All kośas › Śāradīyākhyanāmamālā
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā
462 verses · 4,677 words tagged · 226 marked doubtful (dashed)
द्वितीयः काण्डः · पण्डितवर्गः
॥ इति श्रीसंगीतवर्गः ॥
पण्डितः कोविदः प्राज्ञो धीमान्विद्वान्बुधः सुधीः ।कृती मनीषी मेधावी कविः सूरिर्विशारदः ॥ ११४ ॥
2.4.114 · p. 31
अनुष्टुप्
कृष्टिर्विपश्चित्संख्यावान्दोषज्ञो ज्ञो विचक्षणः ।प्रवीणश्चतुरो विज्ञो विदग्धः कुशलः पटुः ॥ ११५ ॥
2.4.115 · p. 31
अनुष्टुप्
निष्णातो निपुणो दक्षो लब्धलक्षः सुशिक्षितः ।छेको नागरिकः सुज्ञो वाग्मी व्युत्पन्न एव च ॥ ११६ ॥
2.4.116 · p. 31
अनुष्टुप्
मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ ।शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥
2.4.117 · p. 31
अनुष्टुप्
उपाध्यायोऽव्यापकश्चोपदेष्टा पाठको गुरुः ।आचार्यः शिक्षकः शास्तानूचानः साङ्गशास्रवित् ॥ ११८ ॥
2.4.118 · p. 31
अनुष्टुप्
शिष्यश्छात्रो विनेयोऽन्तेवासी शैक्षश्च दीक्षितः ।आस्तिकः श्रावकः श्राद्धः स्याच्छ्रद्धालुरुपासकः ॥ ११९ ॥
2.4.119 · p. 31
अनुष्टुप्
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
2.4.120 · p. 31
अनुष्टुप्
नतिः प्रणामः प्रणतिर्नमस्कारोऽभिवादनम् ।वन्दनं प्रणिपातश्च नमस्या च नमस्क्रिया ॥ १२१ ॥
2.4.121 · p. 31
अनुष्टुप्
भक्तिः सेवा च सु[शु]श्रूषा परिचर्या प्रसादना ।वरिवस्याराधनोपास्तिर्विनयः समुपासनम् ॥ १२२ ॥
2.4.122 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 र्विन (syllable split)
पूजार्हणा सपर्यार्चोपहारोऽपचितिर्बलिः ।सन्मानादरसत्कारा अभ्युत्थानं च गौरवम् ॥ १२३ ॥
2.4.123 · p. 31
अनुष्टुप्
उपग्राह्यं ढौकनिका प्राभृतोपायनोपदाः ।आज्ञा नियोग आदेशो निर्देशः शासनं वचः ॥ १२४ ॥
2.4.124 · p. 32
अनुष्टुप्
वाचा संधा प्रतिज्ञागूः संगरः संविदाश्रवः ।आम्नायः संप्रदायश्च गुरुक्रमः परंपरा ॥ १२५ ॥
2.4.125 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
प्रशंसा वर्णना श्लाघा स्तवः स्तोत्रं स्तुतिर्नुतिः ।कीर्तिः श्लोको यशो वर्णः साधुवादः समाज्ञया ॥ १२६ ॥
2.4.126 · p. 32
अनुष्टुप्
उपक्रोशोऽवर्णवादः कौलीनं वचनीयता ।जुगुप्सा गर्हणा निन्दा निर्वादश्चापवादवत् ॥ १२७ ॥
2.4.127 · p. 32
अनुष्टुप्
अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा ।गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥
2.4.129 · p. 32
अनुष्टुप्
अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥
2.4.130 · p. 32
अनुष्टुप्
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
2.4.131 · p. 32
अनुष्टुप्
किल्बिषं कल्मषं पापमेनः पाप्मा च पातकम् ।दुरितं वृजिनं पङ्कमघमंहश्च दुःकृतम् ॥ १३२ ॥
2.4.132 · p. 32
अनुष्टुप्
असत्यं वितथं कूटं मिथ्यालीकं मृषानृतम् ।सत्यं तथ्यमृतं सम्यक् सूनृतं च यथास्थितम् ॥ १३३ ॥
2.4.133 · p. 32
अनुष्टुप्
विधिः कल्पाचारमार्गा वृत्तं शीलं स्वभाववत् ।क्षान्तिः क्षमा तितिक्षा च तपस्या नियमस्तपः ॥ १३४ ॥
2.4.134 · p. 32
अनुष्टुप्
उपवासश्चोपवस्तं व्रतं नियमपालनम् ।समाधिर्धारणा ध्यानं प्रणिधानं च चिन्तनम् ॥ १३५ ॥
2.4.135 · p. 33
अनुष्टुप्
बुद्धिर्मेधा मतिः प्रज्ञा धिषणा धीश्च शेमुषी ।मनीषा प्रतिभा ज्ञप्तिः प्रेक्षा पण्डा च चेतना ॥ १३६ ॥
2.4.136 · p. 33
अनुष्टुप्
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
2.4.137 · p. 33
अनुष्टुप्
सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् ।समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥
2.4.138 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वाध्यायः पठनं पाठोऽधीतिरध्ययनं पठः ।जाप्यं जापो जपो मन्त्रे मानसे वचनेऽपि च ॥ १३९ ॥
2.4.139 · p. 33
अनुष्टुप्
शब्दो नादो ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः ।निर्ह्राद आरवो रावो निनादो निनदोऽपि च ॥ १४० ॥
2.4.140 · p. 33
अनुष्टुप्
प्रतिनादः प्रतिशब्दः प्रतिध्वानं प्रतिश्रुतिः ।निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् ॥ १४१ ॥
2.4.141 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
दैवज्ञो गणको ज्ञानी मौहूर्तिको निमित्तवित् ।सांवत्सरो ज्योतिषिको ज्योतिर्वित्प्रश्नविच्च सः ॥ १४२ ॥
2.4.142 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ति (wrong syllable)
चिकित्सिको भिषग्वैद्योऽगदंकारश्च रोगहृत् ।चिकित्सितज्ञो दोषज्ञ आयुर्वेदस्तु वैद्यकः ॥ १४३ ॥
2.4.143 · p. 33
अनुष्टुप्
ऋग्वेदश्च यजुर्वेदः सामवेदोऽप्यथर्वणः ।शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ १४४ ॥
2.4.144 · p. 33
अनुष्टुप्
षडङ्गा वेदाश्वत्वारो मीमांसान्विक्षिकी तथा ।धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ १४५ ॥
2.4.145 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
देवालयो देवगृहं चैत्यमायतनं मठः ।बिम्बं मूर्तिः प्रतिमार्चा महः पर्व महोत्सवः ॥ १४६ ॥
2.4.146 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
जैना मीमांसका बौद्धाः शैवा वैशेषिका अपि ।नैयायिकाश्च मुख्यानि दर्शनानीह सन्ति षट् ॥ १४७ ॥
2.4.147 · p. 34
अनुष्टुप्
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
2.4.148 · p. 34
अनुष्टुप्
कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् ।क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥
2.4.149 · p. 34
अनुष्टुप्
स्वागतं स्वस्तिभेदं च स्वास्थ्यं वार्तमनामयम् ।सदा ददातु सानन्दं चिदानन्दो जगत्प्रभुः ॥ १५० ॥
2.4.150 · p. 34
अनुष्टुप्