्त्रियां जीवासंज्ञशाकलतान्तरे ॥ ४८५ ॥
2.5.485 · p. 84
अनुष्टुप्
ज्योतिष्मतीगुडूच्योश्च जूर्णस्तु स्यान्नृलिङ्गकः ।वज्रेऽपि यावनालेऽपि त्रि तु वृद्धे स्त्रियां पुनः ॥ ४८६ ॥
2.5.486 · p. 84
अनुष्टुप्
जूर्णा स्याद्बल्बजेष्वेषा जूर्णिस्तु स्त्री ज्वरे क्रुधि ।शरीरे च पुमांस्त्वेष आदित्ये च विरिञ्चने ॥ ४८७ ॥
2.5.487 · p. 84
अनुष्टुप्
समीरणे हुतवहे भेद्यलिङ्गं तु सत्वरे ।ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ ४८८ ॥
2.5.488 · p. 84
अनुष्टुप्
त्रपुह्रीबेरयोस्तु क्ली स्याल्लोहे नीलिकाह्वये ।अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥
2.5.489 · p. 84
अनुष्टुप्
नवस्वेकत्र चालक्ष्मीगृहगोलिकयोरपि ।इन्द्रदैवतनक्षत्रेऽप्यथ ज्यैष्ठी स्त्रियामियम् ॥ ४९० ॥
2.5.490 · p. 84
अनुष्टुप्
ज्येष्ठानक्षत्रसंयुक्तपौर्णमास्यां पुमांस्तु सः ।शुक्रमासे त्रि तु ज्येष्ठसम्बन्धिन्यथ जैत्रवाक् ॥ ४९१ ॥
2.5.491 · p. 84
अनुष्टुप्
क्ली द्यूते जयनेऽथ त्रिर्जयशीले स्त्रियां पुनः ।जैत्र्यास्फोताख्यवल्ल्यां स्याद् विष्णुक्रान्तान्यनामनि ॥ ४९२ ॥
2.5.492 · p. 85
अनुष्टुप्
ज्योतिरात्मनि सूर्येऽग्नौ हविर्होमार्चिदीप्तिषु ।ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ ४९३ ॥
2.5.493 · p. 85
अनुष्टुप्
विलोचने धने पुत्रे सामभेदेषु केषुचित् ।ज्योतिष्टोमाख्ययज्ञे च क्लीबं दीप्तौ तु वा स्त्रियाम् ॥ ४९४ ॥
2.5.494 · p. 85
अनुष्टुप्
नित्यं पुमांसमग्नौ चामरदत्तोऽन्वशादिदम् ।पुन्नपुंसकलिङ्गस्तु ज्योतिष्टोमे मतो मम ॥ ४९५ ॥
2.5.495 · p. 85
अनुष्टुप्
ज्यौत्स्नी तु स्त्री पटोल्यां स्याज्ज्योतिष्मद्रजनावपि ।त्रि तु ज्योत्स्नावति स्त्री तु झषा नागबलाह्वये ॥ ४९६ ॥
2.5.496 · p. 85
अनुष्टुप्
भैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च ।झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रि तु ॥ ४९७ ॥
2.5.497 · p. 85
अनुष्टुप्
झटो झटितरि द्वे तु शूद्रामैत्रेयजे नरे ।टङ्कोऽस्त्री परशौ शैलशृङ्गे पाषाणदारणे ॥ ४९८ ॥
2.5.498 · p. 85
अनुष्टुप्
मुद्रितोन्मानभेदे च टङ्कणे चाथ नृस्त्रियोः ।मृगभेदे व्यवस्थाने ना तु कश्मीरविश्रुते ॥ ४९९ ॥
2.5.499 · p. 85
अनुष्टुप्
महीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् ।तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ॥
2.5.500 · p. 85
अनुष्टुप्
त्रि तु तद्वति शण्डे तु तालसंज्ञतरोः फले ।पाताले समदेशे च चतुर्भागे पलस्य च ॥ ५०१ ॥
2.5.501 · p. 85
अनुष्टुप्
