All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · पुल्लिँङ्गाध्यायः (1/2)
इति द्व्यक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
अथ द्व्यक्षरकाण्डे पुल्लिँङ्गाध्यायः ।
अथ पुंसि विरिञ्चाख्या रुद्राक्षे स्युश्चतुर्मुखे ।तस्मिन् पञ्चमुखे शम्भोः कुमारस्य तु षण्मुखे ॥ १ ॥
2.2.1 · p. 21
अनुष्टुप्
गुग्गुलूलूककुटजेष्विन्द्रस्याग्नेस्तु चित्रके ।भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥
2.2.2 · p. 21
अनुष्टुप्
कर्पूरकाम्पिल्लकयोरिन्दोर्वज्रस्य हीरके ।कुबेरस्य तु पर्याया वन्दाके क्षीरवृक्षजे ॥ ३ ॥
2.2.3 · p. 21
अनुष्टुप्
मुस्तेऽभ्रकेऽम्बुदस्याथ शैलेये धरणीभृतः ।अर्थः फले धने शास्त्रे वस्तुमात्रे प्रयोजने ॥ ४ ॥
2.2.4 · p. 21
अनुष्टुप्
हृदये साधने मोक्षे कार्यैश्वर्यनिवृत्तिषु ।वाच्ये हेतावभिप्राये याचने च हलायुधः ॥ ५ ॥
2.2.5 · p. 21
अनुष्टुप्
अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः ।रूपकाणां विशेषे च नाटकादेश्च पर्वसु ॥ ६ ॥
2.2.6 · p. 21
अनुष्टुप्
उरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे ।वत्सरे मुस्तकेऽथाब्दः(?) पुरोडाशर्षिभेदयोः ॥ ७ ॥
2.2.7 · p. 21
अनुष्टुप्
वृक्षावयवभेदे च स्यादगो गिरिवृक्षयोः ।अश्नोऽभ्रे भूधरेऽथाभो(?)वायावात्मन्यथार्कवाक् ॥ ८ ॥
2.2.8 · p. 21
अनुष्टुप्
व्याधौ शशाङ्केऽप्यद्रिस्तु शैले सूर्ये द्रुमेऽम्बुदे ।अङ्घ्रिः पादपमूले च प्राणिनां चरणेऽपि च ॥ ९ ॥
2.2.9 · p. 21
अनुष्टुप्
अन्धुरूधसि कूपेऽपि व्रणेऽक्षुस्त्वब्धिवप्रयोः ।असुध्वनिस्तु प्रज्ञायामसवो भूम्नि जीविते ॥ १० ॥
2.2.10 · p. 21
अनुष्टुप्
अप्तुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः ।आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥
2.2.11 · p. 21
अनुष्टुप्
व्यसने बन्धके चेति चतुर्ष्वर्थेषु कीर्तितः ।आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि ॥ १२ ॥
2.2.12 · p. 22
अनुष्टुप्
देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते ।धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥
2.2.13 · p. 22
अनुष्टुप्
इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि ।विशेषतः स्यादेकस्मिन् परमात्मनि पादपे ॥ १४ ॥
2.2.14 · p. 22
अनुष्टुप्
अश्मन्तकाह्वये क्ष्वेडविशेषे इति षट्स्वयम् ।पत्यौ च नामपूर्वोऽथो ईष्मो वायुवसन्तयोः ॥ १५ ॥
2.2.15 · p. 22
अनुष्टुप्
उत्सो व्योम्न्यम्बुधौ कूपे जलाधारान्तरेऽपि च ।ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे बाष्पे शषसहेषु च ॥ १६ ॥
2.2.16 · p. 22
अनुष्टुप्
ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च ।ज्ञानवृद्धे क्षपणकेऽप्यृतुस्तु शिशिरादिषु ॥ १७ ॥
2.2.17 · p. 22
अनुष्टुप्
गर्भग्रहणयोग्ये च काले स्त्रीणां रजस्यपि ।ओघः परम्परायां स्याज्जलस्रोतसि सञ्चये ॥ १८ ॥
2.2.18 · p. 22
अनुष्टुप्
