All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
णान्ताः
॥ डान्ताः ॥
मार्गणो याचके बाणे गणो गच्छसमूहयोः ।वर्णो द्विजादौ विस्तारे स्तुतौ वर्णं तु चाक्षरे ॥ २१ ॥
11.21 · p. 144
अनुष्टुप्
गुणाः सत्त्वादयो ज्ञेया गुणा रूपादयस्तथा ।धनुर्ज्यायां गुणो ज्ञेयः प्रत्यङ्गरज्जुतन्तुषु ॥ २२ ॥
11.22 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
करणं साधकतमं बवादि गात्रमिन्द्रियम् ।प्रमाणं सत्यमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ २३ ॥
11.23 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
शरणं गृहरक्षित्रोर्वारुणी पश्चिमा सुरा ।उत्सवे सूक्ष्मकाले च प्रस्तावे च क्षणः स्मृतः ॥ २४ ॥
11.24 · p. 144
अनुष्टुप्
अरुणो रक्तवर्णे स्याद्भास्करे सारथावपि ।हरिणो मृगे च धवले द्यूते मूल्ये धने पुनः ॥ २५ ॥
11.25 · p. 144
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पशुशृङ्गे हस्तिदन्ते विषाणं परिकीर्तितम् ।तृष्णा स्पृहा पिपासा च घृणा दयाजुगुप्सयोः ॥ २६ ॥
11.26 · p. 144
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 द (wrong syllable)
जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽपि च कीर्तितः ।केशबन्धे नदीवेगे वेणी स्याद्धरणेऽपि च ॥ २७ ॥
11.27 · p. 144
अनुष्टुप्
तीक्ष्णं तिक्ते विषे लोहे मणिर्मेढ्राग्ररत्नयोः ।
11.8 · p. 144