All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (10/14)
शण्डेऽप्याहू रसा तु स्त्री दूर्वापातालभूमिषु ।द्राक्षायामपि पाठायामथ रक्तं नपुंसकम् ॥ १०८१ ॥
2.5.1081 · p. 135
अनुष्टुप्
रुधिरे कुङ्कुमे ताम्रे स्त्रीपुष्पे रागवस्तुनि ।पत्त्राङ्गाख्ये पुमांस्त्वेष रोहीतक इति श्रुते ॥ १०८२ ॥
2.5.1082 · p. 135
अनुष्टुप्
महीरुहप्रभेदे स्यात् तथा वर्णे च लोहिते ।त्रि तु तद्वद्रागवतोरनुरक्तेऽपि यत् पुनः ॥ १०८३ ॥
2.5.1083 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
आपादितान्यवर्णं स्याद् वर्णात् तत्राप्यथो रथः ।वेतसे स्यन्दने पुंसि चक्रवाके तु स द्वयोः ॥ १०८४ ॥
2.5.1084 · p. 135
अनुष्टुप्
रथी तु गन्त्र्यां स्त्री रथ्या पुनः स्त्री रथसंहतौ ।विशिखामार्गयोः स्यात् तु रथस्य त्रिषु वोढरि ॥ १०८५ ॥
2.5.1085 · p. 135
अनुष्टुप्
तस्य स्वीये तद्धिते च रम्या तु रजनौ स्त्रियाम् ।रमणीये त्रिषु रणः पुनः पुंशण्डयोर्युधि ॥ १०८६ ॥
2.5.1086 · p. 135
अनुष्टुप्
ना तु शब्दे परे त्वाहुरतिशब्देऽपरे पुनः ।नृशण्डमविशेषेण रण्डा तु विधवस्त्रियाम् ॥ १०८७ ॥
2.5.1087 · p. 136
अनुष्टुप्
न्यग्रोधीसंज्ञकस्तम्बे स्त्री ना तु पुरुषेऽथ नप् ।स्वसम्बन्धार्थशून्येऽन्तःकरणे ना तु रङ्गवाक् ॥ १०८८ ॥
2.5.1088 · p. 136
अनुष्टुप्
स्थानमात्रेऽपरे नृत्तयुद्धस्थाने पुनः परे ।अजयस्त्वाह दर्पेऽपि क्ली तु स्यान्नागसीसयोः ॥ १०८९ ॥
2.5.1089 · p. 136
अनुष्टुप्
रतं तु सुरते क्लीबं कृतरामे तु तत् त्रिषु ।तन्निष्ठेऽप्यथ पुल्लिँङ्गो रस्नो दण्ड उदाहृतः ॥ १०९० ॥
2.5.1090 · p. 136
अनुष्टुप्
द्वे त्वश्वे स्त्री पुना रम्भा कदल्यामप्सरोन्तरे ।गौरवर्णकदल्यां तु केचित् सौत्री तु मेखला ॥ १०९१ ॥
2.5.1091 · p. 136
अनुष्टुप्
या तस्यामपि नैरुक्ताः पुनर्दण्डे नरं विदुः ।रमा तु लक्ष्म्यां स्त्री त्रिस्तु रन्तरि क्ली तु रन्ध्रवाक् ॥ १०९२ ॥
2.5.1092 · p. 136
अनुष्टुप्
विवरे चापराधे च भूषणे त्वपरे विदुः ।लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥
2.5.1093 · p. 136
अनुष्टुप्
मर्त्यजात्यन्तरे तु द्वे विप्रमैत्रीसमुद्भवे ।रयिस्तु तोयधनयोर्नृस्त्रियोरथ रश्मिवाक् ॥ १०९४ ॥
2.5.1094 · p. 136
अनुष्टुप्
पुंसि क्वचित् स्त्रियां च स्यात् प्रग्रहे किरणेऽपि च ।ज्वालायामपि च प्राह वैजयन्त्यां द्वयोः पुनः ॥ १०९५ ॥
2.5.1095 · p. 136
अनुष्टुप्
रङ्कुर्मृगान्तरे नीवृद्भेदे तु नरि ना पुनः ।रतुर्दूते स्त्रियां नद्यां बन्धने पथि चाथ ना ॥ १०९६ ॥
2.5.1096 · p. 136
अनुष्टुप्
रामो दाशरथौ विष्णौ रतौ परशुरामके ।बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥
2.5.1097 · p. 136
अनुष्टुप्