पाणिना दक्षिणेनैव वीणातन्त्र्याश्च ताडने ।अजयस्तु पठत्येनत् कार्यबीजे धनेऽपि च ॥ ५०२ ॥
2.5.502 · p. 85
अनुष्टुप्
अधःस्वरूपयोस्त्वस्त्री हस्तघ्ने तु तला तलम् ।इति स्त्रियां च शण्डे चाप्यथ लिङ्गत्रये तटम् ॥ ५०३ ॥
2.5.503 · p. 86
अनुष्टुप्
प्राहुर्जलाशयप्रान्ते तीरे त्वन्येऽद्रिसानुनि ।तङ्कः सम्भावनायां च भयेऽप्यस्त्री ततं पुनः ॥ ५०४ ॥
2.5.504 · p. 86
अनुष्टुप्
वीणादिवाद्ये क्ली ना तु पितरि त्रि तु विस्तृते ।व्याप्ते त्रयं तु त्रितये त्रिस्त्रिवेद्यां त्रयी स्त्रियाम् ॥ ५०५ ॥
2.5.505 · p. 86
अनुष्टुप्
नप्स्त्री त्रयाणां वृन्दे स्यात् त्रसं तु त्रिषु जङ्गमे ।त्रसी तु स्त्री त्रासभेदे यस्मिन् सति दिशां भ्रमः ॥ ५०६ ॥
2.5.506 · p. 86
अनुष्टुप्
गन्तुं विवेकशून्यत्वादित्येवं कश्चिदब्रवीत् ।त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ तु सा त्रिषु ॥ ५०७ ॥
2.5.507 · p. 86
अनुष्टुप्
त्वचं तु क्ली सूत्कटाख्यगन्धद्रव्येऽथ वल्कले ।त्वचा स्यान्नृस्त्रियोर्ना तु तटिस्तटतिधातुके ॥ ५०८ ॥
2.5.508 · p. 86
अनुष्टुप्
सूनायां तु स्त्रियां ना तु तरिर्वैश्वानरानले ।स्त्री चर्मवृतपेडायां नावि चाथ तनुः स्त्रियाम् ॥ ५०९ ॥
2.5.509 · p. 86
अनुष्टुप्
असृग्धरायां लग्नाख्यराशौ वपुषि सा पुनः ।तन्वीति पिप्पलीसंज्ञभेषजे ना तु पादपे ॥ ५१० ॥
2.5.510 · p. 86
अनुष्टुप्
नान्दीवृक्षाह्वये त्रिस्तु विरलेऽल्पे कृशेऽपि च ।तन्तुस्तु सूत्रे ना यज्ञसंस्थायां चाथ स द्वयोः ॥ ५११ ॥
2.5.511 · p. 86
अनुष्टुप्
एकत्र भेदे भेदानां मण्डल्याह्वयभोगिनाम् ।ग्राहाख्ययादोभेदे च सामभेदे पुनर्नपि ॥ ५१२ ॥
2.5.512 · p. 86
अनुष्टुप्
स(र्वन्नि?र्वाग्नि)चित्यायाः पुच्छे पक्ष्याकारस्य वस्तुनः ।छुरिकायां च खड्गादिमुष्टौ चाप्यस्त्रियामथ ॥ ५१३ ॥
2.5.513 · p. 86
अनुष्टुप्metre not read in every line
तप्ता स्याद्भास्करे पुंसि भेद्यलिङ्गं तु तापके ।त्वष्टा प्रजापतौ वह्नौ देवतक्षणि तक्षणि ॥ ५१४ ॥
2.5.514 · p. 86
अनुष्टुप्
विष्ण्वग्रजे माध्यमिकदेवे दिनकरे च ना ।त्रि तु त्वक्षितरि स्यात् तु तक्षा ना वर्धकौ स तु ॥ ५१५ ॥
2.5.515 · p. 87
अनुष्टुप्
विप्रीकरणजे मर्त्यजातिभेदे द्वयोस्तथा ।आयोगवे च वृत्तिश्चेत् तक्षणं तस्य ना पुनः ॥ ५१६ ॥
2.5.516 · p. 87
अनुष्टुप्
तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः ।तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ५१७ ॥
2.5.517 · p. 87
अनुष्टुप्
