All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
षष्ठः काण्डः (1/2)
लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि ।जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः ॥ १ ॥
6.1 · p. 249
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 4 ग (syllables merged)
जनुः सान्तं षण् जननम्, जीविते जीवस्त्रिष्वचि ।जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि ॥ २ ॥
6.2 · p. 249
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable); pāda 4, syllable 3 म्नि (wrong syllable)
आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते ।हृद्धृदयं चित्तं चेतो मनो मानसमित्यपि ॥ ३ ॥
6.3 · p. 249
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 षण् (wrong syllable); pāda 3, syllable 2 द्धृ (wrong syllable)
स्वान्तमास्वनिताऽऽस्वान्ते, निर्वृत्तौ सुख-सौख्यके ।सर्म-सर्मे नान्तादन्ते दन्ततालव्याद्ये मते ॥ ४ ॥
6.4 · p. 249
अनुष्टुप्metre not read in every line
शान्तं तालव्यदन्त्याद्यं भद्रं भन्द्रमसौख्यके ।तृप्तं दृप्रं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥
6.5 · p. 249
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
अमानस्यमामनस्यम्, चर्चा चर्चो विचारणा ।स्वभावे निसर्ग-सर्गौ पश्चात्तापोऽनुतापवत् ॥ ६ ॥
6.6 · p. 249
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable); pāda 3, syllable 4 नि (wrong syllable)
विप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः ।वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥
6.7 · p. 250
metre not recognised
भागो भाग्यं भागधेयं, शुभकर्मण्यपोऽप्तसा ।सान्ते षण्ढे, पापं पाप्मा किल्बिषं कलुषं समे ॥ ८ ॥
6.8 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा ।चतुरश्चतुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥
6.9 · p. 250
metre not recognised
चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् ।शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥
6.10 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शः (wrong syllable)
ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि ।खरे जरठो जठरः करटः कर्कटोऽपि च ॥ ११ ॥
6.11 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
कक्खडः खक्खटस्तद्वत्, कोमले मृदुलो मृदुः ।सोमालः सुकुमारश्च, मधूलो मधुरान्विता ॥ १२ ॥
6.12 · p. 250
अनुष्टुप्
गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा ।तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥ १३ ॥
6.13 · p. 250
अनुष्टुप्
त्रयोऽश्मश्रुनरे शृङ्गहीनपशावपि स्मृतः ।आमोदिनि मुखशुभाद् वासनः, धवले सितः ॥ १४ ॥
6.14 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 3, syllable 4 नि (wrong syllable)
शितिः श्वेतः श्येतः श्येनः शुभ्रिः शुभ्रश्च पाण्डुरः ।पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यमू ॥ १५ ॥
6.15 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्ये (wrong syllable); pāda 3, syllable 2 ण्डु (wrong syllable)
शुक्रः शुक्लः, कपोताभे कापोतः स्यात्कपोतवत् ।कपोटोऽप्यथ हारिद्रे कथितौ पीत-पीतकौ ॥ १६ ॥
6.16 · p. 250
अनुष्टुप्
पीतनीले तु पालाशः पलाशो हरितो हरिः ।लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥
6.17 · p. 250
अनुष्टुप्
पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ ।श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥ १८ ॥
6.18 · p. 250
metre not recognised
धूम्रोऽथ कर्बुरश्चित्रः चित्रलोऽपि कल्माषवत् ।कल्मासश्च, भवेत् शब्दो निस्वानो निःस्वनः स्वनः ॥ १९ ॥