महाजलसमूहे च वाद्यादिद्रुतवर्तने ।क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥
2.2.19 · p. 22
अनुष्टुप्
मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके ।निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥
2.2.20 · p. 22
अनुष्टुप्
क्षवस्तु राजिकासंज्ञसर्षपे क्षवथावपि ।क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥
2.2.21 · p. 22
अनुष्टुप्
क्रियायां वसतेर्धातोर्हिंसायां गमनेऽपि च ।मन्दिरे चाथ कल्पः स्यान्न्याये देवद्रुमे विधौ ॥ २२ ॥
2.2.22 · p. 22
अनुष्टुप्
विभीतके विकल्पे च संवर्ते ब्रह्मणो दिने ।शास्त्रजातिविशेषे च सामर्थ्ये वर्णने तथा ॥ २३ ॥
2.2.23 · p. 22
अनुष्टुप्
छेदने कारणौपम्याधिवासेष्वथ कर्ववाक् ।अपाठि निष्पत्तिक्षेत्रे कन्दर्पे चेति कैश्चन ॥ २४ ॥
2.2.24 · p. 23
अनुष्टुप्
कलिर्विभीतके तस्य फलेऽनर्थे च संयुगे ।कलिर्निश्रीरिति प्राह शब्दविच्छाकटायनः ॥ २५ ॥
2.2.25 · p. 23
अनुष्टुप्
विवादमात्रे त्वजयः कलिशब्दमभाषत ।युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥ २६ ॥
2.2.26 · p. 23
अनुष्टुप्
कषिर्निकषपाषाणे धातौ स्यात् कषतावपि ।अश्वकर्णाख्यवृक्षे च काष्ठे चाथ क्रतुर्मखे ॥ २७ ॥
2.2.27 · p. 23
अनुष्टुप्
प्रज्ञाक्रियासङ्कल्पेष्वप्यथ काचोऽक्षिसंभवे ।उपतापविशेषे स्यात् तथा मृद्भेदशिक्ययोः ॥ २८ ॥
2.2.28 · p. 23
अनुष्टुप्
शिलायां चाथ काशिः स्यान्मुष्टौ काशाह्वये तृणे ।धातौ च काशतौ भूम्नि त्वेष स्यान्नीवृदन्तरे ॥ २९ ॥
2.2.29 · p. 23
अनुष्टुप्
किणो रूढव्रणस्थाने तथा स्यादासनान्तरे ।लक्षणं चासनस्यास्य वैजयन्त्यां यथाभ्यधात् ॥ ३० ॥
2.2.30 · p. 23
अनुष्टुप्
पद्मासनस्य पदयोः पाणिना पृष्ठगामिना ।वामेन दक्षिणाङ्गुष्ठं वामं त्वन्येन पीडयेत् ॥ ३१ ॥
2.2.31 · p. 23
अनुष्टुप्
वेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः ।क्षुरस्तु कोकिलाक्षाख्यस्तम्बे गोक्षुरनाम्नि च ॥ ३२ ॥
2.2.32 · p. 23
अनुष्टुप्
नापितस्योपकरणे कुटिस्तु वृषलालये ।पापे वृक्षेऽपि कुध्रस्तु समुद्रे पर्वतेऽपि च ॥ ३३ ॥
2.2.33 · p. 23
अनुष्टुप्
कुक्षिस्तुन्देऽन्तरुदरपार्श्वयोरपि दृश्यते ।इक्ष्वाकोः पूर्वराजस्य पुत्रे कस्मिंश्चिदप्यसौ ॥ ३४ ॥
2.2.34 · p. 23
अनुष्टुप्
कूष्मा तु वाताभावे च शल्ये च क्षेपवाक् पुनः ।क्षिप्तिनिन्दावहेलेषु केतुस्तु ध्वजचिह्नयोः ॥ ३५ ॥
2.2.35 · p. 23
अनुष्टुप्
प्रज्ञायां ग्रहभेदे च किरणे क्लेदुवाक् पुनः ।भङ्गे चन्द्रे शरीरे च क्षेत्रेऽथौषधिचन्द्रयोः ॥ ३६ ॥
2.2.36 · p. 24
अनुष्टुप्
मुखप्रसेके च क्लेदः क्षोदो रजसि चूर्णने ।क्षोदशब्दः समाम्नाये पठितो जलवाचकः ॥ ३७ ॥
2.2.37 · p. 24
अनुष्टुप्
कोरो वृक्षाङ्कुरे बालपुष्पे चाथ खुरः शफे ।शुक्तिसंज्ञौषधे चाथ खेदिः स्यात् किरणे तथा ॥ ३८ ॥
2.2.38 · p. 24
अनुष्टुप्
रश्मौ तुरङ्गमस्याथ गर्भोऽपवरकालये ।अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्त्वोः पनसकण्टके ॥ ३९ ॥
2.2.39 · p. 24