लग्नान्नवमराशौ च प्राहुः सांवत्सरा इदम् ।शिशिरर्तौ त्वचि प्राह शाश्वतः पुन्नपोः पुनः ॥ ५१८ ॥
2.5.518 · p. 87
अनुष्टुप्
माघमासे तमस्तु क्ली पापे नरकशोकयोः ।गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बले ॥ ५१९ ॥
2.5.519 · p. 87
अनुष्टुप्
अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ तु ना तमाः ।तालः कालक्रियामाने तृणराजाख्यपादपे ॥ ५२० ॥
2.5.520 · p. 87
अनुष्टुप्
अङ्गुष्ठमध्यमामाने चपेटे त्रपुसेऽपि च ।इषुभेदे च नाथ स्त्री ताली दृढदलाह्वये ॥ ५२१ ॥
2.5.521 · p. 87
अनुष्टुप्
तृणद्रुमे तामलकीसौराष्ट्रीमुसलीषु च ।प्रतिताल्यामथ क्लीबं हरिताले फलेषु च ॥ ५२२ ॥
2.5.522 · p. 87
अनुष्टुप्
अत्रोक्तस्थावराणां स्यात् कांस्यताल्यां तु तत् त्रये ।तारस्तु शुद्धमुक्तायां मुक्ताशुद्धौ च तारणे ॥ ५२३ ॥
2.5.523 · p. 87
अनुष्टुप्
रदेऽपि सज्जनः प्राह तारा तु स्यान्नरस्त्रियोः ।नक्षत्रे नेत्रमध्ये च रजते तु नृशण्डयोः ॥ ५२४ ॥
2.5.524 · p. 87
अनुष्टुप्
त्रिषु तूच्चैस्तरे शब्दे विशदेऽप्यथ पङ्कजे ।प्रणवे च नपि स्त्री तु तारा योषिति वालिनः ॥ ५२५ ॥
2.5.525 · p. 87
अनुष्टुप्
सुगतस्य च ताम्रं तु स्यात् क्लीबं शुल्बरूपयोः ।ना शुल्बवर्णसदृशे वर्णे तद्वति तु त्रिषु ॥ ५२६ ॥
2.5.526 · p. 87
अनुष्टुप्
ताम्रा तु स्त्री कृष्णलाख्यवल्ल्यां तार्क्ष्यस्तु ना रथे ।गरुडे शैलजे विष्णौ विष्णोर्वामनविग्रहे ॥ ५२७ ॥
2.5.527 · p. 88
अनुष्टुप्
सौवर्चलाख्यलवणे पुनः क्ली द्वे तुरङ्गमे ।तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ ५२८ ॥
2.5.528 · p. 88
अनुष्टुप्
विस्तारे तानशब्दोऽथ गीतिधर्मे नपुंसकम् ।तापस्तप्तौ पुमान् स्त्री तु तापी स्यान्निम्नगान्तरे ॥ ५२९ ॥
2.5.529 · p. 88
अनुष्टुप्
ताडो ना ताडने ताडी स्त्री तालीसंज्ञपादपे ।तार्णं भारतवर्षस्थद्वीपभेदे नपुंसकम् ॥ ५३० ॥
2.5.530 · p. 88
अनुष्टुप्
तृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः ।त्रि स्याच्छरणदेशीये त्वाष्ट्रस्तु क्षपके पुमान् ॥ ५३१ ॥
2.5.531 · p. 88
अनुष्टुप्
अरत्नीनां च यूपस्य स्यादरत्नौ चतुर्दशे ।त्वाष्ट्री तु स्त्री सूर्यपत्नीभेदे त्वष्टुः पुनस्त्रिषु ॥ ५३२ ॥
2.5.532 · p. 88
अनुष्टुप्
सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद्देवतात्र च ।अपत्ये तु द्वयोस्त्वष्टुरथ तापिर्नृलिङ्गकः ॥ ५३३ ॥
2.5.533 · p. 88
अनुष्टुप्
दैत्यभेदे तापयतौ नदीभेदे तु केचन ।स्त्रीति पातरि तु त्राता त्रिर्ना तु सितसर्षपे ॥ ५३४ ॥
2.5.534 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
