कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthanāmamālā

Anekārthanāmamālā Anekārthanāmamālā

129 verses · text only, tagging comes next

षान्ताः

॥ शान्ताः ॥

शेषोऽनन्ते वसिष्ठे च शेषा निर्माल्यवस्तुषु ॥ ९७ ॥
27.97 · p. 156
कोषस्तु कोशवज्ज्ञेयो विषं हालाहले जले ।अक्षो रथस्यावयवे पाशके च विभीतके ॥ ९८ ॥
27.98 · p. 158
अनुष्टुप्
सौवर्चले हृषीके च हेम्नोऽक्षे राक्षसेऽपि च ।कक्षा साम्ये च दोर्मूलेऽधोवासःपश्चिमाञ्चले ॥ ९९ ॥
27.99 · p. 158
अनुष्टुप्
तृणे वने हस्तिरज्जौ कक्षो द्वारप्रकोष्ठके ।पक्षः सहाये मासार्धे वर्गे देहस्य पार्श्वके ॥ १०० ॥
27.100 · p. 158
अनुष्टुप्
लक्षं व्याजे च वेध्ये च रक्षा रक्षणभस्मनोः ।
27.5 · p. 158