कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthanāmamālā

Anekārthanāmamālā Anekārthanāmamālā

129 verses · text only, tagging comes next

गान्ताः

॥ खान्ताः ॥

नागः सर्पे गजे शीर्षे अगो वृक्षे च पर्वते ।भागो ज्ञाने रवौ योनौ समग्रैश्वर्यवीर्ययोः ॥ ६ ॥
3.6 · p. 140
अनुष्टुप्
रुपप्रयत्नधर्मेच्छायशोवैराग्यमुक्तिषु ।आशुगौ वायुबाणौ च शरार्कविहगाः खगाः ॥ ७ ॥
3.7 · p. 140
अनुष्टुप्
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ।सारङ्गश्चातके भृङ्गे कुञ्जरे हरिणेऽपि च ॥ ८ ॥
3.8 · p. 140
अनुष्टुप्
भोगः सुखे सर्पकाये फणायां गणिकाभृतौ ।शकटाङ्गे युगः प्रोक्तो युगं युग्मे कृतादिषु ॥ ९ ॥
3.9 · p. 140
अनुष्टुप्
वराङ्गं मस्तके योनौ लिङ्गं स्याच्चिह्नशिश्नयोः ।पुंस्त्रीनपुंसकं लिङ्गं पशवोऽपि मृगाः स्मृताः ॥ १० ॥
3.10 · p. 140
अनुष्टुप्