तिक्तस्तु पर्पटे पुंसि पटोले गुग्गुलावपि ।विरसाख्यरसे षण्णां रसानां कटुकेऽपि च ॥ ५३५ ॥
2.5.535 · p. 88
अनुष्टुप्
गन्धे च सुरभावेतद् गुणत्रययुते त्रिषु ।स्त्री तिक्ता कटुरोहिण्यां तिष्यस्तु नरि मारुते ॥ ५३६ ॥
2.5.536 · p. 88
अनुष्टुप्
महादेवे कलियुगे वह्नौ पुष्याख्यतारके ।तद्युक्ते कालसामान्ये तज्जाते तु त्र्यथ स्त्रियाम् ॥ ५३७ ॥
2.5.537 · p. 88
अनुष्टुप्
तिष्यामलक्यां तिग्मस्तु वज्रे चोष्णगुणेऽपि च ।त्रि तु तद्वति तीक्ष्णे च तेजिते च त्रिकं तु नप् ॥ ५३८ ॥
2.5.538 · p. 88
अनुष्टुप्
पृष्ठवंशाधरे त्रिस्तु त्रयाणां निवहेऽथ ना ।शालङ्कायनसंज्ञेषु मुनिभेदेषु भूम्नि च ॥ ५३९ ॥
2.5.539 · p. 89
अनुष्टुप्
तिर्यक् तु साचिभेदे त्रिर्नरं त्वाह पशुष्वमुम् ।त्रिवृत् स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ ५४० ॥
2.5.540 · p. 89
अनुष्टुप्
नवसङ्ख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति ।तद्युक्तेऽप्यहरादौ स्याद् रज्ज्वादौ त्रिगुणे तथा ॥ ५४१ ॥
2.5.541 · p. 89
अनुष्टुप्
तीर्थमस्री पुण्यजले पुण्यक्षेत्रेऽध्वरे भगे ।जलावगाहमार्गे च मन्त्राद्यष्टादशस्वपि ॥ ५४२ ॥
2.5.542 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
शास्त्रे निदाने योग्ये च स्त्रीपुष्पे दर्शनेष्वपि ।उपाध्यायेऽप्युपाये च प्राहाचार्यकुलेऽपरः ॥ ५४३ ॥
2.5.543 · p. 89
अनुष्टुप्
नदीष्वन्योऽथ तीक्ष्णोऽस्त्री विषे क्लीबं तु संयुगे ।गरे चाप्यजयोऽवादील्लोहे कालायसाह्वये ॥ ५४४ ॥
2.5.544 · p. 89
अनुष्टुप्
अयोभेदे परे पुंसि त्वौष्ण्ये तीक्ष्णार्जकाह्वये ।स्तम्बे च चारभेदे चातिहिंस्राकारधारिणि ॥ ५४५ ॥
2.5.545 · p. 89
अनुष्टुप्
सूर्येऽथ स्त्री वचायां स्यात् तीक्ष्णा त्रिर्निशितोष्णयोः ।आत्मत्यजि च तीव्रं तु त्रि(तू ? षू )त्कृष्टनितान्तयोः ॥ ५४६ ॥
2.5.546 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उष्णे च क्ली त्वसत्त्वेऽथ तीरं कूले नपुंसकम् ।तीरी तु शरभेदे स्त्री योऽल्पो वेगसमन्वितः ॥ ५४७ ॥
2.5.547 · p. 89
अनुष्टुप्
तुङ्गस्तु पुंसि पुन्नागद्रुमे प्रांशौ तु स त्रिषु ।स्त्रियां तु तुङ्गा स्याद्वंशरोचनासंज्ञभेषजे ॥ ५४८ ॥
2.5.548 · p. 89
अनुष्टुप्
अजगन्धाह्वयस्तम्बे पुनस्तुङ्गी पुमान् पुनः ।तुग्रो यवे वरिष्ठे तु त्रिरन्नाकाशयोस्तु नप् ॥ ५४९ ॥
2.5.549 · p. 89
अनुष्टुप्
तुत्थं रसाञ्जने क्लीबं नीलीसंज्ञौषधौ तु सा ।सूक्ष्मैलायां च तुत्था स्त्री रथचक्रस्य तु स्त्रियाम् ॥ ५५० ॥
2.5.550 · p. 89
अनुष्टुप्
