All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
वान्ताः
॥ लान्ताः ॥
ध्रुवस्त्वौत्तानपादिः स्याच्छाश्वते निश्चिते ध्रुवम् ।स्व आत्मनि तथात्मीये ज्ञातौ स्वं च धनेऽपि च ॥ ८८ ॥
25.88 · p. 156
अनुष्टुप्
शिवं भद्रं शिवः शम्भुः शिवा गौरी शृगाल्यपि ।नीवी स्त्रीकटिकाग्रन्थौ वणिङ्मूलधनेऽपि च ॥ ८९ ॥
25.89 · p. 156
अनुष्टुप्
राज्ञि मेघे सुरे देवो नवो नव्ये स्तुतावपि ।भवः शिवे च संसारे भूतिसत्ताप्तिजन्मसु ॥ ९० ॥
25.90 · p. 156
अनुष्टुप्
सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः ।पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ९१ ॥
25.91 · p. 156
अनुष्टुप्
भावः स्वभावाभिप्रायसत्ताशृङ्गारचेष्टिते ।दावो वने वनाग्नौ च प्रसवो जन्मपुष्पयोः ॥ ९२ ॥
25.92 · p. 156
अनुष्टुप्
पृथ्वी भूमौ पृथौ हिङ्गुपत्त्रिकाकृष्णाजीरयोः ।
25.6 · p. 156