अनुष्टुप्
शिशावपत्ये शुक्रे च समूहे सारबीजयोः ।गन्धस्तु गन्धवद्द्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥
2.2.40 · p. 24
अनुष्टुप्
घ्राणस्य विषये लेशे तथा सम्ब(न्धि?न्ध)मात्रके ।गणो बहुत्वसङ्ख्यायां गणने प्रमथे व्रजे ॥ ४१ ॥
2.2.41 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे ध्वनौ ।अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥
2.2.42 · p. 24
अनुष्टुप्
इत्येवं तस्य याथात्म्यं समूलत्वं च चिन्त्यताम् ।गर्तस्तु स्यात् सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥ ४३ ॥
2.2.43 · p. 24
अनुष्टुप्
ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये ।वचस्यथ ग्रन्थिरिक्षुवेण्वादेः काण्डयोर्द्वयोः ॥ ४४ ॥
2.2.44 · p. 24
अनुष्टुप्
सन्धौ ग्रन्थनदेशे च रज्जुवस्त्रादिवस्तुनः ।रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥ ४५ ॥
2.2.45 · p. 24
अनुष्टुप्
सङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे ।शब्दभूतादिपूर्वस्तु व्रजे संवसथे तथा ॥ ४६ ॥
2.2.46 · p. 24
अनुष्टुप्
ग्रावा शैलशिलाभ्रेषु गुणो मौर्व्यप्रधानयोः ।उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥ ४७ ॥
2.2.47 · p. 25
अनुष्टुप्
सत्त्वादौ भाग आवृत्तौ सन्ध्यादौ द्रव्यमाश्रिते ।महाभूतेषु शौर्यादौ दोषस्य प्रतियोगिनि ॥ ४८ ॥
2.2.48 · p. 25
अनुष्टुप्
भारवाहकभेदे च वृद्धनाभौ च गोण्डवाक् ।घर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥ ४९ ॥
2.2.49 · p. 25
अनुष्टुप्
यज्ञे हविर्विशेषे च महावीरशृतेऽश्विनोः ।चयः समूहे प्राकारमूलके चयनेऽप्यथ ॥ ५० ॥
2.2.50 · p. 25
अनुष्टुप्
चरुः स्थाल्यां हव्यपाके मेघेऽथ च्यूपवाग्रवौ ।वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥ ५१ ॥
2.2.51 · p. 25
अनुष्टुप्
वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः ।ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥
2.2.52 · p. 25
अनुष्टुप्
रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि ।उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥ ५३ ॥
2.2.53 · p. 25
अनुष्टुप्
नृपभेदेऽप्यथो जायुः पित्ते स्याद्भेषजेऽपि च ।जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरम्बके ॥ ५४ ॥
2.2.54 · p. 25
अनुष्टुप्
केशविन्यासभेदेऽथ जोषः प्रीतौ च सेवने ।झाटः स्थावरभेदे च सङ्घातेऽप्यथ डिम्बवाक् ॥ ५५ ॥
2.2.55 · p. 25
अनुष्टुप्
डमरे पक्षिणामण्डेऽन्तःकुक्ष्यवयवान्तरे ।भागुरिः प्लीहनि प्राह तच्चिन्त्यं वैद्यके यतः ॥ ५६ ॥
2.2.56 · p. 25
अनुष्टुप्
भेदेनोपदिशन्त्येनौ शारीरे मुनिपुङ्गवाः ।तपस्तु बन्धनोपाये वीतंसाख्ये पतत्त्रिणाम् ॥ ५७ ॥
2.2.57 · p. 25
अनुष्टुप्
रवौ तर्कस्तु काङ्क्षोहवितर्केष्वथ तर्कवाक् ।सूत्रवेष्टशलाकायामनलाधारभाजने ॥ ५८ ॥
2.2.58 · p. 26
अनुष्टुप्
शेफस्यपीति शब्दज्ञास्त्रिष्वर्थेषु स्मरन्त्यमुम् ।त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥ ५९ ॥