तुम्बा नाभावलाब्वां तु तुम्बी तुम्बं तु तत्फले ।क्लीबं तुच्छं तु शून्ये त्रिष्वसुखे तु नपुंसकम् ॥ ५५१ ॥
2.5.551 · p. 90
अनुष्टुप्
तुञ्जस्तु दाने वज्रे च बलादानादिके च ना ।तुञ्जा तु रक्षणे स्त्री स्याद्धिंसायां तु नरस्त्रियोः ॥ ५५२ ॥
2.5.552 · p. 90
अनुष्टुप्
तुन्नस्तु व्यथिते त्रि स्यान्नान्दीवृक्षे तु पुंस्ययम् ।तुष्टस्तु नान्दीवृक्षे ना तुष्टौ क्ली तद्वति त्रिषु ॥ ५५३ ॥
2.5.553 · p. 90
अनुष्टुप्
तुषस्तु पुंसि धान्यानां त्वचि तत्सदृशे तथा ।हिरण्यादेश्च शकले विभीतकतरावपि ॥ ५५४ ॥
2.5.554 · p. 90
अनुष्टुप्
तत्फले क्ली तुटिस्तु स्त्री पुंस्यप्येके प्रचक्षते ।वाद्यभेदे लवे चाल्पकालभेदे च संशये ॥ ५५५ ॥
2.5.555 · p. 90
अनुष्टुप्
सूक्ष्मैलायां च ना त्वेष तुटतौ स्त्री पुनस्तुरिः ।तन्तुवायोपकरणभेदे पुंसि तु वारिधौ ॥ ५५६ ॥
2.5.556 · p. 90
अनुष्टुप्
तुतोर्तिधातौ च क्ली तु तूयं तोये दुते त्रिषु ।तूर्योऽस्त्री वाद्यनिर्घोषे स तु वाद्ये नपुंसकम् ॥ ५५७ ॥
2.5.557 · p. 90
अनुष्टुप्
तूरो ना वाद्यनिर्घोषे गतित्वरणहिंसयोः ।पुनः स्त्रीपुंसयोस्तूरा तूषं तु स्यान्नपुंसकम् ॥ ५५८ ॥
2.5.558 · p. 90
अनुष्टुप्
वासोदशायां तूषा तु तुष्टौ स्त्रीपुंसयोरथ ।तूर्णं त्रिषु स्यात् त्वरिते हिंसिते क्ली तु हिंसने ॥ ५५९ ॥
2.5.559 · p. 90
अनुष्टुप्
तृप्तं तु नपि षट्षष्टिस्वरे छन्दोन्तरे तथा ।तृप्तौ त्रि तु स्यात् प्रीते च सुहिते चाथ तृप्रवाक् ॥ ५६० ॥
2.5.560 · p. 90
अनुष्टुप्
क्ली पापदुःखयोर्ना तु पुरोडाशे तृणं पुनः ।क्लीबं स्यान्मल्लिकाभेदे सुरूपासंज्ञकेऽथ तत् ॥ ५६१ ॥
2.5.561 · p. 90
अनुष्टुप्
दूर्वायवेक्षुप्रभृतिक्षुद्रस्थावरजातिषु ।नृशण्डयोरथ पुमांस्तेरः कतकपादपे ॥ ५६२ ॥
2.5.562 · p. 90
अनुष्टुप्
क्ली तु तस्य फले वक्त्रेऽप्यथ तैलो नृशण्डयोः ।तिलस्नेहे तिलस्य त्रिः सम्बन्धिन्यथ तोग्मवाक् ॥ ५६३ ॥
2.5.563 · p. 91
अनुष्टुप्
हरिद्यवे ना हरितवर्णे चाथ त्रि तद्वति ।क्ली त्वभ्रे कर्णमूलेऽथ तोडं सशिखमुण्डने ॥ ५६४ ॥
2.5.564 · p. 91
अनुष्टुप्
क्लीबेऽपनयने पुंसि दण्डोऽस्त्री निग्रहे मथि ।आज्ञायां शासने राज्ञां हिंसायां लगुडे नृपे ॥ ५६५ ॥
2.5.565 · p. 91
अनुष्टुप्
सेनायां वृक्षशाखायामथ दक्षः प्रजापतौ ।प्राचेतसे बले पुंसि त्रिषु चारुणि पेशले ॥ ५६६ ॥
2.5.566 · p. 91
अनुष्टुप्
कुक्कुटे तु द्वयोः स्त्री तु भुवि दक्षा दशा पुनः ।परमायामवस्थायामवस्थामात्रकेऽपरे ॥ ५६७ ॥
2.5.567 · p. 91
अनुष्टुप्
आयुषो दशमांशेऽन्ये विपाके कर्मणः परे ।दीपवर्तौ च वर्तौ च वस्त्रस्यान्ये तु मन्वते ॥ ५६८ ॥
