All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भुवःस्कन्धः · नाट्यप्रकाण्डः (2/2)
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
2.5.121 · p. 430
अनुष्टुप्
अस्त्री दम्भः कल्ककूर्चौ प्रमादोऽनवधानता ।कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ १२२ ॥
2.5.122 · p. 430
अनुष्टुप्
बालाकुचोत्सेधदत्तनखे पुंसि वराटकः ।स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ १२३ ॥
2.5.123 · p. 430
अनुष्टुप्
हेला लीलेत्यमी भावाः क्रियाः शृङ्गारभावजाः ।द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ १२४ ॥
2.5.124 · p. 430
अनुष्टुप्
व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका ।पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥
2.5.125 · p. 431
अनुष्टुप्
क्रन्दितं रुदितं क्रुष्टं स्वास्थ्यं क्लीबे धृतिः स्त्रियाम् ।सन्तोषः पुंसि धैर्यं षण् स्यातां रिङ्गणरिङ्खणे ॥ १२६ ॥
2.5.126 · p. 431
अनुष्टुप्
स्खलनं विप्रलम्भस्तु विसंवाद उभौ समौ ।निद्रा स्त्रियां षण् शयनं संवेशः संलयः समौ ॥ १२७ ॥
2.5.127 · p. 431
अनुष्टुप्
स्वापोऽपि सुप्तं क्लीबेऽपि सुस्वापः सुखसुप्तिका ।इन्द्रियाणां तु सम्मोहे तन्द्रा नान्दीमुखीत्यपि ॥ १२८ ॥
2.5.128 · p. 431
अनुष्टुप्
प्रमीला तन्द्रिका तन्द्री तन्द्रिश्चापि प्रमीलनम् ।अथ स्याद्दहरस्थस्य मनसः स्मरणभ्रमः ॥ १२९ ॥
2.5.129 · p. 431
अनुष्टुप्
पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता ।अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥
2.5.130 · p. 431
अनुष्टुप्
चित्तोन्नतिरथावज्ञा हेला चैवावमानना ।अवहेला परीभावोऽवमानश्च पराभवः ॥ १३१ ॥
2.5.131 · p. 431
अनुष्टुप्
तिरस्क्रिया तिरस्कारो न्यक्कारो निकृतिः स्त्रियाम् ।निकारः सूक्षणं क्षेपो रीढा सूर्क्षणसूर्क्षणे ॥ १३३ ॥
2.5.133 · p. 431
अनुष्टुप्
शालिर्द्वयोरभिभवोऽभिभूतिश्च शला स्त्रियाम् ।अवज्ञानं च नीकारो व्रीडा व्रीडोऽप्यपत्रपा ॥ १३४ ॥
2.5.134 · p. 432
अनुष्टुप्
मन्दाक्षमपि मन्दाक्ष्यं लज्या लज्जा त्रपाह्रियौ ।व्रीडनं चाप्यथासूयेर्ष्यान्वीर्या क्षान्तिरित्यपि ॥ १३५ ॥
2.5.135 · p. 432
अनुष्टुप्
स च विप्रतियारोऽथ चरितं शीलमस्त्रियाम् ।चारित्रं शुभ्रचरिते स्नेहस्तु प्रणयः पुमान् ॥ १३६ ॥
2.5.136 · p. 432
अनुष्टुप्
प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः ।पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥
2.5.137 · p. 432
अनुष्टुप्
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
2.5.138 · p. 432
अनुष्टुप्
अत्यर्थं लालसः सोऽस्त्री पुंस्याधिस्तु मनोव्यथा ।आधी स्यादवहित्था तु स्यादाकारस्य गोपनम् ॥ १३९ ॥
2.5.139 · p. 432
अनुष्टुप्
अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् ।निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥ १४० ॥
2.5.140 · p. 432
अनुष्टुप्
कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः ।महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥ १४१ ॥
2.5.141 · p. 432
अनुष्टुप्
मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा ।प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥
2.5.142 · p. 432
अनुष्टुप्
काव्या संविज्ज्ञप्तिरात्मा पुंसि धीर्धारणावती ।मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥ १४३ ॥
2.5.143 · p. 433
अनुष्टुप्
अतीतानुस्मृतिर्मेधा प्रज्ञा कालत्रयस्मृतिः ।प्रतिभा नूतनोल्लेखवती पण्डा तु शास्त्रगा ॥ १४४ ॥
2.5.144 · p. 433
अनुष्टुप्
शिल्पादिगा तु विज्ञानं क्लीबे ज्ञानं तु मोक्षगा ।शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ १४५ ॥
2.5.145 · p. 433
अनुष्टुप्
ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।चित्ताभोगस्तु मनसिकारः स च मनस्करः ॥ १४६ ॥
