अवहेला
avahelāस्त्री · fem.In 7 kośas: 6 synonym verses, 1 as a meaning of another word.
रीढावज्ञावहेलान्यसूर्क्षणं चाप्यनादरे ॥ १४७९ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्तोन्नतिरथावज्ञा हेला चैवावमानना ।अवहेला परीभावोऽवमानश्च पराभवः ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
अवहेलाप्यवज्ञा स्याद्रीढाथोन्मूलिते पुनः ।आवर्हितोद्धृतोपाटितानि त्रिषु मतान्यथ ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
अनादरः परिभवो रीढावज्ञा तिरस्क्रिया ।अवहेलावगणना तक्षणं चापमानता ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवहेला च हेला स्यादवहेलनहेलने ।अनादरस्त्वभिभवः सूक्ष्मेणञ्चापि सूक्ष्मणम् ॥
अनुष्टुप्
genderस्त्रीfem.
व्यवधाऽन्तर्द्धिरन्तर्धा, नाऽऽदृते मत-मानिते ।अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवहेला as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप क्षेपकूष्मा तु वाताभावे च शल्ये च क्षेपवाक् पुनः । क्षिप्तिनिन्दावहेलेषु केतुस्तु ध्वजचिह्नयोः ॥ ३५ ॥ Nānārthārṇavasaṃkṣepa 2.2.35