कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthanāmamālā

Anekārthanāmamālā Anekārthanāmamālā

129 verses · text only, tagging comes next

दान्ताः

॥ थान्ताः ॥

छन्दोऽभिप्रायवशयोरामोदो गन्धहर्षयोः ॥ ४१ ॥
14.41 · p. 148
छदः पर्णे गरुति स्यादब्दो वत्सरमेघयोः ।ककुच्छ्रेष्ठे वृषस्कन्धे राजचिह्ने महीपतौ ॥ ४२ ॥
14.42 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
मन्दो मूर्खे शनौ रोगिण्यलसे भागवर्जिते ।पदं स्थाने विभक्त्यन्ते चरणन्यासपादयोः ॥ ४३ ॥
14.43 · p. 148
अनुष्टुप्
पादो मूले चतुर्थांशे चांह्रौ पर्यन्तपर्वते ।भेदो विदारणे द्वैध उपजापविशेषयोः ॥ ४४ ॥
14.44 · p. 148
अनुष्टुप्
मदो मद्येऽप्यहंकारे द्वंद्वं समरयुग्मयो ।उपनिषच्छुद्धधर्मे वेदतत्त्वे रहस्यपि ॥ ४५ ॥
14.45 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
माकन्दः सहकारे स्यान्माकन्द्यामलकीफले ।
14.6 · p. 148