All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
सान्ताः
॥ षान्ताः ॥
हंसः सितच्छदे सूर्ये जीवे च परमात्मनि ॥ १०१ ॥
28.101 · p. 158
वसुस्त्वग्नौ देवभेदे वसु रत्ने धनेऽपि च ।द्वावुत्तंसावतंसौ च कर्णपूरे च शेखरे ॥ १०२ ॥
28.102 · p. 158
अनुष्टुप्
प्रसूर्माता च वडबा दासो धीवरभृत्ययोः ।रसः सूते विषे वीर्ये वोले रागे जलेऽपि च ॥ १०३ ॥
28.103 · p. 158
अनुष्टुप्
शृङ्गारादौ देहधातौ मधुरादौ द्रवे गुणे ।विभावसू सूर्यवह्नी व्यासो मुनिप्रपञ्चयोः ॥ १०४ ॥
28.104 · p. 158
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 मु (wrong syllable)
ओजो बले तेजसि च च्छन्दः पद्येच्छयोः श्रुतौ ।तपः कृच्छ्रे च धर्मे च महस्तेजसि चोत्सवे ॥ १०५ ॥
28.105 · p. 158
अनुष्टुप्
आगोऽप्रधाने पापे च वयो बाल्यादिपक्षिणोः ।तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ॥ १०६ ॥
28.106 · p. 158
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
श्रेयो भद्रे च धर्मे च प्रशस्तेऽपि प्रकीर्तितम् ।रहो गुह्ये रते तत्त्वे वर्चो गूथे च तेजसि ॥ १०७ ॥
28.107 · p. 158
अनुष्टुप्
रजः स्त्रीपुष्परेण्वोश्च पयः क्षीरं पयोऽम्बु च ।विहायः पक्षिनभसोः सुमना देवपुष्पयोः ॥ १०८ ॥
28.108 · p. 158
अनुष्टुप्