2.5.568 · p. 91
अनुष्टुप्
अस्मिन्नर्थे स्त्रियां भूम्नि पुंभूम्न्यन्येऽथ दंशवाक् ।दशनाख्यक्रियायां ना मक्षिकायां तु स द्वयोः ॥ ५६९ ॥
2.5.569 · p. 91
अनुष्टुप्
वन्यायां स्त्री तु तज्जातिभेदे दंश्यल्पकेऽथ ना ।दन्तः स्याद्दशने शैलकटकेऽन्यस्त्ववोचत ॥ ५७० ॥
2.5.570 · p. 91
अनुष्टुप्
दंष्ट्रायां हस्तिनश्चेति दन्ती तु स्थावरान्तरे ।नागदन्तीसमाख्ये स्त्री दत्तं तु नपि हेमनि ॥ ५७१ ॥
2.5.571 · p. 91
अनुष्टुप्
त्रिषु विश्राणिते दभ्रः पुनश्चन्द्रसमुद्रयोः ।ना त्रि त्वल्पे च कुशले दल्भं तु नपि वल्कले ॥ ५७२ ॥
2.5.572 · p. 91
अनुष्टुप्
गोत्रकृत्यृषिभेदे ना दर्वशब्दस्तु राक्षसे ।द्वयोर्देशविशेषे तु पुंभूम्न्यप्यथ दस्मवाक् ॥ ५७३ ॥
2.5.573 · p. 91
अनुष्टुप्
पुंसि वह्नौ च वज्रे च त्रि तूपक्षयकारिणि ।द्रवो नर्मणि निर्यासे द्रवणे च पलायने ॥ ५७४ ॥
2.5.574 · p. 92
अनुष्टुप्
पुंसि स्त्री तु द्रवा नद्यां त्रिर्घनप्रतियोगिनि ।दरः शङ्खे भये श्वभ्रे छिद्रमात्रे तु सज्जनः ॥ ५७५ ॥
2.5.575 · p. 92
अनुष्टुप्
नृशण्डः कन्दरे तु स्त्री दरी स्वल्पार्थके पुनः ।दरोऽव्ययमिति प्राहुर्दलं तु क्ली तरुच्छदे ॥ ५७६ ॥
2.5.576 · p. 92
अनुष्टुप्
न स्त्री भागेऽथ ना द्वन्द्वः समासे चार्थचोदिते ।नृशण्डस्तु युधि क्ली तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥
2.5.577 · p. 92
अनुष्टुप्
युग्मे च भेद्यलिङ्गं तु युग्मावयववस्तुषु ।दधिस्तु पुंसि श्रीपिष्टसंज्ञनिर्यासवस्तुनि ॥ ५७८ ॥
2.5.578 · p. 92
अनुष्टुप्
क्ली तु क्षीरविकारे स्याद् विप्रप्रियमिति श्रुते ।दर्विः समुद्रे चक्रे च ना स्त्री तु प्रतिकीलके ॥ ५७९ ॥
2.5.579 · p. 92
अनुष्टुप्
दस्युस्तु द्वे चतुष्षष्टौ मर्त्यजात्यन्तरेषु ये ।चौर्यादिदोषदुष्टत्वाद् भवेयुः सद्बहिष्कृताः ॥ ५८० ॥
2.5.580 · p. 92
अनुष्टुप्
तेषु ना तु रिपौ त्रिस्तु तस्करेऽथ द्रवत् त्रिषु ।पलायके द्रावके च द्रवन्ती तु स्त्रियामियम् ॥ ५८१ ॥
2.5.581 · p. 92
अनुष्टुप्
न्यग्रोधीसंज्ञकस्तम्बे दरत् तु स्त्री भये हृदि ।नद्यां प्रपाते चेत्येके विष्ठायामिति कश्चन ॥ ५८२ ॥
2.5.582 · p. 92
अनुष्टुप्
हिमवत्तट इत्यन्ये राजभेदे तु पुंस्ययम् ।तस्यैव पुमपत्येषु भूम्नि देशस्य भूपतेः ॥ ५८३ ॥
2.5.583 · p. 92
अनुष्टुप्
दण्डी पुंसि यमे द्वाःस्थेऽप्यथ दण्डवति त्रिषु ।द्वे शुके द्वे तु दंष्ट्री स्यात् सर्पे ग्राहाख्ययादसि ॥ ५८४ ॥
2.5.584 · p. 92
अनुष्टुप्