2.5.146 · p. 433
अनुष्टुप्
मानसं कर्मसकल्पश्चर्चा संख्या विचारणा ।वितर्कोऽपि द्वयोरूहः कल्पोऽध्याहरणं च षण् ॥ १४७ ॥
2.5.147 · p. 433
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
अध्यूहनं विचारश्चाध्याहारश्चापि निश्चयः ।चर्चा विचारणा संख्या गुञ्जा स्यादथ संशयः ॥ १४८ ॥
2.5.148 · p. 433
अनुष्टुप्
स्यात्स्त्रियां विचिकित्साऽपि सन्देहद्वापरौ समौ ।राद्धसिद्धकृतेभ्योऽन्तः समौ निश्चयनिर्णयौ ॥ १४९ ॥
2.5.149 · p. 433
अनुष्टुप्
आगमः समयस्तुल्यावाप्तोक्तिरपि च स्त्रियाम् ।कृतान्ता पुंस्यथ गिरा चोद्यगीर्भणितिः स्त्रियाम् ॥ १५० ॥
2.5.150 · p. 433
अनुष्टुप्
पूर्वपक्षो भ्रमो मिथ्यामतिर्भ्रान्तिरपि स्त्रियाम् ।मिथ्यादृष्टिस्तु नास्तिक्यं व्यापादो द्रोहचिन्तनम् ॥ १५१ ॥
2.5.151 · p. 433
अनुष्टुप्
अथ मोहः पुनः क्लीबे स्यादज्ञानमपि स्त्रियाम् ।अहंमतिरविद्याऽथ नियमाश्रवसंश्रवाः ॥ १५२ ॥
2.5.152 · p. 434
अनुष्टुप्
संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः ।अङ्गीकारोऽभ्युपगमोऽप्यथ मोक्षोऽपुनर्भवः ॥ १५३ ॥
2.5.153 · p. 434
अनुष्टुप्
महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि ।सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥
2.5.154 · p. 434
अनुष्टुप्
निर्वाणमपि कैवल्यमक्षरं च महासुखम् ।अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥
2.5.155 · p. 434
अनुष्टुप्
शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् ।विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥ १५६ ॥
2.5.156 · p. 434
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्श (wrong syllable)
हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् ।खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥
2.5.157 · p. 434
अनुष्टुप्
पायूपस्थं हस्तपादं वाक् चैव दशमी पुनः ।ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पाय्वादिकानि च ॥ १५८ ॥
2.5.158 · p. 434
अनुष्टुप्
विसर्गानन्दग्रहणगतिवाक्यार्थकानि च ।मन एकादशं बुद्धिरहंकारस्त्रयोदशः ॥ १५९ ॥
2.5.159 · p. 434
अनुष्टुप्
शुक्लः शुभ्रः शुचिः श्वेतो विशदः शितिपाण्डुरौ ।अमलो धवलः शुक्रो बलक्षो रजतः पुनः ॥ १६० ॥
2.5.160 · p. 434
अनुष्टुप्
वदात उज्ज्वलः श्येतः श्येनः स्याच्छुभ्रमव्ययम् ।अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥ १६१ ॥
2.5.161 · p. 435
अनुष्टुप्
हरिणः पाण्डुरः पाण्डुः पाण्डरश्चाथ धूसरः ।ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपि च ॥ १६२ ॥
2.5.162 · p. 435
अनुष्टुप्
शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके ।कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥ १६३ ॥
2.5.163 · p. 435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
गौरो हरिद्रासदृशः सितरञ्जन इत्यपि ।सितरूपस्तालकाभः पलाशो हरितो हरित् ॥ १६४ ॥
2.5.164 · p. 435
अनुष्टुप्
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।मञ्जिष्ठो बालसन्ध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥ १६५ ॥
2.5.165 · p. 435
अनुष्टुप्
श्यावस्तु कपिशश्चाथ श्वेतरक्तस्तु पाटलः ।धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥ १६६ ॥
2.5.166 · p. 435
अनुष्टुप्
बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः ।कडारः कपिशः पिङ्गः कद्रुश्चित्रस्तु कर्बुरः ॥ १६७ ॥
2.5.167 · p. 435
अनुष्टुप्
एतकल्माषशबलकिर्मीराश्चित्रलः पुनः ।गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १६८ ॥
2.5.168 · p. 435
अनुष्टुप्
कल्पद्रौ केशवकृते भुवः स्कन्धो द्वितीयकः ।सत्रा नाट्यप्रकाण्डेन सफलः सिद्धिमागतः ॥ १६९ ॥
2.5.169 · p. 435
अनुष्टुप्