2.2.59 · p. 26
अनुष्टुप्
तुस्तः प्रदीपने चैव जटायामपि कश्चन ।तूकः पर्वतजातौ स्यादुपस्थे चाप्यथो तृपत् ॥ ६० ॥
2.2.60 · p. 26
अनुष्टुप्
तृणभूमौ समुद्रे च चन्द्रे चाप्यथ दर्शवाक् ।दर्शनेऽपरपक्षान्तकार्यवैदिककर्मणि ॥ ६१ ॥
2.2.61 · p. 26
अनुष्टुप्
अमावास्यातिथौ चाथ दम इन्द्रियनिग्रहे ।दण्डे गृहे दवस्त्वग्नौ वनवह्न्युपतापयोः ॥ ६२ ॥
2.2.62 · p. 26
अनुष्टुप्
दावो दवाग्नावग्नौ च द्रुमस्त्वखिलशाखिषु ।नान्दिवृक्षे पारिजाते दृतिस्त्वम्बुदजिह्वयोः ॥ ६३ ॥
2.2.63 · p. 26
अनुष्टुप्
भस्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् ।ओदनानडुहोर्धातुशब्दस्तु धनलोहयोः ॥ ६४ ॥
2.2.64 · p. 26
अनुष्टुप्
स्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे ।अस्थ्नि स्वभाव आकारे स्याद्भूवादिसुबन्तयोः ॥ ६५ ॥
2.2.65 · p. 26
अनुष्टुप्
वातादिशब्दस्पर्शादिगैरिकादित्वगादिषु ।महाभूतेष्विन्द्रियेषु पादे पञ्चाक्षरे तथा ॥ ६६ ॥
2.2.66 · p. 26
अनुष्टुप्
महानाम्न्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् ।नगो गिरौ तरौ नस्र ऋषौ नासापुटेऽप्यथ ॥ ६७ ॥
2.2.67 · p. 26
अनुष्टुप्
नमिर्नमतिधातौ च जैनतीर्थकरान्तरे ।स्याद्विद्याधरराजेऽथ नाशो ध्वंसे पलायने ॥ ६८ ॥
2.2.68 · p. 26
अनुष्टुप्
मृतावदर्शने नाकुः स्याद्वल्मीके वनस्पतौ ।पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ६९ ॥
2.2.69 · p. 26
अनुष्टुप्
पार्श्वद्वारे विरोधेऽर्धमासे चुल्लीबिलेऽन्तिके ।हस्तिपार्श्वे परिज्ञाने केशशब्दात् परश्चये ॥ ७० ॥
2.2.70 · p. 27
अनुष्टुप्
पणो विक्रय्यशाकादिबद्धमुष्टौ ग्लहे धने ।द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥ ७१ ॥
2.2.71 · p. 27
अनुष्टुप्
मूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् ।प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥
2.2.72 · p. 27
अनुष्टुप्
शाणस्य नेत्रे स्वर्णादिकृतदीर्घाच्छपत्रके ।गुवाकनालिकेरादिपत्रमूलस्थवेष्टके ॥ ७३ ॥
2.2.73 · p. 27
अनुष्टुप्
पर्पः शङ्खेऽम्बुधौ वस्त्रे प्लक्षस्तु तरुषु त्रिषु ।अश्वत्थे पर्कटीसंज्ञे गर्दभाण्डेऽप्यथो पविः ॥ ७४ ॥
2.2.74 · p. 27
अनुष्टुप्
वज्रे शस्त्रमुखे वायौ दृश्यर्थे त्वव्ययं पशु ।पुमान् मृगादौ छगले हर्षनन्दी त्ववोचत ॥ ७५ ॥
2.2.75 · p. 27
अनुष्टुप्
ग्राम्येऽप्यमुक्तात्मसु तु वयं ब्रूमोऽथ पादवाक् ।किरणे चरणे वृक्षमूलेऽद्रेः प्रान्तपर्वते ॥ ७६ ॥
2.2.76 · p. 27
अनुष्टुप्
तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च ।प्रासस्तु प्रासने कुन्तसमाख्ये चायुधान्तरे ॥ ७७ ॥
2.2.77 · p. 27
अनुष्टुप्
पाणिः पलचतुर्भागे हस्तेऽप्यथ भगे गुदे ।पायुः पाप्मा तु रोगे च दुरितेऽप्यथ पिण्डिवाक् ॥ ७८ ॥
2.2.78 · p. 27
अनुष्टुप्
निष्पीडितस्नेहपिण्डे पिष्टधानादिचूर्णके ।पिचुस्तूले कर्षमाने पितुस्त्वन्नविरिञ्चयोः ॥ ७९ ॥
2.2.79 · p. 27