वराहे मूषिके व्याघ्रेऽप्यथ दंष्ट्रावति त्रिषु ।दासो भृत्ये द्वयोः स्त्री तु षडश्रासंज्ञवीरुधि ॥ ५८५ ॥
2.5.585 · p. 92
अनुष्टुप्
स्याद्दासी नीलझिण्ट्यामप्यथ दाशो द्वयोरयम् ।भृत्यकैवर्तयोस्तत्र स्त्र्यर्थे दाश्यथ नृस्त्रियोः ॥ ५८६ ॥
2.5.586 · p. 93
अनुष्टुप्
दाने (द्वे ? च) स्त्री तु दाशात्र दशायोगिनि तु त्रिषु ।दान्त(स्तु ? स्त्रि)दमिते दान्तियुक्ते दान्तविकारके ॥ ५८७ ॥
2.5.587 · p. 93
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 दा (syllables merged)
स्त्र्यर्थे तु पूर्वयोर्दान्ता वाच्ययोरुत्तमे पुनः ।स्त्र्यर्थे दान्ती दमनके पुनर्दान्तौ च तन्नपि ॥ ५८८ ॥
2.5.588 · p. 93
अनुष्टुप्
दाक्षस्त्रिर्दक्षसम्बन्धिन्यघ्न्यायां तु स्त्रियामियम् ।कपिलायां भवेद्दाक्षी दायस्तु त्रिषु दातरि ॥ ५८९ ॥
2.5.589 · p. 93
अनुष्टुप्
ना तु दाने विभक्तव्यपित्रादिद्रविणे तथा ।अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ ५९० ॥
2.5.590 · p. 93
अनुष्टुप्
यौतकादिधने चाथ दात्व आयुक्तके त्रिषु ।ना यज्ञेऽन्यस्तु दाने क्लीत्याह दाकस्तु दातरि ॥ ५९१ ॥
2.5.591 · p. 93
अनुष्टुप्
त्रिर्द्वे तु यजमाने स्याद् दानुस्तु त्रिषु दातरि ।द्वयोस्तु यजमाने ना त्वर्के वातेऽप्यथो नपि ॥ ५९२ ॥
2.5.592 · p. 93
अनुष्टुप्
पुंस्यप्यन्ये दारु काष्ठे क्ली पुनर्देवदारुणि ।दार्वी दारुहरिद्रायां स्त्री द्विजस्तु द्वयोर्भवेत् ॥ ५९३ ॥
2.5.593 · p. 93
अनुष्टुप्
ब्रह्मक्षत्त्रियविट्स्वण्डजातेषु दशनेषु ना ।द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ ५९४ ॥
2.5.594 · p. 93
अनुष्टुप्
मनआत्मद्वये क्लीबं काके तु द्वे स तु त्रिषु ।सङ्घे द्विपरिमाणे स्याद् द्वाभ्यां क्रीतादिकेष्वपि ॥ ५९५ ॥
2.5.595 · p. 93
अनुष्टुप्
दिग्धस्तु विषलिप्तेषौ त्रिषु लिप्तप्रवृद्धयोः ।क्ली स्यादुपचये स्नेहेऽप्याहेदं वैजयन्तिका ॥ ५९६ ॥
2.5.596 · p. 93
अनुष्टुप्
दिव्यं क्ली व्योम्नि लशुने गाने तन्त्रीसमुद्भवे ।प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वनेहसि ॥ ५९७ ॥
2.5.597 · p. 93
अनुष्टुप्
ना क्ली संवदने दैवे कृतान्तेऽपि धनञ्जयः ।दैवाद्भेदेन पठति दानभूषणयोरपि ॥ ५९८ ॥
2.5.598 · p. 94
अनुष्टुप्
यन्मृत्तिकाम्भसा स्नानं तत्रापि त्रि तु भाषिते ।दत्ते च दि(ष्ट?ष्टि)स्तु पुमान् प्रमाणेऽष्टाङ्गुलेऽथ सः ॥ ५९९ ॥
2.5.599 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् ।त्रिस्तु द्वेष्टरि मर्त्ये तु द्विपाद्द्वे द्व्यङ्घ्रिके त्रिषु ॥ ६०० ॥
2.5.600 · p. 94
अनुष्टुप्