6.19 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः ।क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥
6.20 · p. 251
अनुष्टुप्
निनादो निनदो नाद आरावो राव आरवः ।रवो विरावः संरावः, क्ष्वेडा क्ष्वेडित-क्ष्वेलिते ॥ २१ ॥
6.21 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ ।सिञ्जाश्वशब्दे हेषा स्याद् ह्रेषा, गर्जस्तु गर्ज्जया ॥ २२ ॥
6.22 · p. 251
अनुष्टुप्
हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवे ।मेघशब्दे गर्जितं स्यात् गर्जिवन्ना, खरारवे ॥ २३ ॥
6.23 · p. 251
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
रेषण-रेषे, तन्त्र्यास्तु प्रक्वाणः-प्रक्वणो रवे ।गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥
6.24 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ष (wrong syllable)
काकली काकलिर्वृन्दे कदम्बं च कदम्बकम् ।समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥
6.25 · p. 251
अनुष्टुप्
चक्रवालं चक्रवाडं चक्रं च चय-संचयौ ।शण्ड-षण्डौ केदाराणां गणे कैदारकं मतम् ॥ २६ ॥
6.26 · p. 251
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 के (wrong syllable)
कैदारिकं कैदार्यं च, केशानां कैश्य-कैशिके ।अश्वीयमाश्वमश्वानाम्, वातूलो वात्यया सह ॥ २७ ॥
6.27 · p. 251
अनुष्टुप्
वातानां, खलानां खल्या खलिनी, रथकट्यया ।रथ्या रथानां, यौवतं यौवनं युवतीगणे ॥ २८ ॥
6.28 · p. 251
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable); pāda 3, syllable 6 यौ (wrong syllable)
वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् ।स्यात् पिटक्या पिटाक्या च हल्या हालं हलोत्करौ ॥ २९ ॥
6.29 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्मि (wrong syllable)
पङ्कौ वीथी वीथिरालिरावलिरावली मता ।राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता ॥ ३० ॥
6.30 · p. 251
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
श्रेणिः श्रीणी च युग्मे तु युगवद्युगलं यमम् ।यमलं यामलं द्वन्द्वं दन्द्वं द्वैतं द्विती द्वयम् ॥ ३१ ॥
6.31 · p. 252
अनुष्टुप्
द्वितयं, प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु ।बहुलं बहु बहूलम्, लेशे त्रुटि-तुटी समौ ॥ ३२ ॥
6.32 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब (wrong syllable)
अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गकौ ।उदग्रमनुदग्रं च, खर्वे न्यग्नीचवद् ,गुरौ ॥ ३३ ॥
6.33 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्पी (wrong syllable)
पृथुलं पृथु विपुलं पुलं वद्रं च वड्रवत् ।वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥
6.34 · p. 252
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पृ (wrong syllable)
उच्छ्रायश्च, प्रपञ्चे तु विस्तारो विस्तरोऽपि च ।शब्दे विस्तर एवैकः, समस्ते निखिला-ऽखिले ॥ ३५ ॥
6.35 · p. 252
अनुष्टुप्
समं सिमं च निःशेषाऽ-शेषे सकल-शल्कके ।अन्यूनाऽनूने, अपूर्णे उनमूनम्, समार्द्धके ॥ ३६ ॥
6.36 · p. 252
अनुष्टुप्
शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके ।अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥ ३७ ॥
6.37 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्लं (wrong syllable)
षष्ठः षाष्ठः, मानभागे षष्ठः षाष्ठश्च षष्ठकः ।म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा ॥ ३८ ॥
6.38 · p. 252
अनुष्टुप्
कष्मलं, मेध्ये पावनं पवित्रं च पविस्तथा ।पूतं च प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥ ३९ ॥
6.39 · p. 252
metre not recognised
प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् ।वरं वरेण्यं प्रवरमग्र्यमग्रीयमग्रियम् ॥ ४० ॥
6.40 · p. 252
अनुष्टुप्
अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽर्ध्यवत् ।परं परार्ध्यं ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् ॥ ४१ ॥
6.41 · p. 252
अनुष्टुप्metre not read in every line
सत्तमे श्रेयसा श्रेष्ठं स्यात् टवर्गद्वितीययुक् ।उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥
6.42 · p. 252
अनुष्टुप्
निकृष्टे त्वपकृष्टं स्यादधमं चाऽवमं समे ।याप्यं याव्यं रेप-रेफौ रेपो रेफश्च सान्तिमे ॥ ४३ ॥
6.43 · p. 253
अनुष्टुप्
अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यपि ।दर्शनाद्दृगतर्पेऽर्थे, शोभने मञ्जु-मञ्जुलौ ॥ ४४ ॥
6.44 · p. 253
अनुष्टुप्
रम्यं रमणीयं सौम्यं सोमं बन्धुर-बन्धुरे ।नम्रेऽपि कमनीयं स्यात् काम्यं कम्रं मनोरमम् ॥ ४५ ॥
6.45 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णी (wrong syllable)
रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके ।शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥ ४६ ॥
6.46 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
नव्यवन्नूतनं नूत्नं, जीर्णं जरति जर्णवत् ।प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥ ४७ ॥
6.47 · p. 253
अनुष्टुप्
प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् ।परुत्तनं परुन्त्तमं परुत्नं च परारिजे ॥ ४८ ॥
6.48 · p. 253
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 3, syllable 7 न्त्त (wrong syllable)
परात्नं परारिन्तनं परारितनमित्यपि ।पार्श्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् ॥ ४९ ॥
6.49 · p. 253
अनुष्टुप्metre not read in every line
सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् ।अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥
6.50 · p. 253
अनुष्टुप्metre not read in every line
सनातनं सदातनं शाश्वतिकं च शाश्वतम् ।अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च, जङ्गमे ॥ ५१ ॥
6.51 · p. 253
अनुष्टुप्metre not read in every line
चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे ।परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥ ५२ ॥
6.52 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
चलं चपलं चटुलं कमनं कम्प्रमप्यथ ।अधोमुखेऽवनतं स्यादानतं, कुटिले पुनः ॥ ५३ ॥
6.53 · p. 253
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
वक्रं वङ्कं च वङ्किश्चानुगे चान्वगन्वक्षवत् ।असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥ ५४ ॥
6.54 · p. 253
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 ग (wrong syllable); pāda 3, syllable 5 चै (wrong syllable)
एकात्सर्गागा-ऽयन-ताना-ऽग्राण्ययनगतं तथा ।एकाग्रं, पूर्वे त्वाद्या-ऽऽदी आदिमं प्रग्रमग्रवत् ॥ ५५ ॥
6.55 · p. 254
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ण्यय (syllable split); pāda 3, syllable 5 र्वे (wrong syllable)
चरमेऽन्त्यमन्तिमा-ऽन्तावन्तमं पश्चिमान्वितम् ।अपश्चिमं स्वरूपे नञ् पाश्चात्यं पश्च-पश्चिमात् ॥ ५६ ॥
6.56 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्त्य (wrong syllable)
अर्द्धा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचि च ।पृषोदरादित्वाद्दिवो द्युश्चाऽऽदेशः, यदुच्यते ॥ ५७ ॥
6.57 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त्वा (wrong syllable)
दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घे पुनः परे ।उकारोकारयोरुच्च पश्चातोऽर्धादिके तलुक् ॥ ५८ ॥
6.58 · p. 254
अनुष्टुप्
मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा ।मध्यन्दिनं माध्यन्दिनं मध्येऽभ्यन्तरमन्तरम् ॥ ५९ ॥
6.59 · p. 254
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ध्य (wrong syllable)