शुक्ले कृष्णे वररुचिस्त्वाहामुं शबलेऽथ सः ।वाच्यलिङ्गः शुक्लकृष्णशबलेषु गुणिष्वसौ ॥ १०९८ ॥
2.5.1098 · p. 136
अनुष्टुप्
चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् ।राकशब्दस्तु पुल्लिँङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥
2.5.1099 · p. 137
अनुष्टुप्
राका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे ।जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ॥ ११०० ॥
2.5.1100 · p. 137
अनुष्टुप्
रतसम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् ।उक्तयोरर्थयोः क्ली तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥
2.5.1101 · p. 137
अनुष्टुप्
राता विहारशीले स्त्री राधा स्त्री कर्णमातरि ।विशाखाख्ये च नक्षत्रे तद्युक्ते कालमात्रके ॥ ११०२ ॥
2.5.1102 · p. 137
अनुष्टुप्
जाते तु तत्र त्रिर्ना तु राधो वैशाखमासि च ।पौर्णमास्यां तु वैशाख्यां राधी स्त्री राष्ट्रवाक् पुनः ॥ ११०३ ॥
2.5.1103 · p. 137
अनुष्टुप्
नृशण्डयोरजन्ये च विषयेऽप्यथ राम्भवाक् ।ना दण्डे वैणवे रम्भासम्बन्धिनि तु स त्रिषु ॥ ११०४ ॥
2.5.1104 · p. 137
अनुष्टुप्
राशिः क्रत्वन्तरे पुञ्जे मेषादावाढके च ना ।साम्नोस्त्वग्निन्नरोवर्गगीतयोः स्यान्नपुंसकम् ॥ ११०५ ॥
2.5.1105 · p. 137
अनुष्टुप्
राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे ।क्षत्त्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा ॥ ११०६ ॥
2.5.1106 · p. 137
अनुष्टुप्
स्त्र्यर्थे वृत्तिस्तदा राज्ञी ब्रह्मरीत्याह्वये पुनः ।लोहे राज्ञी स्त्रियामेव रितं तु क्ली गतौ त्रि तु ॥ ११०७ ॥
2.5.1107 · p. 137
अनुष्टुप्
गतेऽथ वेद एवेदं हिंसने क्ली त्रि हिंसिते ।रिष्टं स्वभावे क्ली पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥
2.5.1108 · p. 137
अनुष्टुप्
याष्ये च रिक्तशब्दस्तु शून्ये त्रि क्ली तु रेचने ।क्षीयमाणतिथिप्रायपक्षे तु नरि स त्वयम् ॥ ११०९ ॥
2.5.1109 · p. 137
अनुष्टुप्
चतुर्थ्यां च नवम्यां च चतुर्दश्यां तिथौ पृथक् ।रिक्ता स्त्री रिपुशब्दस्तु शत्रौ ना त्रि तु चोरके ॥ १११० ॥
2.5.1110 · p. 137
अनुष्टुप्
रुक्मं क्ली हेम्न्ययोभेदे तीक्ष्णसंज्ञे पुमान् पुनः ।वक्षोविभूषणे निष्कसंज्ञे रुच्यस्तु ना स्मृतः ॥ ११११ ॥
2.5.1111 · p. 138
अनुष्टुप्
पाणिग्राहे रुचिकरे पुन(स्त्री?स्त्रि)रथ भूषणे ।विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥
2.5.1112 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विनाशे दर्शनीये तु त्रिर्द्वयोर्ब्राह्मणे स्मृतः ।रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ॥ १११३ ॥
2.5.1113 · p. 138
अनुष्टुप्
चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे ।रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११४ ॥
2.5.1114 · p. 138
अनुष्टुप्
देवभेदेषु मन्त्रेष्वप्येकेषु स्तोतरि त्रिषु ।रुह्वा तु स्यान्नरि प्रावृट्काले प्रावृड्वनस्पतौ ॥ १११५ ॥
2.5.1115 · p. 138
अनुष्टुप्
भूमौ तु रुह्वरी स्त्री स्यादथ रूपं नपुंसकम् ।स्वभावाकृतिसौन्दर्यवपुष्पु श्लोकशब्दयोः ॥ १११६ ॥
2.5.1116 · p. 138
अनुष्टुप्
नाटके नाटकाद्येषु शुक्लकृष्णादिकेष्वपि ।ग्रन्थावृत्तौ च मृगजात्यन्तरे तु द्वयोरयम् ॥ १११७ ॥
2.5.1117 · p. 138
अनुष्टुप्
रूपणे तु पुमान् रूपो रूप्यं तु क्ली विभूषणे ।आहते हेमरजतद्वये रजत एव च ॥ १११८ ॥
2.5.1118 · p. 138
अनुष्टुप्
त्रि तु प्रशस्तरूपेऽपि रूपणीयेऽथ रूक्षवाक् ।निश्शरे दधनि क्लीबमप्रेम्णि त्वप्यचिक्कणे ॥ १११९ ॥
2.5.1119 · p. 138
अनुष्टुप्
त्रिषु वृक्षे तु ना रूढः पुनः पुंसि यवे त्रि तु ।कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ॥
2.5.1120 · p. 138
अनुष्टुप्
रेफस्तु पुंसि मूर्धन्यान्तःस्थावर्णे त्रि कुत्सिते ।स्तोतर्यप्यथ रेणुः स्त्री हरेण्वाह्वयभेषजे ॥ ११२१ ॥
2.5.1121 · p. 138
अनुष्टुप्
स्त्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च ।रोको रश्मौ पुमान् क्ली तु रन्ध्रे रोहित् पुनर्नरि ॥ ११२२ ॥
2.5.1122 · p. 138
अनुष्टुप्
अग्नेरश्वे तथा वर्णभेदे त्रिषु तु तद्वति ।स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ११२३ ॥
2.5.1123 · p. 139
अनुष्टुप्
अजयस्तु द्वयोराह मत्स्यजात्यन्तरेऽपि च ।रोही रोहितकाभिख्यद्रुमे ना रोहवत्सु तु ॥ ११२४ ॥
2.5.1124 · p. 139
अनुष्टुप्
त्रिषु रोदः पुनः शण्डे स्त्रियां च व्योम्न्यथापरे ।पृथिव्यां च यदा तु स्त्री तदा भवति रोदसी ॥ ११२५ ॥
2.5.1125 · p. 139
अनुष्टुप्
इति ङ्यन्तमथाप्यन्ये रोदसी इति मन्वते ।सहोक्तौ भूदिवोरेव रौद्रं तु क्लीबमातपे ॥ ११२६ ॥
2.5.1126 · p. 139
अनुष्टुप्
पार्वत्यां तु स्त्रियां रौद्री शिवशक्त्यन्तरेऽपि च ।उग्रतायां च सप्तानां मातृणामेकमातरि ॥ ११२७ ॥
2.5.1127 · p. 139
अनुष्टुप्
त्रिषु तूग्ररसे रुद्रसम्बन्धिन्यथ लक्षवाक् ।शरव्ये क्ली नृशण्डस्तु व्याजे करुणनाम्नि तु ॥ ११२८ ॥
2.5.1128 · p. 139
अनुष्टुप्
महीरुहप्रभेदे ना दर्शनाङ्कनयोरपि ।अयुते तु दशाभ्यस्ते लक्षं लक्षा च नप्स्त्रियोः ॥ ११२९ ॥
2.5.1129 · p. 139
अनुष्टुप्
लक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा ।द्रष्टव्ये त्वङ्कनीये च त्रिषु लग्नस्तु न स्त्रियाम् ॥ ११३० ॥
2.5.1130 · p. 139
अनुष्टुप्
राशीनामुदये त्रिस्तु सक्ते मत्तगजे तु ना ।लट्वाः स्त्री पक्षिभेदे च कुसुम्भेऽप्यथ केचन ॥ ११३१ ॥
