All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
तान्ताः
॥ णान्ताः ॥
क्षत्ता द्वाःस्थे रथाध्यक्षे क्षत्रियायां च शूद्रजे ॥ २८ ॥
12.28 · p. 144
यन्ता हस्तिपके सूते मरुतौ पवनामरौ ।कृतान्तौ यमसिद्धान्तौ मूर्तिः काठिन्यकाययोः ॥ २९ ॥
12.29 · p. 144
अनुष्टुप्
जातिर्गोत्रे च सामान्ये भूतिर्भस्मनि संपदि ।रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ॥ ३० ॥
12.30 · p. 144
अनुष्टुप्
श्रुतिर्वेदे च कर्णे च क्षितिः स्थाने भुवि क्षये ।कान्तिः शोभाभिलाषश्च शान्तिर्भद्रे शमेऽर्हति ॥ ३१ ॥
12.31 · p. 146
अनुष्टुप्
सितो बद्धे ग्रहे वर्णे नतस्तगरनम्रयोः ।वृत्तं पद्ये चरित्रे च संजाते वर्तुले दृढे ॥ ३२ ॥
12.32 · p. 146
अनुष्टुप्
रतिः स्मरस्त्रियां रागे संभोगे च तृतावपि ।प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥ ३३ ॥
12.33 · p. 146
अनुष्टुप्
ग्रहभेदे ध्वजे केतुश्चिह्ने सूर्यद्युतावपि ।यानपात्रे शिशौ पोतः प्रतीतः ख्यातहृष्टयोः ॥ ३४ ॥
12.34 · p. 146
अनुष्टुप्
सूतः पारदसारथ्योर्व्यक्तः स्फुटमनीषिणोः ।गृहे रात्रौ च वसतिर्भूभृच्छैले च राजनि ॥ ३५ ॥
12.35 · p. 146
अनुष्टुप्
ऋतुर्हिमादौ स्त्रीपुष्पे वित्तं द्रव्ये विचारणे ।ख्यातेऽपि सीता विज्ञेया मैथिल्यां हलपद्धतौ ॥ ३६ ॥
12.36 · p. 146
अनुष्टुप्
कलधौतं रूप्यहेम्नोर्धातुर्भ्वादौ रसादिषु ।सुवर्णादौ मृद्भेदेऽपि कान्तो रम्ये धवेऽपि च ॥ ३७ ॥
12.37 · p. 146
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 मृ (wrong syllable)
अमृतं यज्ञशेषे स्यात् पीयूषे शैले घृते ।अयाचिते च मोक्षे चामृता पथ्या गुडुच्यपि ॥ ३८ ॥
12.38 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अव्यक्तं च प्रधानं चाशब्दश्च प्रकृतिर्महान् ।
12.12 · p. 146