अन्तरालं, समं तुल्ये समानं सदृशं सदृक् ।सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥ ६० ॥
6.60 · p. 254
अनुष्टुप्
औपम्यमुपमामुक्तेऽनुपमं स्यादनोपमम् ।कथ्यते त्वर्चा प्रतिमा प्रतिमानमयोमयी ॥ ६१ ॥
6.61 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्चा (wrong syllable)
शूर्मिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि ।वामे वि-प्रतितो लोममपष्ठूरमपष्ठुरम् ॥ ६२ ॥
6.62 · p. 254
अनुष्टुप्
प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् ।अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् ॥ ६३ ॥
6.63 · p. 254
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 न्य (wrong syllable)
मिश्रे करम्बः कबरम्, तूर्णे त्वरित-सत्त्वरे ।संपातपाटवे झम्पा झम्पोऽजस्रे तु संततम् ॥ ६४ ॥
6.64 · p. 254
अनुष्टुप्
सततं चानवरता-ऽविरते स्यादनारतम् ।सङ्कुले त्वाकुलं कीर्णं समाङ्भ्या कीर्णमित्यपि ॥ ६५ ॥
6.65 · p. 254
अनुष्टुप्
भरिते प्राणं पूर्णं च पूर्तं पूरितं छादितम् ।छन्नं, त्यक्ते विधुतवद्धूतं, विन्नं विचारिते ॥ ६६ ॥
6.66 · p. 254
अनुष्टुप्metre not read in every line
वित्तं च, पिहिते छन्नं छादितं संवृताऽवृते ।अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥
6.67 · p. 255
अनुष्टुप्
व्यवधाऽन्तर्द्धिरन्तर्धा, नाऽऽदृते मत-मानिते ।अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥
6.68 · p. 255
अनुष्टुप्
असुक्षणमसुर्क्षणमसूर्क्षणमसूक्षणम् ।कम्पिते तु धुतं धूतं प्रेङ्खोलितं च प्रेङ्खितम् ॥ ६९ ॥
6.69 · p. 255
metre not recognised
अन्दोलने भवेद्दोला प्रेङ्खा प्रेङ्खोलनं समे ।दोलके मता दोलेरिते निष्ठ्यूतमात्तठम् ॥ ७० ॥
6.70 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नुन्न-नुत्ते, मुषिते तु मूषितं, गुणिते पुनः ।आहताऽनाहते मृषार्थके ताडितकेऽपि च ॥ ७१ ॥
6.71 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 षि (wrong syllable); pāda 3, syllable 7 मृ (wrong syllable)
तेजिते निशातं शातं निशितं शितमित्यपि ।वृते तु वृत्त-वावृत्ते, ह्रीतं ह्रीणं च लज्जिते ॥ ७२ ॥
6.72 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
दग्धे तु प्रुष्टं प्लुष्टं च, तष्टं त्वष्टं तनूकृते ।छिद्रिते वेधितं विद्धं, विलीने विद्रुतं द्रुतम् ॥ ७३ ॥
6.73 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्टं (wrong syllable)
तन्तुसन्तते स्यूतो-ते ऊतं स्यूनं च स्योनवत् ।स्फोटने स्फुटनं तद्वद् भिदा, गीर्णो गिरिर्भवेत् ॥ ७४ ॥
6.74 · p. 255
अनुष्टुप्metre not read in every line
उद्यमे तु गूरणं स्याद् गुरणं च संगीर्णके ।श्रुतं संप्रत्याङ्भ्यः परमुर्यू-र्यु-ररीतः कृतम् ॥ ७५ ॥
6.75 · p. 255
metre not recognised
खण्डिते छेदितं छिन्नं छितं छातं दिताऽन्वितम् ।प्राप्ते तु भावितं भूतम्, भ्रष्टे पतित-पत्रके ॥ ७६ ॥
6.76 · p. 255
अनुष्टुप्
अतिक्रान्ते तीता-तीते, गवेषिते तु मार्गितम् ।मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते ॥ ७७ ॥
6.77 · p. 255
metre not recognised
क्लिन्ने कृन्नं सार्द्रमार्द्रं तिमितं स्तिमितं तथा ।दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥ ७८ ॥
6.78 · p. 255
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 यि (wrong syllable)
शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे ।विदिते बुधितं बुद्धं, स्यन्ने स्नुतं स्रुतं स्मृतम् ॥ ७९ ॥
6.79 · p. 256
metre not recognised
रक्षिते तु त्राणं त्रातं गुप्तं गोपायितं तथा ।वशक्रिया संवननं संवदनं, स्थितौ पुनः ॥ ८० ॥
6.80 · p. 256
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्रा (wrong syllable); pāda 4, syllable 3 द (wrong syllable)
