All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
धान्ताः
॥ दान्ताः ॥
मधु मद्ये मधु क्षौद्रे मधु पुष्परसेऽपि च ॥ ४६ ॥
15.46 · p. 148
मधुश्चैत्रश्च दैत्यश्च विधुश्चन्द्रे तथाच्युते ।सिद्धिर्निष्पत्तिमुक्त्योः स्यात् सिद्धो निष्पन्नमुक्तयोः ॥ ४७ ॥
15.47 · p. 148
अनुष्टुप्
सिद्धो देवविशेषे च साधुः सज्जनरम्ययोः ।वधूः स्त्रियां पुत्रपत्न्यां विद्वच्चान्द्रिसूरा बुधाः ॥ ४८ ॥
15.48 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)
बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले ।कर्तव्यार्थोपदेशे तु विधिर्दैवे च वेधसि ॥ ४९ ॥
15.49 · p. 148
अनुष्टुप्
श्रद्धास्तिक्येऽभिलाषे च मुग्धः सुन्दरमूढयोः ।स्कन्धः प्रकाण्डे चांसे च विज्ञानादिषु पञ्चसु ॥ ५० ॥
15.50 · p. 148
अनुष्टुप्
समूहे सैन्यभागे च बुद्धः सौम्यविपश्चितोः ।सुधा चूर्णेष्टिकालेपे स्नुह्यां चाप्यमृतेऽपि च ॥ ५१ ॥
15.51 · p. 150
अनुष्टुप्