कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्यवधा

vyavadhāस्त्री · fem.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1478 · p. 56
अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् ।संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ ॥अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् ।छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ १४७७ ॥व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् ।आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.15
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.165 · p. 398
अन्तर्द्धा व्यवधा स्त्रीत्वेऽप्यन्तर्द्धिर्व्यवधिः पुमान् ।अन्तर्द्धानतिरोधाने च्छदनाच्छादने अपि ॥ १६५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.15 · p. 27
मेघास्थि बीजोऽब्धिकफः करका स्यात्त्रिलिङ्गका ।पृष्वा तु स्यात्स्त्रियां धाराङ्कुर-शीकर-सीकराः ॥वातास्तमप्यथावर्षेऽवग्राहोऽवग्रहमथ ।अन्तर्द्धिर्व्यवधिः पुंसि स्त्र्यन्तर्धा व्यवधाऽपिधा ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ह (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.357 · p. 96
स्थगितं तिरोहितं च पिधानस्थगने समे ।छदनं च तिरोधानं व्यवधा दर्शिऽतेप्यथ ॥ ३५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2685 · p. 434
व्यवधा व्यवधानञ्च छदनमपवारणम् ।स्थगनं चेति नामानि ह्यन्तर्धानस्य सन्ति वै ॥ २६८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.190 · p. 14
अन्तर्धिर्व्यवधिः पुंसि त्वन्तर्धा व्यवधा स्त्रियाम् ।अपिधानं तिरोधानं च्छादनं चापवारणम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.68 · p. 255
व्यवधाऽन्तर्द्धिरन्तर्धा, नाऽऽदृते मत-मानिते ।अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.220 · p. 30
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.