आस्याऽऽसना, पर्यटनेऽटाट्याऽटाटाऽप्यटाट्यया ।वैपरीत्ये विपर्यासो विपर्यायोऽप्यनुक्रमे ॥ ८१ ॥
6.81 · p. 256
अनुष्टुप्
क्रमः परिपाटि-परीपाटी स्यादानुपूर्व्यवत् ।आनुपूर्वी, भवेदिष्टे निकामं च प्रकामवत् ॥ ८२ ॥
6.82 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ ।जृम्भणं त्रिषु जृम्भा स्यात्, परिष्वङ्गेऽङ्कपालिवत् ॥ ८३ ॥
6.83 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे ।महो महश्च सान्तं षण्, मेलके सङ्ग-सङ्गमौ ॥ ८४ ॥
6.84 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
साङ्गमोऽथो अनौद्धत्ये प्रश्रयः प्रशरोऽपि च ।आरम्भे क्रमः प्रोपाभ्यामुपोद्घात उद्घातवत् ॥ ८५ ॥
6.85 · p. 256
अनुष्टुप्metre not read in every line
उत्क्रमे व्युक्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने ।विप्रलम्भः, विप्रयोगो वियोगो विरहे स्मृतः ॥ ८६ ॥
6.86 · p. 256
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
सामान्ये तु जातिर्जातम्, स्पर्धायां तु समः परौ ।हर्ष-घर्षौ च संक्राम-संक्रमौ दुर्गसञ्चरे ॥ ८७ ॥
6.87 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
जलतरणेऽपि, परिणामे विकृति-विक्रिये ।विकारः, घूर्णने घूर्णिर्भ्रान्तिर्भ्रमि-भ्रमावपि ॥ ८८ ॥
6.88 · p. 256
metre not recognised
लवने लवा-भिलावौ, निष्पावे पवनं पवः ।थूत्कृते ष्ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥ ८९ ॥
6.89 · p. 256
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
स्यान्निवृत्तावुपरमो व्युपाव्याङ्भ्यो रतिः परा ।विधूनने विधुवनं, ग्रहणे ग्राहवद्ग्रहः ॥ ९० ॥
6.90 · p. 256
अनुष्टुप्
वेधे व्यधः, क्षये क्षिया, स्फरण-स्फुरणे समे ।देवतार्थ्ये वर-वृती अथाऽव्ययगणस्मृतिः ॥ ९१ ॥
6.91 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्षि (wrong syllable)
स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः ।शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि ॥ ९२ ॥
6.92 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 पि (wrong syllable)
अधरदेशेऽधोऽधस्ताद्, वर्जने त्वन्तरेणवत् ।अन्तराऽन्तर्द्धा मध्ये हिरुक् कान्तं पृथक् पुनः ॥ ९३ ॥
6.93 · p. 257
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ध (wrong syllable); pāda 3, syllable 4 न्त (syllables merged)
कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि ।जोषं जोष्यं च सौख्येऽपि आनन्दे द्वयमिष्यते ॥ ९४ ॥
6.94 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष्णी (wrong syllable)
उपजोषं च समुपजोषं, सर्वासु दिक्ष्विह ।समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥
6.95 · p. 257
अनुष्टुप्
पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् ।शीघ्रे झटिति झगिति द्राक् प्राक् कान्ते समे मते ॥ ९६ ॥
6.96 · p. 257
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 टि (wrong syllable)
सर्वकाले शश्वत् सश्वत् पुनरर्थेपि, सर्वदा ।सदा सदं सनत् सनात् सना नित्यं च नित्यदा ॥ ९७ ॥
6.97 · p. 257
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable); pāda 3, syllable 7 स (wrong syllable)
वारवारेण च वारंवारमसकृदर्थके ।पुनःपुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् ॥ ९८ ॥
6.98 · p. 257
metre not recognised
सायं मान्तं दिनान्ते स्याद्दिने सान्तमुदन्तकम् ।द्युराकाशेऽपि च देवा, तत्क्षणे सपदीति च ॥ ९९ ॥
6.99 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
पदन्तं स्यादेकपदे, दीर्घकाले चिराच्चिरम् ।चिरेण चिररात्राय चिरायाऽपि चिरस्य च ॥ १०० ॥
6.100 · p. 257
अनुष्टुप्
रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि ।उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः ॥ १०१ ॥
