All kośas › Anekārthanāmamālā
Anekārthanāmamālā Anekārthanāmamālā
129 verses · text only, tagging comes next
नान्ताः
॥ धान्ताः ॥
वनं जले कानने स्याद्भुवनं विष्टपे जले ।इनः स्वामिनि सूर्ये च जिनोऽर्हद्बुद्धविष्णुषु ॥ ५२ ॥
16.52 · p. 150
अनुष्टुप्
घने मेघे दृढे सान्द्रे वाद्यभेदे च मुद्गरे ।दानं गजमदे त्यागे धाम तेजसि मन्दिरे ॥ ५३ ॥
16.53 · p. 150
अनुष्टुप्
जातिश्रेष्ठे मणौ रत्नं राजा चन्द्रे महीपतौ ।वेदो ज्ञानं तपो ब्रह्म ब्रह्मा विप्रे च वेधसि ॥ ५४ ॥
16.54 · p. 150
अनुष्टुप्
चित्रभानू सूर्यवह्नी भानुः सूर्यमयूखयोः ।शिखी वह्नौ मयूरे च पत्त्रिणौ शरपक्षिणौ ॥ ५५ ॥
16.55 · p. 150
अनुष्टुप्
आराधनं साधने स्यात् सेवायां तोषणेऽपि च ।प्रधानं प्रकृतौ श्रेष्ठे वितानं कदके क्रतौ ॥ ५६ ॥
16.56 · p. 150
अनुष्टुप्
ललाम तिलके रम्ये प्रधाने शीर्षदामनि ।वर्धनं छेदने वृद्धौ रसना काञ्चीजिह्वयोः ॥ ५७ ॥
16.57 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ञ्ची (wrong syllable)