All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
रान्ताः
॥ यान्ताः ॥
पयोधरः कुचे मेघे द्वापरः संशये युगे ।पारः परतटे प्रान्ते भूरिर्बहुसुवर्णयोः ॥ ७० ॥
23.70 · p. 152
अनुष्टुप्
करो हस्तांबुबलिषु करीरः कलसे तरौ ।अम्बरं व्योम वस्त्रं च क्षीरं दुग्धे जलेऽपि च ॥ ७१ ॥
23.71 · p. 152
अनुष्टुप्
पुष्करं हस्तिशुण्डाग्रे पद्मे खड्गफले जले ।वाद्यभाण्डमुखे व्योम्नि तीर्थौषधिविशेषयोः ॥ ७२ ॥
23.72 · p. 152
अनुष्टुप्
सूर्ये चन्द्रे यमे विष्णौ वासवे दर्दुरे हये ।मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः ॥ ७३ ॥
23.73 · p. 152
अनुष्टुप्
सारः श्रेष्ठे बले वित्ते स्वर्णे द्रव्ये च राः स्मृतः ।प्रतिज्ञायां च संग्रामे संगरः परिकीर्तितः ॥ ७४ ॥
23.74 · p. 152
अनुष्टुप्
मध्ये छिद्रे विशेषे च व्यवधाने बहिर्युजि ।अन्तरीये निवसने षट्सु त्वर्थेषु चान्तरम् ॥ ७५ ॥
23.75 · p. 154
अनुष्टुप्
विहारो देशगमने क्रीडायां जिनसद्मनि ।पाटीरश्चन्दने वङ्गे कर्पूरेऽगुरुणि स्मृतः ॥ ७७ ॥
23.77 · p. 154
अनुष्टुप्
धात्री तु स्यादुपमाता क्षितिरामलकीतरुः ।आलेख्याश्चर्ययोश्चित्रं क्षेत्रं पत्नीशरीरयोः ॥ ७८ ॥
23.78 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
योग्यभाजनयोः पात्रं पत्त्रं वाहनवाजयोः ।मित्रं सखा रविर्मित्रः कलत्रं श्रोणिभार्ययोः ॥ ७९ ॥
23.79 · p. 154
अनुष्टुप्
कर्पूरस्वर्णयोश्चन्द्रः सूत्रं तन्तुव्यवस्थयोः ।तन्त्रं स्वराष्ट्रचिन्तायां सिद्धान्ते च परिच्छदे ॥ ८० ॥
23.80 · p. 154
अनुष्टुप्
सत्त्रं आच्छादने यज्ञे सदादाने धनेऽपि च ।शुक्रं रेतसि शुक्रस्तु ज्येष्ठभार्गववह्निषु ॥ ८१ ॥
23.81 · p. 154
अनुष्टुप्
नरेन्द्रो विषवैद्येऽपि नरेन्द्रः पार्थिवेऽपि च ।श्रीर्वेषरचना शोभा लक्ष्मीः श्रीविष्णुपत्न्यपि ॥ ८२ ॥
23.82 · p. 154
अनुष्टुप्