कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthanāmamālā

Anekārthanāmamālā Anekārthanāmamālā

129 verses · text only, tagging comes next

कान्ताः

सूर्ये वेधसि वायौ कः कं सुखे मस्तके जले ।अनुष्टुब्यशसोः श्लोको लोकस्तु भुवने जने ॥ १ ॥
1.1 · p. 140
अनुष्टुप्
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ।इन्द्रे घूके कौशिकः स्यात् पृथुकौ चिपिटार्भकौ ॥ २ ॥
1.2 · p. 140
अनुष्टुप्
कटकं कण्ठके सैन्ये नितम्बे पर्वतस्य च ।कण्टकं रोमहर्षे स्यात् सूच्यग्रे क्षुद्रवैरिणि ॥ ३ ॥
1.3 · p. 140
अनुष्टुप्
जैवातृकश्चन्द्रमसि तथा दीर्घायुषि स्मृतः ।किष्कुर्हस्ते वितस्तौ च पङ्कः कर्दमपापयोः ॥ ४ ॥
1.4 · p. 140
अनुष्टुप्