अनुष्टुप्
सूर्येऽपि सज्जनः पीकः पुनर्योनौ जलाशये ।प्रुक्षिः स्यादुदपानेऽग्नौ प्लुक्षिरग्निकुसूलयोः ॥ ८० ॥
2.2.80 · p. 28
अनुष्टुप्
अन्नसङ्ग्रामयोः पृक्षं समाम्नाये समामनत् ।प्रैषस्तु प्रेषणे मर्दे बन्धस्त्वाधौ च बन्धने ॥ ८१ ॥
2.2.81 · p. 28
अनुष्टुप्
सीसाख्यलोहभेदे च वैजयन्त्यामपाठि सः ।बुध्नः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ॥ ८२ ॥
2.2.82 · p. 28
अनुष्टुप्
वृक्षादेरप्यवाग्भागे भ्रमस्तु विचिकित्सने ।मिथ्याज्ञाने गृहादेश्च निर्गमद्वारि वारिणः ॥ ८३ ॥
2.2.83 · p. 28
अनुष्टुप्
शस्त्रमार्जनयन्त्रे च तथा भ्रमणकर्मणि ।अदन्तो भर्गशब्दोऽयं सामभेदे महेश्वरे ॥ ८४ ॥
2.2.84 · p. 28
अनुष्टुप्
भरस्त्वतिशये भारे सङ्ग्रामे गरिमण्यपि ।भारः सहस्रद्वितये पलानां च गरिम्णि च ॥ ८५ ॥
2.2.85 · p. 28
अनुष्टुप्
वोढव्ये भरणे चाथ ज्येष्ठभ्रातरि भास्करे ।भावोऽथ भातुवाग्दैवे शरीरावयवेऽपि च ॥ ८६ ॥
2.2.86 · p. 28
अनुष्टुप्
भुजिर्भुनक्तिधातौ स्यात् पावके भुजतावपि ।भुजस्तु गरुडेऽर्काग्न्योर्भ्रूणस्त्वर्भकभूपयोः ॥ ८७ ॥
2.2.87 · p. 28
अनुष्टुप्
गर्भिण्यां स्त्रैणगर्भे च ब्राह्मण्यां श्रोत्रियद्विजे ।आर्ये यतौ च केचित् तु प्राहुर्ब्राह्मणमात्रके ॥ ८८ ॥
2.2.88 · p. 28
अनुष्टुप्
भूभृद्गिरौ नृपेऽथाद्रितट ऋष्यन्तरे भृगुः ।भेदो विशेषे व्यावृत्तावुपजापे विदारणे ॥ ८९ ॥
2.2.89 · p. 28
अनुष्टुप्
भेनस्तु चन्द्रे सूर्ये च भोगो राज्ये धने सुखे ।रक्षणेऽभ्यवहारे च सर्पस्य फणकाययोः ॥ ९० ॥
2.2.90 · p. 28
अनुष्टुप्
वेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् ।ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥ ९१ ॥
2.2.91 · p. 28
अनुष्टुप्
मन्थो मथनदण्डे च द्रवसिक्तेषु सक्तुषु ।मखो यज्ञे यशस्कामसत्रयाजिसुरान्तरे ॥ ९२ ॥
2.2.92 · p. 29
अनुष्टुप्
मरुस्तु निर्जले देशे शैले चेक्ष्वाकुवंशजे ।पितामहेऽम्बरीषस्य नृपेऽपि च नृपान्तरे ॥ ९३ ॥
2.2.93 · p. 29
अनुष्टुप्
सोमवंशजहर्यश्वपुत्रे भूम्नि तु नीवृति ।दशेरकाख्ये मन्थी तु भास्करे राहुचन्द्रयोः ॥ ९४ ॥
2.2.94 · p. 29
अनुष्टुप्
गृहाख्यसोमपात्राणामेकस्मिन् यज्ञकारिणाम् ।माथस्तु मथने मार्गे मोक्षस्तु स्याद्विमोचने ॥ ९५ ॥
2.2.95 · p. 29
अनुष्टुप्
अपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे ।मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६ ॥
2.2.96 · p. 29
अनुष्टुप्
अजयस्त्वाह तन्द्रायामपि यज्ञस्तु केशवे ।अग्नावात्मनि योगे च यक्ष्मस्तु व्याधिमात्रके ॥ ९७ ॥
2.2.97 · p. 29
अनुष्टुप्
क्षयरोगे पूजने च यक्ष्मा तु व्याधिमात्रके ।क्षयरोगे च यागस्तु यज्ञेऽप्यागमवेदिनाम् ॥ ९८ ॥
2.2.98 · p. 29
अनुष्टुप्
शैवानां प्रथितेषु स्यात् सर्वतोभद्रकादिषु ।मण्डलेष्वथ यावः स्यान्मासेऽलक्तकसंज्ञके ॥ ९९ ॥
2.2.99 · p. 29
अनुष्टुप्
रागद्रव्ये च योगस्तु ध्यानयोजनकर्मणि ।भेषजे सङ्गतौ प्राप्तौ जवे विस्रब्धघातिनि ॥ १०० ॥