2.5.1131 · p. 139
अनुष्टुप्
लट्वः कटाहे पुंसीति प्राहुर्लष्वः पुनः पुमान् ।ऋषिस्थाने द्वयोस्तु स्यादपत्ये लम्बवाक् पुनः ॥ ११३२ ॥
2.5.1132 · p. 139
अनुष्टुप्
नृस्त्रियोर्लम्बने स्त्री तु लम्बोत्कोचे परः पुनः ।आह भूमिविशेषेऽथ लघु निस्सारशीघ्रयोः ॥ ११३३ ॥
2.5.1133 · p. 139
अनुष्टुप्
त्रिगुरुप्रतिपक्षे च स्यादिष्टेऽल्पमनोज्ञयोः ।एकमात्रस्वरे चैषु स्त्र्यर्थे लध्वी लधुस्तथा ॥ ११३४ ॥
2.5.1134 · p. 139
अनुष्टुप्
क्लीबं त्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके ।गुग्गुलौ तु पुमान् स्त्री तु स्पृक्कायां लघुरेव सा ॥ ११३५ ॥
2.5.1135 · p. 140
अनुष्टुप्
लघण् मेघे टकारान्तो वायौ च नरलिङ्गकः ।हिरण्यमाषकस्यापि भेदे स्त्री त्वप्सरस्यसौ ॥ ११३६ ॥
2.5.1136 · p. 140
अनुष्टुप्
ललत् त्रिषु विलासस्य कर्तरि स्त्री तु भूषणे ।लम्बनाख्ये ललन्ती स्याल्लाला तु मुखजे जले ॥ ११३७ ॥
2.5.1137 · p. 140
अनुष्टुप्
लवलीवृक्षसंज्ञे च स्त्री काञ्च्यां स्वजयोऽब्रवीत् ।द्वे तु जात्यन्तरे नृणां मैत्रेयब्राह्मणीसुते ॥ ११३८ ॥
2.5.1138 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 नृ (wrong syllable)
विलासे तु पुमाल्लाँलः स्यादुपच्छन्दने तु नप् ।लातशब्दस्तु पुल्लिँङ्गो वृत्तिकादानभाजने ॥ ११३९ ॥
2.5.1139 · p. 140
अनुष्टुप्
आत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् ।लिप्तं तु भुक्ते दिग्धे च त्रिः क्ली भोजनलेपयोः ॥ ११४० ॥
2.5.1140 · p. 140
अनुष्टुप्
लिखिस्तु शिल्पिनि द्वे स्यात् कश्चित् तु विदुषि त्रिषु ।धातौ तु लिखतौ पुंसि भूप्रदेशे तु ना लिगुः ॥ ११४१ ॥
2.5.1141 · p. 140
अनुष्टुप्
गोत्रभेदे सज्जनस्तु मन्त्रेऽप्याह द्वयोः पुनः ।मृगे लुब्धस्तु मृगयौ ना कदर्ये तु स त्रिषु ॥ ११४२ ॥
2.5.1142 · p. 140
अनुष्टुप्
काङ्क्षावति च लेखस्तु पुमाल्लेँख्ये विलेखने ।द्वे तु देवेऽथ लेखा स्त्री कृत्रिमायां लि(खा?पा) विति ॥ ११४३ ॥
2.5.1143 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वैजयन्त्यां शाश्वतस्तु राज्यां वररुचिः पुनः ।सीमायामपि लेख्यं तु क्ली पत्त्रे लिखिताक्षरे ॥ ११४४ ॥
2.5.1144 · p. 140
अनुष्टुप्
त्रि तु लेखयितव्ये च लेखितव्येऽप्यथो नरि ।लेयः सिंहाख्यराशौ स्यादादेये तु स भेद्यवत् ॥ ११४५ ॥
2.5.1145 · p. 140
अनुष्टुप्
लेढा तु मृदुवाते ना लेहके त्रिरथो नृनप् ।लोहं तैजसमात्रे च मरिचे हेम्न्ययस्यपि ॥ ११४६ ॥
2.5.1146 · p. 141
अनुष्टुप्
गन्धद्रव्येऽप्यगुर्वाख्ये लोपस्तुच्छेदने पुमान् ।अदर्शने च शब्दस्य शुकभेदे तु सा स्त्रियाम् ॥ ११४७ ॥
2.5.1147 · p. 141
अनुष्टुप्
लोपा लोभ्यं त्वारकूटे क्ली ना मुद्गे त्रिषु त्वयम् ।लोभनीयेऽथ लौहं स्याल्लोहसम्बन्धिनि त्रिषु ॥ ११४८ ॥
