All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
अव्ययानि
॥ हान्ताः ॥
अथाव्ययानि
आङीषदर्थेऽभिविधौ मर्यादायां क्रियायुजि ।आ प्रगृह्यः स्मृतौ वाक्ये आस्तु संतापकोपयोः ॥ ११० ॥
30.110 · p. 160
अनुष्टुप्
खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ।हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ १११ ॥
30.111 · p. 160
अनुष्टुप्
इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ।अपि संभावनागर्हाशङ्काप्रश्नसमुच्चये ॥ ११२ ॥
30.112 · p. 160
अनुष्टुप्
यावत् तावच्च साकल्येऽवधौ मानेऽवधारणे ।अथो अथ द्वौ माङ्गल्येऽनन्तरारम्भप्रश्नेषु ॥ ११३ ॥
30.113 · p. 160
अनुष्टुप्metre not read in every line
अलं भूषणपर्याप्तिसमर्थेषु निवारणे ।किलेति निश्चयालीकवार्त्तासंभावनासु च ॥ ११४ ॥
30.114 · p. 160
अनुष्टुप्
निषेधहेत्वलंकारजिज्ञासानुनये खलु ।नाम प्रकाशसंभाव्यकोमलामन्त्रणेषु च ॥ ११५ ॥
30.115 · p. 160
अनुष्टुप्
नु पृच्छायां वितर्के च पश्चात्सादृश्ययोरनु ।ननु प्रश्ने वितर्के चामन्त्रणेऽनुनयेऽपि च ॥ ११६ ॥
30.116 · p. 160
अनुष्टुप्
वोपमायां विकल्पे च निर्निश्चयनिषेधयोः ।ईषदर्थे कुत्सिते कु धिग्निर्भर्त्सननिन्दयोः ॥ ११७ ॥
30.117 · p. 160
अनुष्टुप्
तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ।नञभावे निषेधे च तद्विरुद्धतदन्ययोः ॥ ११८ ॥
30.118 · p. 160
अनुष्टुप्
अहहेत्यद्भुते खेदे हि हेतौ निश्चयेऽपि च ।अङ्ग संबोधने हर्षे प्रकर्षेऽतिक्रमेऽप्यति ॥ ११९ ॥
30.119 · p. 160
अनुष्टुप्
नागपुरीय-तपोगण-राजाः श्री-चन्द्रकीर्ति-सूरि-वराः ।तच्छिष्य-हर्षकीर्ति-सुरिरनेकार्थशतमाह ॥ १२० ॥
30.120 · p. 160
metre not recognised