All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
लान्ताः
॥ रान्ताः ॥
मस्तिके मुकुटे मौलिराजौ तुर्ययुगे कलिः ।शीलं स्वभावे सद्वृत्ते बलं सैन्ये पराक्रमे ॥ ८३ ॥
24.83 · p. 154
अनुष्टुप्
कृतान्तानेहसोः कालो बलिः करोपहारयोः ।व्यालो दुष्टगजे सर्पे शूलं रोगे तथायुधे ॥ ८४ ॥
24.84 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ।बालो मूर्खेऽर्भके केशे कीलालं रुधिरे जले ॥ ८५ ॥
24.85 · p. 154
अनुष्टुप्
कमलं जले च पद्मे च कुरङ्गे कमलः पुनः ।जालं समूह आनाये गवाक्षे कोरकेऽपि च ॥ ८६ ॥
24.86 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अब्ध्यम्बुवृद्धौ वेला स्यात् कालमर्यादयोरपि ।आली सख्यां च पङ्क्तौ च पीलुर्वृक्षे च हस्तिनि ॥ ८७ ॥
24.87 · p. 156
अनुष्टुप्