6.101 · p. 257
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
अभ्यर्ण्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन ।मनाक् कान्तं, वितर्के किं किमूत किमुताऽपि च ॥ १०२ ॥
6.102 · p. 257
अनुष्टुप्
नुवै नु नुकं किंस्वित् स्विदाऽहोस्विदुताहो च ।आ हौ, हेतौ यद्यतो येन यदि तेन च तत् ततः ॥ १०३ ॥
6.103 · p. 258
अनुष्टुप्metre not read in every line
चैव, संबोधने पाट् प्याट् हंहो आहो अहो अपि ।है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥ १०४ ॥
6.104 · p. 258
अनुष्टुप्
हो हौ व्यस्तौ समस्तौ च ह्वानेऽपि, अररे अरै ।भोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥ १०५ ॥
6.105 · p. 258
अनुष्टुप्metre not read in every line
आह्वानेऽपि, ऊ ओ हूतावपि देवहविर्हुतौ ।श्रौषट् वोषट् वषट् वट् वाट् वड्, मध्ये त्वन्तराऽन्तरे ॥ १०६ ॥
6.106 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ऊ (wrong syllable)
अन्तरेणाऽन्तरभावे, अ ना नो नहिकं नहि ।नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे ॥ १०७ ॥
6.107 · p. 258
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
आशङ्केऽथाऽभ्युपगमे ओं अमाऽऽमां द्वे अन्तिमे ।अवधारणेऽप्युमपाने इव एव च वा इव ॥ १०८ ॥
6.108 · p. 258
metre not recognised
वत्, पक्षान्तरे चेत्, चाऽवधृतौ वा वैव मेव च ।द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥ १०९ ॥
6.109 · p. 258
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable); pāda 4, syllable 3 मि (wrong syllable)
आनुपूर्व्ये अनुषगाऽनुषद्, संशयप्रश्नयोः ।किम् कीम्, विनियोगाचारातिक्रमयोस्तु हा हवत् ॥ ११० ॥
6.110 · p. 258
metre not recognised
प्रैषानुमानप्रतीक्षासमाप्तिषु वावदिति ।त्वावन् वावद्वियोगे च पादपूर्तौ वेद्वाद् -वदौ ॥ १११ ॥
6.111 · p. 258
metre not recognised
दान्ताः प्रश्ने वितर्के च प्रशंसायामिमौ मतौ ।कूपत्सूपत्, विशेषे स्यात् न्वै तुवै तु च कुत्सने ॥ ११२ ॥
6.112 · p. 258
अनुष्टुप्
विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः ।अहहा अहह उभौ, वर्जने च निषेधने ॥ ११३ ॥
6.113 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 अ (wrong syllable)
नकिर्, नकिस् माकिर् माकिस्, सत्ये हिंसाप्रशंसयोः ।प्याट् पाट्, कोपे च पीडायां मत् आस् च रहसि त्विमौ ॥ ११४ ॥
6.114 · p. 258
अनुष्टुप्
मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे ।हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः ॥ ११५ ॥
6.115 · p. 259
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 थस् (syllables merged); pāda 3, syllable 6 षे (wrong syllable)
हा है विस्मये ही हे है स्मरणे आ च आस् तथा ।तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं समे मते ॥ ११६ ॥
6.116 · p. 259
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ये (wrong syllable); pāda 3, syllable 5 न्तुं (wrong syllable)
गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् ।अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् ॥ ११७ ॥
6.117 · p. 259
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable); pāda 3, syllable 2 भि (wrong syllable)
अव्यक्ते ईम् शीम्, मर्षे पादपूर्तौ च, सीमिति ।भार्यायां क्षम् गम् ऊम्, त्रीण्यूर्यादावाङ्गीकृतौ भृशे ॥ ११८ ॥
6.118 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ईम् (syllables merged)
विस्तारेऽनुकरणे च प्रशंसायामुरर्युरी ।उरुरी उरी चत्वारि, हिंसायां कथिता अमी ॥ ११९ ॥
6.119 · p. 259
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 5 री (wrong syllable)