2.5.1148 · p. 141
अनुष्टुप्
क्लीबलिङ्गं त्वयस्येतद् वैजयन्त्यामधीयते ।वरो ना भूपजामात्रोर्देवादेरीप्सिते क्रुधि ॥ ११४९ ॥
2.5.1149 · p. 141
अनुष्टुप्
सम्भक्तौ च निरोधे च वृङ्वृञोर्भाववाचकः ।यवक्षारे तुरुष्काख्यनिर्यासे मारिषान्तरे ॥ ११५० ॥
2.5.1150 · p. 141
अनुष्टुप्
लतामारिष इत्युक्ते चटके तु द्वयोरयम् ।अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ११५१ ॥
2.5.1151 · p. 141
अनुष्टुप्
गुग्गुलौ हरिताले च महोदर्याख्यमुस्तके ।वर्तुलाकाररचितवह्निकुण्डेऽप्यथ स्त्रियाम् ॥ ११५२ ॥
2.5.1152 · p. 141
अनुष्टुप्
पथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः ।आस्फोताकण्टकार्योश्च वराथ स्याद्वरी इति ॥ ११५३ ॥
2.5.1153 · p. 141
अनुष्टुप्
कण्टकारीशतावर्योरथ श्रेष्ठे विशेष्यवत् ।क्लीबमेव मनागिष्टे केचिदाहुस्तदव्ययम् ॥ ११५४ ॥
2.5.1154 · p. 141
अनुष्टुप्
वर्णस्त्वक्षर एवास्त्री केषांचिदपरे पुनः ।विलेपने प्रकारे च शोभायां चास्त्रियां विदुः ॥ ११५५ ॥
2.5.1155 · p. 141
अनुष्टुप्
ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके पुनः ।विशेषादथ विप्रादौ स्तुतौ गीतिक्रमे कुथे ॥ ११५६ ॥
2.5.1156 · p. 141
अनुष्टुप्
अजयस्त्वाह चित्रेऽपि उक्तिमात्रे च दृश्यते ।आकृत्यां माल्ययशसोर्वृते वेषे परे पुनः ॥ ११५७ ॥
2.5.1157 · p. 141
अनुष्टुप्
ब्रह्मचर्ये च वर्णा तु तुवरीसंज्ञधान्यके ।पृथुबीजे स्त्रियां वज्रं त्वस्त्री कुलिशशस्त्रयोः ॥ ११५८ ॥
2.5.1158 · p. 142
अनुष्टुप्
मणिवेधे रत्नभेदेऽप्यशनौ चासनान्तरे ।जङ्घे पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ११५९ ॥
2.5.1159 · p. 142
अनुष्टुप्
ताभ्यामेव स्थितौ भूमावन्तरिक्षासनं च तत् ।इति लक्षणमप्युक्तं यस्य नामान्तरं तथा ॥ ११६० ॥
2.5.1160 · p. 142
अनुष्टुप्
व्रतभेदे च गोमूत्रयावकाहारजीवने ।मासमेकं पुमांस्त्वेष यज्ञभेदे जिघांसतः ॥ ११६१ ॥
2.5.1161 · p. 142
अनुष्टुप्
द्विषज्जनपदं स्त्री तु वज्रा स्नुह्याख्यभूरुहे ।तत्रैव पत्ररहितस्नुह्यां वज्री भवेत् पुनः ॥ ११६२ ॥
2.5.1162 · p. 142
अनुष्टुप्
ह्रीबेरे क्ली वशा तु स्त्री वन्ध्यायां दुहितर्यपि ।स्त्रीमात्रे चेति केषाञ्चिन्मतमन्ये तु मन्वते ॥ ११६३ ॥
2.5.1163 · p. 142
अनुष्टुप्
वन्ध्यस्त्रियां वन्ध्यगव्यामित्यथो गजयोषिति ।अग्निमन्थाख्यवृक्षे ना त्वायत्तत्वप्रभुत्वयोः ॥ ११६४ ॥
2.5.1164 · p. 142
अनुष्टुप्
जने स्पृहायां त्रिस्त्वेष आयत्ते द्वे तु मानुषे ।करणीवैश्यसम्भूते स्यादथो वर्षमस्त्रियाम् ॥ ११६५ ॥
2.5.1165 · p. 142
अनुष्टुप्
