All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
शान्ताः
॥ वान्ताः ॥
कोशः खड्गपिधाने स्यात् पद्मगर्भे धनौकसि ॥ ९३ ॥
26.93 · p. 156
खगाण्डे शपथे दिव्ये कोशः स्याद्योनिशिम्बयोः ।विट् तु वैश्यो मनुष्यश्च राशिर्मेषादिपुञ्जयोः ॥ ९४ ॥
26.94 · p. 156
अनुष्टुप्
कीनाशः कृपणे काले राक्षसे कर्षकेऽपि च ।वंशोऽन्वये मस्करे च गात्रपृष्ठे कदम्बके ॥ ९५ ॥
26.95 · p. 156
अनुष्टुप्
ईशः स्वामिनि रुद्रे च वशा नारी च हस्तिनि ।आशा ककुभि वाञ्छायां स्पशस् ------ ॥ ९६ ॥
26.96 · p. 156
अनुष्टुप्metre not read in every line
प्रकाशोऽतिप्रसिद्धे स्याद्दशा वर्तिव्यवस्थयोः ।
26.5 · p. 156