2.2.100 · p. 29
अनुष्टुप्
केचित् सन्नहनोपाय इत्येकार्थं प्रचक्षते ।अन्ये सन्नहनेऽप्याहुरुपाये चेति केचन ॥ १०१ ॥
2.2.101 · p. 29
अनुष्टुप्
रदो विलेखने दन्तेऽप्यथादन्तो रजध्वनिः ।रजः संज्ञगुणे पांसौ स्त्रीपुष्पेऽप्यजयोऽब्रवीत् ॥ १०२ ॥
2.2.102 · p. 29
अनुष्टुप्
रागोऽनुरागे मात्सर्ये रक्तवर्णे रजस्यपि ।लाक्षादिरञ्जनद्रव्ये दीप्तौ क्लेशादिकेऽपि च ॥ १०३ ॥
2.2.103 · p. 29
अनुष्टुप्
अजयस्तु वदत्यत्र लोहितादिष्वितीदृशम् ।गीतिधर्मविशेषे च लवस्तूच्छेदकर्मणि ॥ १०४ ॥
2.2.104 · p. 30
अनुष्टुप्
लेशे कालविशेषे च काष्ठाया द्विगुणेऽथ सः ।लिङ्गुर्गोत्रान्तरे मस्तौ चित्ते लेपस्तु भोजने ॥ १०५ ॥
2.2.105 · p. 30
अनुष्टुप्
लिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने ।वर्गः समानां निवहे वज्रे शक्त्याह्वये बले ॥ १०६ ॥
2.2.106 · p. 30
अनुष्टुप्
तावत्कृत्वः कृतौ चाथ व(र्णो?र्णुः) जनपदान्तरे ।वेदे नदविशेषे च सहस्रकिरणेऽपि च ॥ १०७ ॥
2.2.107 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वारः क्रियाभ्यावृत्तौ स्यात् समूहेऽवसरे तथा ।कालभेदे नृपादीनां चारे चेत्याह कश्चन ॥ १०८ ॥
2.2.108 · p. 30
अनुष्टुप्
वाजोऽन्ने पक्षिपक्षे च वेगे सङ्ग्रामरेतसोः ।इषुच्छदावलौ चैके व्याजश्छद्मापदेशयोः ॥ १०९ ॥
2.2.109 · p. 30
अनुष्टुप्
विधिर्दैवे विरिञ्चे च काले कल्पे विधानके ।विधातव्येऽप्यथो विष्णुर्मेघे यज्ञे च केशवे ॥ ११० ॥
2.2.110 · p. 30
अनुष्टुप्
तस्यावतारभेदे च वामनाख्येंऽशुमालिनाम् ।द्वादशानामन्यतमे चन्द्रे च व्रीहिवाक् पुनः ॥ १११ ॥
2.2.111 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
धान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे ।विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥
2.2.112 · p. 30
अनुष्टुप्
वृष आर्द्रक ओषध्यां बले च लशुनेऽपि च ।वृत्तौ तु मुष्कफलयोः कोष्ठावयवभेदयोः ॥ ११३ ॥
2.2.113 · p. 30
अनुष्टुप्
वृषा तु वृषभे शक्रे श्रेष्ठे पुंसि तुरङ्गमे ।छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥
2.2.114 · p. 30
अनुष्टुप्
वीर्ये सोमविशेषेऽथ वेगः किम्पाकरहसोः ।प्रवाहे च प्रभावे च वाते रेतसि चाप्यथ ॥ ११५ ॥
2.2.115 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 र (wrong syllable)
वेषः क्रियायामाकल्पे वेणुर्वंशद्रुमे नृपे ।शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ ॥
2.2.116 · p. 30
अनुष्टुप्
शम्बो वज्रे लोहमये वलये मुसलाग्रगे ।अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात् कृषाविति ॥ ११७ ॥
2.2.117 · p. 31
अनुष्टुप्
शण्डो नपुंसके दध्नि चेत्येकेषामिदं मतम् ।एष च प्रतिपत्तव्यस्तालव्योष्मादिवर्णकः ॥ ११८ ॥
2.2.118 · p. 31
अनुष्टुप्
शक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् ।हरे हरौ विरिञ्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥
2.2.119 · p. 31
अनुष्टुप्