All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
यान्ताः
॥ मान्ताः ॥
क्षयो गृहे विनाशे च भ्रातृव्यौ भ्रातृजद्विषौ ।अर्यः स्वामिनि वैश्ये च मन्युः क्रोधे क्रतावपि ॥ ६४ ॥
22.64 · p. 152
अनुष्टुप्
प्रत्ययो ज्ञानविश्वासहेतुसनादिकेष्वपि ।धिष्ण्यं गृहे च नक्षत्रे तार्क्ष्यौ गरुडवाजिनौ ॥ ६५ ॥
22.65 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
चैत्यं जिनौकस्तद्बिम्बश्रेष्ठवृक्षवनेषु च ।समयः कालसिद्धान्तसंकेतेषु बुधैः स्मृतः ॥ ६६ ॥
22.66 · p. 152
अनुष्टुप्
विषया इन्द्रियार्थेषु देशे ग्रास्रे च गोचरे ।छाया रविस्त्री शोभा च प्रतिबिम्बमनातपः ॥ ६७ ॥
22.67 · p. 152
अनुष्टुप्
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ।रहस्योपस्थयोर्गुह्यं प्रणयः स्नेहयाच्ञयोः ॥ ६८ ॥
22.68 · p. 152
अनुष्टुप्
द्रव्यं गुणाश्रये वित्ते पर्जन्यः शक्रमेघयोः ।वृषाकपायी श्रीगौर्योः कल्यौ सज्जनिरामयौ ॥ ६९ ॥
22.69 · p. 152
अनुष्टुप्