वृष्टौ संवत्सरे जम्बूद्वीपांशे भारतादिके ।प्रावृट्संज्ञर्तुभेदे तु वर्षाः स्त्रीभूम्नि ना पुनः ॥ ११६६ ॥
2.5.1166 · p. 142
अनुष्टुप्
वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके ।ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ॥ ११६७ ॥
2.5.1167 · p. 142
अनुष्टुप्
फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके ।गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥
2.5.1168 · p. 142
अनुष्टुप्
वर्ये स्याद्वक्षसि त्वस्त्री ना वस्नो मूल्यमेढ्रयोः ।आगमे क्ली तु लवणे रुमाजे वप्रवाक् पुनः ॥ ११६९ ॥
2.5.1169 · p. 142
अनुष्टुप्
अस्त्री क्षेत्रे वास्तुभूमौ प्रकारे सानुरोधसोः ।प्राकारमूलके त्वाह वैजयन्त्यां पुमांस्त्वसौ ॥ ११७० ॥
2.5.1170 · p. 143
अनुष्टुप्
पितरि त्रि तु वन्ध्यं स्यान्निष्फले स्त्री तु योषिति ।अयोग्यायां गर्भधृतेर्वलस्तु नरि पर्वते ॥ ११७१ ॥
2.5.1171 · p. 143
अनुष्टुप्
मेघे दैत्यविशेषे च धान्ये निष्पावसंज्ञके ।द्वे तु काकेऽथ वल्ला स्त्री तुवरीसंज्ञधान्यके ॥ ११७२ ॥
2.5.1172 · p. 143
अनुष्टुप्
द्वे नृजात्यन्तरे मल्लीक्षत्त्रियप्रभवेऽथ सा ।नृस्त्रियोः स्यात् संवरणे वल्कस्तु दशने नरि ॥ ११७३ ॥
2.5.1173 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
अस्त्री तु वल्कले ना तु वधो हननवज्रयोः ।बले स्त्री तु कलम्ब्याख्यजलशाके वधा त्रि तु ॥ ११७४ ॥
2.5.1174 · p. 143
अनुष्टुप्
हिंसके वैजयन्त्याह वहस्तु नरि मारुते ।स्कन्धदेशे गवाश्वादेर्वहा तु सरिति स्त्रियाम् ॥ ११७५ ॥
2.5.1175 · p. 143
अनुष्टुप्
वया स्त्री तरुशाखायां ना तु गत्यशनादिषु ।व्रजस्तु नान्ये षण्डेऽपि गोष्ठे मार्गसमूहयोः ॥ ११७६ ॥
2.5.1176 · p. 143
अनुष्टुप्
आपस्तम्बप्रयोगेऽसावश्वगोष्ठे च दृश्यते ।ना तु मेघे च शैले च नियमे तु व्रतोऽस्त्रियाम् ॥ ११७७ ॥
2.5.1177 · p. 143
अनुष्टुप्
क्ली त्वृतौ वत्सरे मासे विष्णावग्नौ धनान्नयोः ।भुक्तौ कर्मणि चाथाह विधाने चापि सज्जनः ॥ ११७८ ॥
2.5.1178 · p. 143
अनुष्टुप्
महाव्रतसमाख्ये स्यात् क्रतुभेदेऽप्यथ त्रिषु ।व्यक्तं स्यान्निश्चिते स्पष्टे विदुष्यन्यस्त्वभाषत ॥ ११७९ ॥
2.5.1179 · p. 143
अनुष्टुप्
पुमांसं विदुषि क्ली तु व्यञ्जनाह्वयकर्मणि ।व्यङ्गस्तु भेके (द्वि ? द्वे) त्रिस्तु विरूपाङ्गगताङ्गयोः ॥ ११८० ॥
2.5.1180 · p. 143
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भे (syllables merged)
ना तु नीलपृषद्रूपवक्त्रव्याधौ नृभूम्नि तु ।वङ्गाः स्युर्देशभेदे तद्राजे वाङ्गः पुमानथ ॥ ११८१ ॥
2.5.1181 · p. 143
अनुष्टुप्
तस्यापत्येषु बहुषु वङ्गाः पुंभूम्नि नप् पुनः ।त्रपुणि स्यान्नृस्त्रियोस्तु गतौ वङ्गा भवेत् तु ना ॥ ११८२ ॥
2.5.1182 · p. 144
अनुष्टुप्
वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ।नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥
2.5.1183 · p. 144
अनुष्टुप्
वंशी वन्यस्तु पुंसि स्याद् धान्ये मर्कटकाह्वये ।वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ ११८४ ॥
2.5.1184 · p. 144
अनुष्टुप्
तिक्तकोशातकीसंज्ञे क्ली तु कंसोत्पले त्रि तु ।वनसाधौ वंशभवे पुनर्वंश्यस्त्रिषु स्त्रियाम् ॥ ११८५ ॥
2.5.1185 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वं (wrong syllable)
वंश्या कुस्तुम्बरीसंज्ञभेषजे स्यात् तु वर्यवाक् ।त्रिषु श्रेष्ठे स्त्रियां वर्या तत्र या स्यात् पतिंवरा ॥ ११८६ ॥
2.5.1186 · p. 144
अनुष्टुप्
वटी रज्जौ त्रयी ना तु न्यग्रोधेऽन्यस्त्ववोचत ।अपूपभेदे द्वे त्वेष वेणुकीवैश्यजे नरे ॥ ११८७ ॥
2.5.1187 · p. 144
अनुष्टुप्
वण्टो दात्रस्य मुष्टौ ना भागे विभजने पुनः ।नृस्त्रियोरथ वण्डो ना पुरुषे मृतभार्यके ॥ ११८८ ॥
2.5.1188 · p. 144
अनुष्टुप्
अनिविष्टे त्रिषु क्ली तु वण्डं निष्कुषितत्वचि ।अग्रशिश्ने सज्जनस्तु शिश्नमात्रेऽथ स त्रिषु ॥ ११८९ ॥
2.5.1189 · p. 144
अनुष्टुप्
दुश्चर्मणीति कोऽप्याहच्छिन्नपुच्छपशावपि ।केचित् त्वल्पेऽथ वक्रो ना विष्णावपि शनैश्चरे ॥ ११९० ॥
2.5.1190 · p. 144
अनुष्टुप्
अङ्गारके च क्लीबं तु गन्धद्रव्यान्तरे विदुः ।तगराख्ये स्त्रियां त्वेषा वक्रा वीणान्तरे त्रि तु ॥ ११९१ ॥
2.5.1191 · p. 144
अनुष्टुप्
कुटिले वक्त्रशब्दस्तु क्लीबे पुंस्यपि चापरे ।अनुष्टुप्छन्दसो वृत्तविशेषेषु तथा मुखे ॥ ११९२ ॥
2.5.1192 · p. 144
अनुष्टुप्
वम्रः पुंस्यृषिभेदे स्याद् धूमवर्मप्रभेदयोः ।उपदीकाजातिमात्रे वम्रो वम्री च नृस्त्रियोः ॥ ११९३ ॥
2.5.1193 · p. 144
अनुष्टुप्
व्ययो वित्तसमुत्सर्गे विगमे पक्षिणो गतौ ।लग्नाच्च द्वादशे राशौ ना त्रिस्तुल्ये त्रपाययोः ॥ ११९४ ॥
2.5.1194 · p. 145
अनुष्टुप्
वर्तिर्दीपदशायां स्त्री दीपे गात्रानुलेपने ।वस्त्रस्य तु दशायां स्यान्नृस्त्रियोरथ नृस्त्रियोः ॥ ११९५ ॥
2.5.1195 · p. 145
अनुष्टुप्
वस्तिर्मूत्राशये नाभेश्चाधोदेशे भिषज्यताम् ।स्यात् स्नेहनोपकरणे कश्चित् त्वाहाम्बरस्य च ॥ ११९६ ॥
2.5.1196 · p. 145
अनुष्टुप्
दशायां ना तु धातौ स्याद्वसा(पा?वा)दादिके तथा ।वक्रिः पर्शुसमाख्येऽस्थ्नि पार्श्वस्य स्त्री पुमान् रथे ॥ ११९७ ॥
2.5.1197 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरयम् ।वह्निस्त्वग्नौ पुमानक्ष्णि द्वे त्वश्वे वहिवाक् तु ना ॥ ११९८ ॥
2.5.1198 · p. 145
अनुष्टुप्
अग्नावुक्ष्णि द्वयोस्त्वश्वे वनिस्त्वग्नौ च सानुनि ।याच्ञायां वनतौ धातौ वनोतौ च पुमानथ ॥ ११९९ ॥
2.5.1199 · p. 145
अनुष्टुप्